भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.64

13.64.1

तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ । श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ।

13.64.2

पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ ।
वक्तुमर्हसि मे तानि श्रोताऽस्मि नियतं प्रभो ॥
भीष्म उवाच ।

13.64.3

इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते ।
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥

13.64.4

तपोवनगतं विप्रमभिगम्य महामुनिम् । पप्रच्छाङ्गिरसं धीरं गौतमः संशितव्रतः ।

13.64.5

अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः ।
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ॥

13.64.6

उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने ।
प्रेत्यभावे महाप्राज्ञ तद्यथाऽस्ति तथा वद ॥
अङ्गिरा उवाच ।

13.64.7

सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् ।
विगाह्य वै निराहारो निर्मलो मुनिवद्भवेत् ॥

13.64.8

काश्मीरमण्डले नद्यो याः पतन्ति महास्वनम् ।
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥

13.64.9

पुष्करं च प्रभासं च नैमिषं सागरोदकम् ।
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ॥

13.64.10

विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ।
हिरण्यबिन्दुमालक्ष्य प्रयतश्चाभिवाद्य च ॥

13.64.11

कुशेशये च देवत्वं धूयते तस्य किल्बिषम् ।
इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ ॥

13.64.12

करतोयां कुरुङ्गे च त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः ॥

13.64.13

गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥

13.64.14

अपां ह्रद उपस्पृश्य वाजिमेधफलं लभेत् ।
ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ॥

13.64.15

यत्र भागीरथी गङ्गा वहते दिशमुत्तरम् ।
महेश्वरस्य त्रिस्थाने यो नरस्त्वभिषिच्यते ॥

13.64.16

एकमासं निराहारः स पश्यति हि देवताः ।
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् ॥

13.64.17

अर्थान्वै लभते भोक्तुं यो नरो जायते पुनः ।
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः ॥

13.64.18

एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ।
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः ॥

13.64.19

त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ।
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः ॥

13.64.20

देवेषु लभते कीर्तिं यशसा च विराजते ॥

13.64.21

देविकायामुपस्पृश्य तथा सुन्दरिकाह्रदे ।
अश्विन्यां रूपवर्चस्कं प्रेत्य वै लभते नरः ॥

13.64.22

महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा ।
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥

13.64.23

वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा ।
निवासेऽप्सरसां दिव्ये कामचारी महीयते ॥

13.64.24

कालिकाश्रममासाद्य विपाशायां कृतोदकः ।
ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भवात् ॥

13.64.25

आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् ।
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥

13.64.26

महाकूपमुपस्पृश्य त्रिरात्रोपोषितः शुचिः ।
त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ॥

13.64.27

देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः ।
देवशब्दमवाप्नोति सप्तरात्रोषितः शुचिः ॥

13.64.28

शरस्तम्बे कुशस्तम्बे द्रोणशर्मपदे तथा ।
अपाम्प्रपतनासेवी सेव्यते सोप्सरोगणैः ॥

13.64.29

चित्रकूटे जनस्थाने तथा मन्दाकिनीजले ।
विगाह्य वै निराहारो राजलक्ष्म्या निषेव्यते ॥

13.64.30

श्यामायास्त्वाश्रमं गत्वा उषित्वा चाभिषिच्य च ।
एकपक्षं निराहारस्त्वन्तर्धानफलं लभेत् ॥

13.64.31

कौशिकीं तु समासाद्य वायुभक्षस्त्वलोलुपः ।
एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥

13.64.32

मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति ।
विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥

13.64.33

नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः ।
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥

13.64.34

गङ्गाह्रद उपस्पृस्य तथा चैवोत्पलावने ।
अश्वमेघमवाप्नोति तत्र मासं कृतोदकः ॥

13.64.35

गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ ।
दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः ॥

13.64.36

यष्टिह्रद उपस्पृश्य चान्नदानाद्विशिष्यते ॥

13.64.37

दशतीर्थसहस्राणि तिस्रः कोट्यस्तथाऽपराः ।
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ॥

13.64.38

माघमासं प्रयागे तु नियतः संशितव्रतः ।
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ॥

13.64.39

मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः ।
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ॥

13.64.40

तथा ब्रह्मसरो गत्वा भागीरथ्यां कृतोदकः ।
एकमासं निराहारः सोमलोकमवाप्नुयात् ॥

13.64.41

उत्पातके नरः स्नात्वा अष्टावक्रे कृतोदकः ।
द्वादशाहं निराहारो नरमेधफलं लभेत् ॥

13.64.42

अश्मपृष्ठे गयायां च निरविन्दे च पर्वते । तृतीयां क्रौञ्चपद्यां च ब्रह्महत्यां विशुध्यते

13.64.43

कलविङ्क उपस्पृश्य विद्याच्च बहुशो जलम् ।
अग्नेः पुरे नरः स्नात्वा अग्निकन्यापुरे वसेत् ॥

13.64.44

करवीरपुरे स्नात्वा विशालायां कृतोदकः ।
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ॥

13.64.45

पुनरावर्तनन्दां च महानन्दां च सेव्य वै ।
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥

13.64.46

उर्वशीं कृत्तिकायोगे गत्वा चैव समाहितः ।
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥

13.64.47

रामह्रद उपस्पृश्य विपाशायां कृतोदकः ।
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥

13.64.48

महाह्रद उपस्पृश्य शुद्धेन मनसा नरः ।
एकमासं निराहारो जमदग्निगतिं लभेत् ॥

13.64.49

विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः ।
विनयात्तप आस्थाय मासेनैकेन सिध्यति ॥

13.64.50

मुण्डे ब्रह्मगवा चैव निरिचिं देवपर्वतम् । देवह्रदमुपस्पृश्य ब्रह्मभूतो विराजते ।
कुमारपदमास्थाय मासेनैकेन शुध्यति ॥

13.64.51

नर्मदायामुपस्पृश्य तता शूर्पारकोदके ।
एकपक्षं निराहारो राजपुत्रो विधीयते ॥

13.64.52

जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः ।
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ॥

13.64.53

कोकामुखे विगाह्याथ गत्वा चाञ्जलिकाश्रमम् ।
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ॥

13.64.54

वैवस्वतस्य सदनं न स गच्छेत्कदाचन ।
यस्य कन्याह्रद वासो देवलोकं स गच्छति ॥

13.64.55

प्रभासे त्वेकरात्रेण अमावास्यां ममाहितः ।
सिद्ध्यते तु महाबाहो यो नरो जायतेऽमरः ॥

13.64.56

उज्जानक उपस्पृस्य आर्ष्टिषेणस्य चाश्रमे ।
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥

13.64.57

कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् ।
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः ॥

13.64.58

पिण्डारक उपस्पृश्य एकरात्रोषितो नरः ।
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ॥

13.64.59

तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् ।
पुण्डरीकमवाप्नोति उपस्पृश्य नरः शुचिः ॥

13.64.60

मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च ।
कामं जित्वा च वै मासं सर्वयज्ञफलं लभेत् ॥

13.64.61

कालोदकं नन्दिकुण्डं तथा चोत्तरमानसम् ।
अभ्येत्य योजनशताद्भूणहा विप्रमुच्यते ॥

13.64.62

नन्दीश्वरस्य मूर्ति तु दृष्ट्वा मुच्येत किल्बिषैः ।
स्वर्गमार्गे नरः स्नात्वा ब्रह्मलोकं स गच्छति ॥

13.64.63

विख्यातो हिमवान्पुण्यः शन्करश्वशुरो गिरिः ।
आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥

13.64.64

दर्शनाद्गमनात्पूतो भवेदनशनादपि । शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके ॥

13.64.65

अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः । अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा ।

13.64.66

ततः क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् ।
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥

13.64.67

यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च ।
मनसा तानि गम्यानि सर्वतीर्थसमीक्षया ॥

13.64.68

इदं मेध्यमिदं पुण्यमिदं स्वर्ग्यमनुत्तमम् ।
इदं रहस्यं वेदानामाप्लाव्यं पावनं तथा ॥

13.64.69

इदं दद्याद््द्विजातीनां साधोरात्महितस्य च । सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ।

13.64.70

दत्तवान्गौतमस्यैतदङ्गिरा वै महातपाः ।
अङ्गिराः समनुज्ञातः काश्यपेन च धीमता ॥

13.64.71

महर्षीणामिदं जप्यं पावनानां तथोत्तमम् ।
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ॥

13.64.72

इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् ।
उत्तमे च कुले जन्म लभेञ्जातीश्च संस्मरेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc