भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.257

13.257.1

कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप ।
कं वा धर्मोदयं मत्वा तानर्चसि महामते ॥
भीष्म उवाच ।

13.257.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पवनस्य च संवादमर्जुनस्य च भारत ॥

13.257.3

सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः ।
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥

13.257.4

स तु रत्नाकरवतीं सप्तद्वीपां ससागराम् ।
शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः ॥

13.257.5

स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कर्मणे ।
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ॥

13.257.6

आराधयामास च तं कृतवीर्यात्मजो मुनिम् ।
न्यमन्त्रयत सन्तुष्टो द्विजश्चैनं वरैस्त्रिभिः ॥

13.257.7

स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् ।
सहस्रबाहुता मेऽस्तु यूपमध्ये ग्रहो यथा ॥

13.257.8

मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे ।
विक्रमेणि महीं कृत्स्नां जयेयं संशितव्रत ॥

13.257.9

तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः ।
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम ॥

13.257.10

तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ।
अनुशाशन्तु मां सन्तो मिथ्यावृत्तं त्वदाश्रयम् ॥

13.257.11

इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् ।
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥

13.257.12

गतः स रथमास्थाय ज्वलनार्कसमद्युतिम् ।
अब्रवीद्वीर्यसम्मोहात्को वाऽस्ति सदृशो मम ॥

13.257.13

धैर्यैर्वीर्यैर्यशःशौर्यौर्विक्रमेणौजसाऽपि वा ।
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी ॥

13.257.14

न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ।
सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः ॥
अर्जुन उवाच ।

13.257.15

कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये ।
कर्म्णा मनसा वाचा न मत्तोस्ति वरो द्विजः ॥

13.257.16

पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः ।
त्वयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते ॥

13.257.17

ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् ।
श्रिता ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ॥

13.257.18

क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् ।
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥

13.257.19

सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा ।
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे ॥

13.257.20

कथितं त्वनयाऽसत्यं गायन्त्या कन्यया दिवि ।
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥

13.257.21

न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन ।
देवो वा मानुषो वाऽपि तस्माज्ज्येष्ये द्विजानहम् ॥

13.257.22

अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् ।
नहि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ॥

13.257.23

अर्जुनस्य वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी ।
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ॥

13.257.24

त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु ।
एतेषां कुर्वतः पापं राष्ट्रक्षोभो भविष्यति ॥

13.257.25

अथ च त्वां महीपाल शमयिष्यन्ति वै द्विजाः ।
निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः ॥

13.257.26

तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः ।
वायुर्वै देवदूतोस्मि हितं त्वां प्रब्रवीम्यहम् ॥
अर्जुन उवाच ।

13.257.27

अहो त्वयाऽयं विप्रेषु भक्तिरागः प्रदर्शितः ।
यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम् ॥

13.257.28

वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम् ।
अपां वै सदृशं वह्नेः सूर्यस्य नभसोऽपि वा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc