महाभारत · अध्याय 13.3
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् ।
गुणैश्च विविधैः सर्वैर्वयसा च समन्वितः ॥
भवान्विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा । सर्वेषामेव जातानां सतामेतन्न संशयः ॥
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतांवर ।
नान्यस्त्वदन्यो लोकेषु प्रष्टव्योस्ति नराधिप ॥
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम ।
ब्राह्मण्यं प्राप्नुयाद्येन तन्मे व्याख्यातुमर्हसि ॥
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप । तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
ब्राह्मण्यमथ चेदिच्छेत्कथं शक्यं पितामह ॥
भीष्म उवाच ।
ब्राह्मण्यमतिदुष्प्राप्यं वर्णैः क्षत्रादिभिस्त्रिभिः ।
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥
बह्विस्तु संसरन्योनीर्जायमानः पुनःपनः ।
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतस्त्वभूत् ।
मतङ्गो नाम नाम्नाऽसीत्सर्वैः समुदितो गुणैः ॥
स यज्ञकारः कौन्तेय पित्रोत्सृष्टः परन्तप ।
प्रायाद्गर्दभयुक्तेन रथेनाप्याशुगामिना ॥
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके ।
निरविध्यत्प्रतोदेन नासिकायां पुनःपुनः ॥
तं दृश्य नसि निर्भिन्नं गर्दभी पुत्रगृद्धिनी ।
उवाच मा शुचः पुत्र चण्डालस्त्वाभिविध्यति ॥
ब्राह्मणो दारुणो नास्ति मैत्रो ब्राह्मण उच्यते ।
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् ।
स्वयोनिं मानयत्येष भावो भावं नियच्छति ॥
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः ।
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥
ब्रूहि रासभि कल्याणि माता मे येन दूषिता । केन मां वेत्सि चण्डालं ब्राह्मण्यं केन मेऽनशत् ।
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥
गर्दभ्युवाच ।
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह ।
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥
एवमुक्तो मतङ्गस्तु प्रतिप्रायाद्गृहं पुनः ।
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥
यस्त्वं यज्ञार्थसंसिद्धौ नियुक्तो गुरुकर्मणि ।
कस्मात्प्रतिनिवृत्तोसि कच्चिन्न कुशलं तव ॥
मतङ्ग उवाच ।
अन्त्ययोनिरयोनिर्वा कथं स कुशली भवेत् ।
कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥
ब्राह्मण्यां वृषलाञ्जातं पितर्वेदयते हि माम् ।
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ।
ततो गत्वा महारण्यमतपत्सुमहत्तपः ॥
ततः स तापयामास विबुधांस्तपसाऽन्वितः ।
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥
तं तथा तपसा युक्तमुवाच हरिवाहनः ।
मतङ्ग तप्स्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥
वरं ददामि ते हन्त वृणीष्व त्वं यदिच्छसि ।
यच्चाप्यवाप्यं हृदि ते सर्वं तद्ब्रूहि मा चिरम् ॥
मतङ्ग उवाच ।
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ।
गच्छेयं तदवाप्येह वर एष वृतो मया ॥
भीष्म उवाच ।
एतच्छ्रुत्वा तु वचनं तमुवाच पुरदरः ।
मतङ्ग दुर्लभमिदं विप्रत्वं प्रार्थ्यते त्वया ॥
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ।
विनशिष्यसि दुर्बुद्धे तदुपारम मा चिरम् ॥
श्रेष्ठं यत्सर्वभूतेषु तपो यदतिवर्तते ।
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् ।
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0