भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.44

13.44.1

अहो श्रावितमाख्यानं भवताऽत्यद्भुतं महत् ।
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥

13.44.2

एतत्पवित्रं देवानामेतद्गुह्यं परन्तप ।
एतज्ज्ञानवता ज्ञेयमेषा गतिरनुत्तमा ॥

13.44.3

य इमां श्रावयेद्विद्वान्कथां पर्वसुपर्वसु स लोकान्प्राप्नुयात्पुण्यान्देवर्षिभिरभिष्टुतान् ॥

13.44.4

श्राद्धकाले च विप्राणां य इमां श्रावयेच्छुचिः ।
न तत्र रक्षसां भागो नासुराणां च विद्यते ॥

13.44.5

अनसूयुर्जितक्रोधः सर्वसत्वहिते रतः ।
यः पठेत्सततं युक्तः स व्रजेत्तत्सलोकताम् ॥

13.44.6

वेदान्पारयते विप्रो राजा विजयवान्भवेत् ।
वैश्यस्तु धनधान्याढ्यः शूद्रः सुखमवाप्नुयात् ॥
भीष्म उवाच ।

13.44.7

ततस्ते मुनयः सर्वे सम्पूज्य विनतासुतम् ।
स्वानेव चाश्रमाञ्जग्मुर्बभूवुः शान्तितत्पराः ॥

13.44.8

स्थूलदर्शिभिराकृष्टो दुर्ज्ञेयो ह्यकृतात्मभिः ।
एषा धुतिर्महाराज धर्म्या धर्मभृतांवर ॥

13.44.9

सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परन्तप । मयाप्येषा कथा तात कथिता मातुरन्तिके ।
वसुभिः सत्त्वसम्पन्नैस्तवाप्येषा मयोच्यते ॥

13.44.10

तदग्निहोत्रपरमा जपयज्ञपरायणाः ।
निराशीर्बन्धनाः सन्तः प्रयान्त्यक्षरसात्मतां ॥

13.44.11

आरम्भयज्ञानुत्सृज्य जपहोमपरायणाः ।
ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम् ॥

13.44.12

तदेष परमो मोक्षो मोक्षद्वारं च भारत ।
यथा विनिश्चितात्मानो गच्छन्ति परमां गतिम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc