भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.72

13.72.1

अपूर्वं वा भवेत्पात्रमथवाऽपि चिरोषितम् ।
दूरादभ्यागतं वाऽपि किं पात्रं स्यात्पितामह ॥
भीष्म उवाच ।

13.72.2

क्रिया भवति केषाञ्चिदुपांशुव्रतमुत्तमम् ।
यो नो याचेत यत्किञ्चित्सर्वं दद्याम इत्यपि ॥

13.72.3

अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम ।
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ॥

13.72.4

अपूर्वं चापि यत्पात्रं यच्चापि स्याच्चिरोषितम् ।
दूरादभ्यागतं चापि तत्पात्रं न विदुर्बुधाः ॥
युधिष्ठिर उवाच ।

13.72.5

अपीडया च भूतानां धर्मस्याहिंसया तथा ।
पात्रं विद्यामतत्त्वेन यस्मै दत्तं न सन्तपेत् ॥
भीष्म उवाच ।

13.72.6

ऋत्विक्पुरोहिताचार्याः शिष्यसम्बन्धिबान्धवाः ।
सर्वे पूज्याश्च मान्याश्च श्रुतवन्तोऽनसूयकाः ॥

13.72.7

अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् ।
तस्माद्गुणैः परीक्षेत पुरुषान्प्रणिधाय वै ॥

13.72.8

अक्रोधः सत्यवचनमहिंसा दम आर्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥

13.72.9

यस्मिन्नोतानि दृश्यन्ते न चाकार्याणि भारत ।
स्वभावतो निविष्टानि तत्पात्रं मानमर्हति ॥

13.72.10

तथा चिरोषितं चापि सम्प्रत्यागतमेव च ।
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ॥

13.72.11

अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम् ।
अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः ॥

13.72.12

भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः ।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकां ॥

13.72.13

हेतुवादान्बुवन्सत्सु विजेताऽहेतुवादकः ।
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैवहि ॥

13.72.14

सर्वाभिशङ्की मूढश्च बालः कटुकवागपि ।
बोद्धव्यस्तादृशस्तात नरं श्वानं हि तं विदुः ॥

13.72.15

यथा श्वा भषितुं चैव हन्तु चैवावसज्जते । एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च ।
अल्पश्रुताः कुतर्काश्च दृष्टाः सृष्टाः कुपण्डिताः ॥

13.72.16

श्रुतिस्मृती चेतिहासपुराणारण्यवेदिनः । अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञाश्चैव पण्डिताः ॥

13.72.17

लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च ।
एवं नरो वर्तमानः शाश्वतीर्वर्धते समाः ॥

13.72.18

ऋणमुन्मुच्य देवानामृषीणां च तथैव च ।
पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ॥

13.72.19

पर्यायेण विमुक्तो यः सुनिर्णिक्तेन कर्मणा ।
एवं गृहस्थः कर्माणि कुर्वन्धर्मानन हीयते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc