भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.55

13.55.1

श्रुतं वर्णावरैर्दत्तं हव्यं कव्यं च नारद ।
सम्प्रयोगे च पुत्राणां कन्यानां च ब्रवीहि मे ॥
नारद उवाच ।

13.55.2

कन्याप्रदानं प्रत्राणां स्त्रीणां संयोगमेव च ।
आनुपूर्व्यान्मया सम्यगुच्यमानं निबोध मे ॥

13.55.3

जातमात्रा तु दातव्या कन्यका सदृशे वरे ।
काले दत्तासु कन्यासु पिता धर्मेण युज्यते ॥

13.55.4

यस्तु पुष्पवतीं कन्यां बान्धवो न प्रयच्छति ।
मासिमासि गते बन्धुस्तस्या भ्रौणघ्न्यमाप्नुते ॥

13.55.5

यस्तु कन्यां गृहे रुन्ध्याद्ग्राम्यैर्भोगैर्विवर्जिताम् ।
अवध्यातः स कन्याया बन्धुः प्राप्नोति भ्रूणहाम् ॥

13.55.6

दूषिता पाणिमात्रेण मृते भर्तरि दारिका ।
संस्कारं लभते नारी द्वितीये सा पुनः पतौ ॥

13.55.7

पुनर्भूर्नाम सा कन्या सपुत्रा हव्यकव्यदा ।
अदूष्या सा प्रसूतीषु प्रजानां दारकर्मणि ॥
मार्कण्डेय उवाच ।

13.55.8

या तु कन्या प्रसूयेत गर्भिणी या तु वा भवेत् ।
कथं दारक्रियां भूयः सा भवेदृषिसत्तम ॥
नारद उवाच ।

13.55.9

तत्वार्थनिश्चितं शब्दं कन्यका नयतेऽग्नये ।
तस्मात्कुर्वन्ति वै भावं कुमार्यस्ता न कन्यकाः ॥

13.55.10

ब्रह्महत्यात्रिभागेन गर्भाधानविशोधितः ।
गृह्णीयात्तां चतुर्भागविशुद्धां सर्जनात्पुनः ॥
मार्कण्डेय उवाच ।

13.55.11

कथं कन्यासु ये जाता बन्धूनां दूषिताः सदा ।
कस्य ते हव्यकव्यानि प्रदास्यन्ति महामुने ॥
नारद उवाच ।

13.55.12

कन्यायास्तु पितुः पुत्राः कानीना हव्यकव्यदाः ।
अन्तर्वत्नयास्तु यः पाणिं गृह्णीयात्स सहोढजः ॥
मार्कण्डेय उवाच ।

13.55.13

अथ येनाहितो गर्भः कन्यायां तत्र नारद ।
कथं पुत्रफलं तस्य भवेदेतत्प्रचक्ष्व मे ॥
नारद उवाच ।

13.55.14

धर्माचारेषु ते नित्यं दूषकाः कृतशोधनाः ।
बीजं च नश्यते तेषां मोघचेष्टा भवन्ति ते ॥
मार्कण्डेय उवाच ।

13.55.15

अथ काचिद्भवेत्कन्या क्रीता दत्ता हृताऽपि वा ।
कथं पुत्रकृतं तस्यास्तद्भवेद्दषिसत्तम ॥
नारद उवाच ।

13.55.16

क्रीता दत्ता हृता चैव या कन्या पाणिवर्जिता । कौमारी नाम सा भार्या प्रसवेदौरसान्सुतान् ।
न पत्न्यर्थे शुभा प्रोक्ता तत्कर्मण्यपराजिते ॥
मार्कण्डेय उवाच ।

13.55.17

केन मङ्गलकृत्येषु विनियुज्यन्ति कन्यकाः ।
एतदिच्छामि विज्ञातुं तत्वेनेह महामुने ॥
नारद उवाच ।

13.55.18

नित्यं निवसते लक्ष्मीः कन्यकासु प्रतिष्ठिता ।
शोभना शुभयोग्या च पूज्या मङ्गलकर्मसु ॥

13.55.19

आकरस्थं यथा रत्नं सर्वकामफलोपगम् ।
तथा कन्या महालक्ष्मीः सर्वलोकस्य मङ्गलम् ॥

13.55.20

एवं कन्या परा लक्ष्मी रतिस्तोषश्च देहिनाम् ।
महाकुलानां चारित्रवृत्तेन निकषोपलम् ॥

13.55.21

आनयित्वा स्वकाद्वर्णात्कन्यकां यो भजेन्नरः ।
दातारं हव्यकव्यानां पुत्रकं या प्रसूयति ॥

13.55.22

साध्वी कुलं वर्धयति साध्वी पुष्टिग्रहे परा ।
साध्वी लक्ष्मी रतिः साक्षात्प्रतिष्ठा सन्ततिस्तथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc