भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.76

13.76.1

ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः ।
इदमन्तरमित्येवमभ्यगात्तमथाश्रमम् ॥

13.76.2

रूपमप्रतिमं कृत्वा लोभनीयं जनाधिपः ।
दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥

13.76.3

स ददर्श तमासीनं विपुलस्य कलेबरम् ।
निश्चेष्टं स्तब्धनयनं यताऽलेख्यगतं तथा ॥

13.76.4

रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् ।
पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम् ॥

13.76.5

सा तमालोक्य सहसा प्रत्युत्तातुमियेष ह ।
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिवेच्छती ॥

13.76.6

उत्थातुकामा तु सती विष्टव्धा विपुलेन सा ।
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥

13.76.7

तामाबभाषे देवेन्द्रः साम्ना परमवल्******* ।
त्वदर्थमागतं विद्धि देवेन्द्र मां शुचिस्मिते ॥

13.76.8

क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पभवेन ह ।
तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ॥

13.76.9

तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः ।
गुरुपत्नयाः शरीरस्थो ददर्श त्रिदसाधिपम् ॥

13.76.10

न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता ।
वक्तुं च नाशकद्राजन्विष्टब्दा विपुलेन सा ॥

13.76.11

आकारं गुरुपत्न्यास्तु स विज्ञाय भृगूद्वहः । निजय्नाह महातेजा योगेन बलवत्प्रभो ।
बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥

13.76.12

तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः ।
उवाच व्रीहितो राजंस्तां योगबलमोहिताम् ॥

13.76.13

एह्येहीति ततः सा तु प्रतिवक्तुमियेष तम् ।
स तां वाच्यं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥

13.76.14

भोः किमागमने कृत्यमिति तस्यास्तु निःसृता ।
वक्त्राच्छशाङ्कसदृशाद्वाणी संस्कारभूषणा ॥

13.76.15

वीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा ।
पुरन्दरश्च सन्त्रस्तो बभूव विमना भृशम् ॥

13.76.16

स तद्वैकृतमालक्ष्य देवराजो विशाम्पते ।
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ॥

13.76.17

स ददर्श मुनिं तस्याः शरीरान्तरगोचरम् ।
प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ॥

13.76.18

स तं घोरेण तपसा युक्तं दृष्ट्वा पुरन्दरः ।
प्रावेपत सुसन्त्रस्तो व्रीडितश्च तदा विभो ॥

13.76.19

विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः ।
स्वकलेबरमाविश्य शक्रं भीतमथाब्रवीत् ॥

13.76.20

अजितेन्द्रिय दुर्बुद्धे पापात्मक पुरन्दर ।
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥

13.76.21

किन्नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् ।
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥

13.76.22

जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् ।
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥

13.76.23

नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा ।
कृपायमानस्तु न ते दग्धुमिच्छामि वासव ॥

13.76.24

स च घोरतमो धीमान्गुरुर्मे पापचेतसम् ।
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥

13.76.25

नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः ।
मा गमः ससुतामात्यः क्षयं ब्रह्मबलार्दितः ॥

13.76.26

अमरोस्मीति यद्बुद्धिं समास्थाय प्रवर्तते ।
मावमंस्था न तपसा न साध्यं नाम किञ्चन ॥
भीष्म उवाच ।

13.76.27

तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः ।
न किञ्चिदुक्त्वा व्रीडार्तस्तत्रैवान्तरधीयत ॥

13.76.28

मुहूर्तयाते तस्मिंस्तु देवशर्मा महातपाः ।
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥

13.76.29

आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् ।
रक्षितां गुरेव भार्यां न्यवेदयदनिन्दिताम् ॥

13.76.30

अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः ।
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥

13.76.31

विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया ।
निवेदयामास तदा विपुलः शक्रकर्म तत् ॥

13.76.32

तच्छुत्वा स मुनिस्तुष्टों विपुलस्य प्रतापवान् ।
बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥

13.76.33

विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि तत्प्रभुः ।
धर्मे च स्थिरतां दृष्ट्वा साधुसाध्वित्यभाषत ॥

13.76.34

प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् ।
वरेण च्छन्दयामास देवशर्मा महामतिः ॥

13.76.35

स्थितिं च धर्मे जग्राह स तस्माद्गुरुवत्सलः ।
अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥

13.76.36

तथैव देवशर्मापि सभार्यः स महातपाः ।
निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc