भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.250

13.250.1

पतिमत्या दिवारात्रं वृत्तान्तं श्रूयतां शुभम् ।
पत्युः पूर्वं समुत्थाय प्रातःक्रम समाचरेत् ॥

13.250.2

पत्युर्भावं विदित्वा तु पश्चात्सम्बोधयेत्तु तम् ।
नित्यं पौर्वाह्णिकं कार्यं स्वयं कुर्याद्यथाविधि ॥

13.250.3

निवेद्य च तथाऽहारं यथा सम्पद्यतामिति ।
तथैव कुर्यात्तत्सर्वं यथा पत्युः प्रियं भवेत् ॥

13.250.4

यथा भर्ता तथा नारी गुरूणां प्रतिपद्यते ॥

13.250.5

शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया ।
भर्तुर्निष्क्रमणे कार्यं संस्मरेदप्रमादतः ॥

13.250.6

आगतं तु पतिं दृष्ट्वा सहसा परिचारणम् ।
स्वयं कुर्वीत सम्प्रीत्या कायश्रमहरं परम् ॥

13.250.7

पाद्यसनाभ्यां शयनैर्वाक्यैश्च हृदयप्रियैः ।
अतिथीनामागमेन प्रीतियुक्ता सदा भवेत् ॥

13.250.8

कर्मणा वचनेनापि तोषयेदतिथीन्सदा ।
मङ्गलं गृहशौचं च सर्वोपकरणानि च ॥

13.250.9

सर्वकालमवेक्षेत कारयन्ती च कुर्वती ।
धर्मकार्ये तु सम्प्राप्ते तद्वद्धर्मपरा भवेत् ॥

13.250.10

अर्थकार्ये पुनर्भर्तुः प्रमादालस्यवर्जिता ।
सा यत्नं परमं कुर्यात्तस्यि साहाय्यकारणात् ॥

13.250.11

धुरन्धरा भवेद्भर्तुः साध्वी धर्मार्थयोः सदा ।
विहारकाले वै भर्तुर्ज्ञात्वा भावं हृदि स्थितम् ॥

13.250.12

अलङ्कृत्य यथायोगं मन्दहाससमन्वितम् ।
वाक्यैर्मधुरसंयुक्तैः स्मयन्ती तोषयेत्पतिम् ॥

13.250.13

कठोराणि न वाच्यानि अन्यथा प्रमदान्तरे ।
यस्यां कामी भवेद्भर्ता तस्याः प्रीतिकरी भवेत् ॥

13.250.14

अप्रमादं पुरस्कृत्य मनसा तोषयेत्पतिम् ।
अनन्तरमथान्येषां भोजनावेक्षणं चरेत् ॥

13.250.15

दासीदासबलीवर्दांश्चण्डालं च शुनस्तथा । अनाथान्कृपणांश्चैव भिक्षुकांश्च तथैव च ।
पूजयेद्बलिभैक्षेण पत्युर्धर्मं विवर्धयेत् ॥

13.250.16

कुपितं वाऽर्थहीनं वा श्रान्तं वोपचरेत्पतिम् ।
यता स तुष्टः स्वस्थश्च तथा सन्तोषयेत्पतिम् ॥

13.250.17

यथा कुटुम्बचिन्तायां विवादे वाऽर्थसञ्चये ।
आहूता तत्सहायार्थं तथा प्रियहितं वदेत् ॥

13.250.18

अप्रियं च हितं ब्रूयात्तस्य धर्मार्थकाङ्क्षया ।
एकान्तचर्याकथनं कलहं वर्जयेत्परैः ॥

13.250.19

बहिरालोकनं चैव मोहं व्रीडां च पैशुनम् ।
बह्वाशित्वं दिवास्वप्नमेवमादि विवर्जयेत् ॥

13.250.20

रहस्येकासनं साध्वी न कुर्यादात्मजैरपि ।
यद्यद्दद्यान्नियत्स्वेति न्यासवत्परिपालयेत् ॥

13.250.21

विस्मृतं वाऽपि यद्द्रव्यं प्रतिपद्यात्स्वशौचतः ।
यत्किञ्चित्पतिना दत्तं लब्ध्वा तत्सा सुकी भवेत् ॥

13.250.22

अतीवाज्ञामतीर्ष्यां च दूरतः परिवर्जयेत् ।
बालवद्वृद्धवद्भार्या सदैवानुचरेत्पतिम् ॥

13.250.23

भार्याया व्रतमित्येव कर्तव्यं सततं विभो ।
एतत्पतिव्रतावृत्तमुक्तं देव समासतः ॥

13.250.24

न च भोगे न चैश्वर्ये न सुखे न धने तथा ।
स्पृहा यस्यास्तथा भर्तुः सा नारीणां पतिव्रता ॥

13.250.25

पतिर्हि दैवतं स्त्रीणां पतिर्बन्धुः पतिर्गतिः ।
नान्यं गतिमहं पश्ये प्रमदाया यथा पतिः ॥

13.250.26

जातिष्वपि च वै स्त्रीत्वं विशिष्टं मे मतिः प्रभो । कायक्लेशेन महता पुरुषः प्राप्नुयात्फलम् ।
तत्सर्वं लभते नारी सुखेन पतिपूजया ॥

13.250.27

यथासुखं पतिमती सर्वं पत्यनुकूलतः । ईदृशं धर्मसाकल्यं पश्य त्वं प्रमदां प्रति ।
एतद्विसृज्य पच्यन्ते कुस्त्रियः पापमोहिताः ॥

13.250.28

तपश्चर्या च दानं च पतौ तस्याः समर्पितम् ।
रूपं कुलं यशस्तेजः सर्वं तस्मिन्प्रतिष्ठितम् ॥

13.250.29

एवं व्रतसमाचाराः स्ववृत्तेनैव शोभनाः ।
स्वभर्त्रा च सम गच्छेत्पुण्यलोकान्सुकर्मणा ॥

13.250.30

वृद्धो विरुपो बीभत्सो धनवान्निर्धनोऽपि वा ।
एवम्भूतोपि वै भर्ता स्त्रीणां भूषणमुत्तमम् ॥

13.250.31

आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम् ।
या पतिं तोषयेत्साध्वी सा पत्नीनां विशिष्यते ॥

13.250.32

दरिद्रांश्च विरूपाश्च प्रमूढान्कुष्टसंयुतान् ।
पतीनुपचरेल्लोकानक्षयान्प्रतिपद्यते ॥

13.250.33

एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत् ।
तदाऽनुमरणं गच्छेत्पुनर्धर्मं चरेत वा ॥

13.250.34

एतदेवं मया प्रोक्तं स्त्रियस्तु बहुधा स्मृताः ।
देवदानवगन्धर्वा मनुष्या इति नैकधा ॥

13.250.35

सौम्यशीलाः शुभाचाराः सर्वास्ताः सम्भवन्ति च ।
यथा शुभं प्रवक्ष्यामि स्त्रीणां धर्मं महेश्वर ॥

13.250.36

आसुर्यश्चैव पैशाच्यो राक्षस्यश्च भन्ति हि ।
तासां वृत्तमशेषेण श्रूयतां लोककारणात् ॥

13.250.37

न्यायतो वाऽन्यथा प्रोक्ता भावदोषसमन्विताः ।
भर्तॄनुपचरन्त्येव रागद्वेषबलात्कृताः ॥

13.250.38

स्वधर्मविमुखा भूत्वा प्रदूष्यन्ति यतस्ततः ।
प्रवृद्दविषया नित्यं प्रतिकूलं वदन्ति च ॥

13.250.39

अर्थान्विनाशयन्त्येवं न गृह्णन्ति हितं क्वचित् ।
स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा ॥

13.250.40

गुणवत्यः क्वचिद्भूत्वा पतिधर्मपरा इव ।
पुनर्भवन्ति पापिष्ठा विषमं वृत्तमास्थिताः ॥

13.250.41

अनवस्थितमर्यादा बहुवेषा व्यवस्थिताः ।
असन्तुष्टाश्च लुब्धाश्च ईर्ष्याक्रोधयुता भृशम् ॥

13.250.42

भोगप्रिया हितद्वेष्याः कामभोगपरायणाः ।
प्रायशोऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः ॥

13.250.43

एवंवृत्तसमाचारा आसुरं भावमाश्रिताः ।
अपकारपरा नित्यं सततं कलहप्रिया ॥

13.250.44

परुषा रुक्षवचना निर्घृणा निरपत्रपाः ।
निःस्नेहाः क्रोधनाश्चैव भर्तृपुत्रस्वबन्धुषु ॥

13.250.45

घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च । पतीन्व्यभिचरन्त्येव दुर्मार्गेण यथा तथा ।
बन्धुभिर्भर्त्सिता भूत्वा गृहकार्याणि कुर्वते ॥

13.250.46

अथवा भर्त्सिता देव निवृत्ताः स्वेषु कर्मसु ।
तथैवात्मवधं घोरं व्यवस्येयुर्न संशयः ॥

13.250.47

निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपकाः ।
धर्मर्थरहिता घोराः सततं कुर्वते क्रियाः ॥

13.250.48

अनर्थे निपुणाः पापाः परप्राणेषु निर्दयाः ।
एवंयुक्तसमाचाराः स्त्रियः पैशाचमाश्रिताः ॥

13.250.49

अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः । अशुद्धा मलदिग्धाङ्ग्य पानमांसरता भृशम् ।
वदन्त्यनृतवाक्यानि हसन्ति विलपन्ति च ।

13.250.50

दुष्पसादा महाक्रोधाः स्वप्नशीला निरन्तरम् । तामस्यो नष्टतत्वार्था मन्दशीला महोदराः ।
भुञ्जते विविधं सिद्धं भोजनं तीव्रसम्भ्रमाः ॥

13.250.51

गुणरूपवयोयुक्तं पतिं कामिनमुत्तमम् ।
हित्वाऽन्येनैव गच्छन्ति सर्वधा भृशतापिताः ॥

13.250.52

निर्लज्जा धर्मसन्दिग्धाः प्रतिकूलाः समन्ततः ।
एवंरूपसमाचाराः स्त्रियो राक्षसमाश्रिताः ॥

13.250.53

एवंविधानां सर्वासां न परत्र महासुखम् ।
नरकाद्विप्रमुक्तानां मानुष्यं दुर्लभं भवेत् ॥

13.250.54

कष्टं तत्रापि भुञ्जन्ते स्वकृतं दुःखजं बहु । दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः ।
विधवा दुर्भगा वाऽपि लभन्ते दुःखमीदृशम् ॥

13.250.55

शतवर्षसहस्राणि निरयं व्यभिचारिणी ।
व्रजेत्पतिं च पापेन संयोज्य स्वकुलं तथा ॥

13.250.56

एतद्विज्ञाय पतितं पुनश्चेद्धितमात्मनः ।
कुर्याद्भर्तारमाश्रित्य तथा धर्मवमाप्नुयात् ॥

13.250.57

अतिसंयान्ति ताँल्लोकान्पुण्यान्परमशोभनान् ।
अवमत्य च याः पूर्वं पतिं दुष्टेन चेतसा ॥

13.250.58

वर्तमानास्च सततं भर्तॄणां प्रतिकूलतः ।
भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः ॥

13.250.59

कामात्क्रोधाद्भयाल्लोभादपहास्या भवन्ति ताः ।
आदिप्रभृति कुस्त्रीणां तथाऽनुमरणं वृथा ॥

13.250.60

आदिप्रभृति या साध्वी पत्युः प्रियपरायणा ।
ऊर्ध्वं गच्छति सा पूता भर्त्राऽनुमरणं गता ॥

13.250.61

एवं मृताया वै लोकानहं पश्यामि चक्षुषा ।
स्पृहणीयान्सुरगणैर्यान्गच्छन्ति पतिव्रताः ॥

13.250.62

अथवा भर्तरि मृते वैधव्यं धर्ममाश्रिताः । तूष्णीं भौमं जले नित्यमञ्जलिस्नानमुत्तमम् ।
व्रतं च पतिमुद्दिश्य कुर्यश्चैव विधिं ततः ॥

13.250.63

एवं गच्छति सा नारी पतिलोकमनुत्तमम् ।
रमणीयमनिर्देश्यं दुष्प्रापं देवमानुषैः ॥

13.250.64

प्राप्नुयात्तादृशं लोकं केवलं या पतिव्रता ।
इति ते कथितं देव स्त्रीणां धर्मिमनुत्तमम् ॥

13.250.65

भवतः प्रियकामिन्या यन्मयोक्तं तवाग्रतः ।
चापल्यान्मम देवेश तद्भवान्क्षन्तुमर्हति ॥
नारद उवाच ।

13.250.66

एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम् ।
प्रशशंस च देवेशो वाचा सञ्जनयन्प्रियम् ॥

13.250.67

ऋषयो देवगन्धर्वाः प्रमदाश्च सहस्रशः ।
प्रणम्य शिरसा देवीं स्तुतिभिश्चाभितुष्टुवुः ॥

13.250.68

पूजयामासुरपरे देवदेव मुदा युताः ।
संवादं चिन्तयन्त्यन्ते श्रद्दधानाः सुचेतसः ॥

13.250.69

ततस्तु देवदेवेशो देवीं वचनमब्रवीत् । शृणु कल्याणि मद्वाक्यं संवादोऽयं मया तव ।
पुण्यं पवित्रं ख्यातं च भविता नात्र संशयः ॥

13.250.70

य इमं श्रावयेद्विद्वान्संवादं चावयोः प्रिये ।
शुचिर्भूत्वा नरान्युक्तान्स तैः स्वर्गं व्रजेत्सुखम् ॥

13.250.71

यस्त्वेनं शृणुयान्नित्यं संवादं चावयोः शुभम् ।
कीर्तिमायुष्यमारोग्यं लभते स गतिं पराम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc