भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.37

13.37.1

सदृशं राजशार्दूल वृत्तस्य च कुलस्य च ॥

13.37.2

को राज्यं विपुलं गृह्य स्फीताकारं पुनर्महत् ।
निर्जितारातिसामन्तं देवराज्योपमं सुखम् ॥

13.37.3

राज्ये राज्यगुणा ये च तान्व्युदस्य नराधिप ।
दोषं पश्यति राजेन्द्र देहेऽस्मिन्पाञ्चभौतिके ॥

13.37.4

अतिक्रान्तास्त्वया राजन्वृत्तेन प्रपितामहाः ।
धर्मो विग्रहवान्धीरो विदुरश्च महायशाः ॥

13.37.5

सञ्जयश्च महातेजा ये चान्ये दिव्यदर्शनाः ।
प्रवृत्तज्ञानसम्पन्नास्तत्वज्ञानविदो नृप ॥

13.37.6

तेऽतिक्रान्ता महाराज ब्रह्माद्याः ससुरासुराः ।
अनित्यं दुःखसन्तप्तं जगदेतन्न संशयः ॥

13.37.7

एवमेतान्महाबाहो ब्रह्माद्यान्ससुरासुरान् ।
अनित्यान्सततं पश्य मनुष्यादिषु का कथा ॥

13.37.8

नित्यां तु प्रकृतीमाह याऽसौ प्रसवधर्मिणी ।
अरूपिणीमनिर्देश्यामकृतां पुरुषातिगाम् ॥

13.37.9

तामत्यन्तसुखां सौम्यां निर्वाणमिति सञ्ज्ञिताम् ।
आहुर्ब्रह्मर्षयो ह्याद्यां भुवि चैव महर्षयः ॥

13.37.10

तया पुरुषरूपिण्या धर्मप्रकृतिकोऽनघ ।
स यात्येव हि निर्वाणं यत्तत्प्रकृतिसञ्ज्ञितम् ॥

13.37.11

स एष प्राकृतो धर्मो भ्राजत्यादियुगे नृप । विकारधर्माः शेषेषु युगेषु भरतर्षभ ।
भ्राजन्तेऽभ्यधिकं वीर संसारपथगोचराः ॥

13.37.12

प्रकृतीनां च सर्वासामकृता प्रकृतिः स्मृता ।
एवं प्रकृतिधर्मा हि वरां प्रकृतिमाश्रिता ॥

13.37.13

पश्यन्ति परमां लोके दृष्टादृष्टानुदर्शिनीम् ।
सत्वादियुगपर्यन्ते त्रेतायुगसमुद्भवे ॥

13.37.14

कामं कामयमानेषु ब्राह्मणेषु तिरोहितः । कुपथेषु तु धर्मेषु प्रादुर्भूतेषु कौरव ।
जातो मन्दप्रचारो हि धर्मः कलियुगे नृप ॥

13.37.15

नित्यस्तु पुरुषो ज्ञेयो विश्वरूपो निरञ्जनः ।
ब्रह्माद्या अपि देवाश्च यं सदा पर्युपासते ॥

13.37.16

तं च नारायणं विद्धि परं ब्रह्मेति शाश्वतम् ।
तत्कर्म कुरु कायेन ध्यायस्व मनसा च तम् ॥

13.37.17

कीर्तयस्व च तन्नाम वाचा सर्वत्र भूपते ।
तत्पदं प्राप्नुहि प्राप्यं शाश्वतं चापुनर्भवम् ॥

13.37.18

इत्येतद्विष्णुमाश्रित्य संसारग्रहमोक्षणम् । कथितं ते महाबाहो किं भूयः श्रोतुमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc