भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.271

13.271.1

शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः ।
युधिष्ठिरो हितं प्रेप्सुरपृच्छत्कल्मषापहम् ॥
युधिष्ठिर उवाच ।

13.271.2

किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते ।
विपाप्मा स भवेत्केन किं वा कल्मषनाशनम् ॥
वैशम्पायन उवाच ।

13.271.3

तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा ।
दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ ॥
भीष्म उवाच ।

13.271.4

अयं दैवतवंशो वै ऋषिवंशसमन्वितः ।
त्रिसन्ध्यं पठितः पुत्र कल्मषापहरः परः ॥

13.271.5

यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन् ।
बुद्धिपूर्वमबुद्धिर्वा रात्रौ यच्चापि सन्ध्ययोः ॥

13.271.6

मुच्यते सर्वपापेभ्यः कीर्तयन्वै शुचिः सदा ।
नान्धो न बधिरः काले कुरुते स्वस्तिमान्सदा ॥

13.271.7

तिर्यग्योनिं न गच्छेच्च नरकं सङ्कराणि च ।
न च दुःखमयं तस्य मरणे स न मुह्यति ॥

13.271.8

देवासुरगकुरुर्देवः सर्वभूतनमस्कृतः ।
अचिन्त्योथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥

13.271.9

पितामहो जगन्नाथः सावित्री ब्रह्मणः सती ।
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥

13.271.10

उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा ।
विशाखो हुतभुग्वायुश्चन्द्रसूर्यौ प्रभाकरौ ॥

13.271.11

शक्रः शचीपतिर्देवो यमो धूमोर्णया सह ।
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥

13.271.12

सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः ।
सङ्कल्पः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणः ॥

13.271.13

वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा ।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥

13.271.14

तुम्बुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः ।
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥

13.271.15

उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा ।
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥

13.271.16

आदित्या वसवो रुद्राः साश्विनः पितरोपि च ।
धर्मः श्रुतं तपो दीक्षा व्यवसायः पितामहः ॥

13.271.17

शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा ।
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥

13.271.18

नक्षत्राण्यृतवश्चैव मासाः पक्षाः सवत्सराः ।
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥

13.271.19

शतद्रुश्च विपाशा च चन्द्रभागा सरस्वती ।
सिन्धुश्च देविका चैव प्रभासं पुष्कराणि च ॥

13.271.20

गङ्गा महानदी वेणा कावेरी नर्मदा तथा ।
कुलम्पुना विशल्या च करतोयाम्बुवाहिनी ॥

13.271.21

सरयूर्गण्डकी चैव लोहितश्च महानदः ।
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥

13.271.22

गोदावरी च वेण्या च कृष्णवेणा तथाऽद्रिजा ।
दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा ॥

13.271.23

प्रयागं च प्रभासं च पुण्यं नैमिषमेव च ।
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥

13.271.24

पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम् ।
सिन्धूत्तमं तपो दानं जम्बूमार्गमथापि च ॥

13.271.25

हिरण्वती वितस्ता च तथा प्लक्षवती नदी ।
वेदस्मृतिर्वेदवती मालवाऽथाश्ववत्यपि ॥

13.271.26

भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च ।
ऋषिकुल्यास्तथा मेध्या नद्यः सिन्धुवहास्तथा ॥

13.271.27

चर्मण्वती नदी पुण्या कौशिकी यमुना तथा ।
नदी भीमरथी चैव बाहुदा च महानदी ॥

13.271.28

माहेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ।
नन्दा चापरनन्दा च तथा तीर्थमहाह्रदः ॥

13.271.29

गयाऽथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ।
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् ॥

13.271.30

पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् ।
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः ॥

13.271.31

विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ।
मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः ॥

13.271.32

शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ।
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः ॥

13.271.33

पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ।
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥

13.271.34

विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा ।
पान्तु नः सततं देवाः कीर्तिताऽकीर्तिता मया ॥

13.271.35

कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः ।
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ॥

13.271.36

सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः ।
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् ॥

13.271.37

कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ।
यवक्रीतोऽथ रैम्यश्च कक्षीवानौशिजस्तथा ॥

13.271.38

भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः ।
बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ॥

13.271.39

भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा ।

13.271.39

मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥

13.271.40

मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान् ।
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥

13.271.41

पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् ।
उषङ्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥

13.271.42

ऋषिर्दीर्घतमाश्चैव गौतमः काश्यपस्तथा ।
एकतश्च द्वितश्चैव त्रितश्चैव महानृषिः ॥

13.271.43

अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः । उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् ।

13.271.44

अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ।
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च ॥

13.271.45

ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा ।
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा ॥

13.271.46

देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ।
लोमशो नाचिकेतश्च लोमहर्षण एव च ॥

13.271.47

ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ।
एष वै समवायश्च ऋषिदेवसमन्वितः ॥

13.271.48

आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ।
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् ॥

13.271.49

धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ।
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा ॥

13.271.50

दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः ।
पवनो जनकश्चैव तथा दृष्टरथो नृपः ॥

13.271.51

रघुर्नरवरश्चैव तथा दशरथो नृपः ।
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः ॥

13.271.52

हरिश्चन्द्रो मरुत्तश्च तथा द़ढरथो नृपः ।
महोदर्यो ह्यलर्कश्च ऐलश्चैव नराधिपः ॥

13.271.53

करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः ।
दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः ॥

13.271.54

कुरु संवरणश्चैव मान्धाता सत्यविक्रमः ।
मुचुकुन्दश्च राजर्षिर्जह्नुर्जाह्नविसेवितः ॥

13.271.55

आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः ।
त्रसद्दस्युस्तथा राजा श्वेतो राजर्षिसत्तमः ॥

13.271.56

महाभिषश्च विख्यातो निमी राजा तथाऽष्टकः ।
आयुः क्षुपश्च राजर्षिः कक्षेयुस्च नराधिपः ॥

13.271.57

प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः ।
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥

13.271.58

हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा ।
अजः प्राचीनबर्हिश्च तथैक्ष्वाकुर्महायशाः ॥

13.271.59

अनरण्यो नरपतिर्जानुजङ्घस्तथैव च ।
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः ॥

13.271.60

कल्यमुत्थाय यो नित्यं सन्ध्ये द्वेऽस्तमयोदये ।
पठेच्छुचिरनावृत्तः स धर्मफलभाग्भवेत् ॥

13.271.61

देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा ।
पुष्टिमायुर्यशः स्वर्गं विधास्यन्ति ममेश्वराः ॥

13.271.62

मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः ।
ध्रुवो जयो मे नित्यः स्यात्परत्र च शुभा गतिः ॥

13.271.63

पालय त्वं प्रजाः सर्वाः शान्तात्मा त्वनुशासिता ।
द्वैपायनः स्वयञ्चक्षुः कृष्णस्तेऽस्तु परायणम् ॥
वैशम्पायन उवाच ।

13.271.64

इत्युक्त्वोपासनार्थाय विरराम महामतिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc