भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.248

13.248.1

एवमुक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः ।
अनुकूलां प्रियां भार्यां पार्श्वस्तामभ्यभाषत ॥
महेश्वर उवाच ।

13.248.2

परावरज्ञे धर्माणां तपोवननिवासिनाम् । दीक्षाविधिदमोपेते सततं व्रतचारिणि ।
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ॥

13.248.3

सावित्री ब्रह्मणः पत्नी कौशिकस्य शची शुभा ।
लक्ष्मीर्विष्णोः प्रिया भार्या धृतिर्भार्या यमस्य तु ॥

13.248.4

मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य तु ।
वरुणस्य प्रिया गौरी सवितुश्च सुवर्चला ॥

13.248.5

रोहिणी शशिनो भार्या स्वाहा चाग्नेरनिन्दिता ।
काश्यपस्यादितिश्चैव वसिष्ठस्याप्यरुन्धती ॥

13.248.6

एताश्चान्याश्च देव्यस्तु सर्वास्ताः पतिदेवताः ।
श्रूयन्ते लोकविख्यातास्त्वया चैव सहोषिताः ॥

13.248.7

ताभिश्च पूजिताऽपि त्वमनुवृत्त्यनुभाषणैः ।
तस्मात्तु परिपृच्छामि धर्मज्ञे लोकसम्मते ॥

13.248.8

स्त्रीधर्मं श्रोतुमिच्छामि त्वयैव समुदाहृतम् ।
सध्रमचारिणी मे त्वं लोकसन्धारिणी तथा ॥

13.248.9

अयं हि स्त्रीगणस्त्वां तु अनुयाति न मुञ्चति ।
त्वत्प्रसादाद्धितं श्रोतुं स्त्रीवृत्तं शुभलक्षणम् ॥

13.248.10

त्वया चोक्तं विशेषेण गुणभूतं हि तिष्ठति ।
स्त्रिय एव सदा लोके स्त्रीगणस्य गतिः प्रिये ॥

13.248.11

शश्वद्गौर्गोषु गच्छेत नान्यत्र रमते नरः ।
एवं लोकगतिर्देवि आदिप्रभृति वर्तते ॥

13.248.12

प्रमदोक्तं तु यत्किञ्चित्तत्स्त्रीषु बहुमन्यते ।
न तथा मन्यते स्त्रीषु पुरुषोक्तमनिन्दिते ॥

13.248.13

त्वयैष विदितो ह्यर्थः स्त्रीणां धर्मः सनातनः ।
तस्मात्त्वां प्रति पृच्छामि पृष्टा वद ममेप्सितम् ॥
नारद उवाच ।

13.248.14

एवमुक्ता तदा देवी महादेवेन शोभना । सोद्वेगा च सलज्जा च नावदत्तत्र किञ्चन ।
पुनः पुनस्तदा देवी देवः किमिति चाब्रवीत् ॥
उमोवाच ।

13.248.15

भगवन्देवदेवेश सुरासुरनमस्कृत । त्वदन्तिके मया वक्तुं स्त्रीणां धर्मः कथं भवेत् ॥ महेश्वर उवाच ।

13.248.16

मन्नियोगादवश्यं तु वक्तव्यं तु मम प्रिये ॥
उमोवाच ।

13.248.17

इमा नद्यो महादेव सर्वतीर्थोदकान्विताः ।
उपस्पर्शनहेतोस्त्वां न त्यजन्ति समीपतः ॥

13.248.18

एताभिः सह सम्मन्त्र्य प्रवक्ष्यामि तवेप्सितम् ।
अयुक्तं सत्सु तन्त्रेषु तानतिक्रम्य भाषितुम् ॥

13.248.19

मया सम्मानिताश्चैव भविष्यन्ति सरिद्वराः ॥
नारद उवाच ।

13.248.20

इति मत्वा महादेवी नदीर्देवीः समाह्वयत् ।
विपाशां च वितस्त्यां च चन्द्रभागां सरस्वतीम् ॥

13.248.21

शतद्रुं देविक्तां सिन्धुं गौतमीं कौशिकीं तथा ।
यमुनां नर्मदां चैव कावेरीमथ निम्नगाम् ॥

13.248.22

तथा देवनदीं गङ्गां श्रेष्ठां त्रिपथगां शुभाम् । सर्वतीर्थोदकवहां सर्वपापविनाशिनीम् ।
एता नदीः समाहूय समुद्वीक्ष्येदमब्रवीत् ॥
उमोवाच ।

13.248.23

हे पुण्याः सरितः श्रेष्ठाः सर्वपापविनाशिकाः ।
ज्ञानविज्ञानसम्पन्नाः शृणुध्वं वचनं मम ॥

13.248.24

अयं भगवता प्रश्न उक्तः स्त्रीधर्ममाश्रितः ।
न चैकया मया साद्यं तस्माद्वस्त्वानयाम्यहम् ॥

13.248.25

युष्माभिस्तद्विचार्यैवं वक्तुमिच्छामि शोभनाः ।
तत्कथं देवदेवाय वाच्यः स्त्रीधर्म उत्तमः ॥
नारद उवाच ।

13.248.26

इति पृष्टास्तथा देव्या महानद्यश्चकम्पिरे ।
तासां श्रेष्ठतमा गङ्गा वचनं त्ववेमब्रवीत् ॥

13.248.27

धन्याश्चानुगृहीताः स्म अनेन वचनेन ते ।
या त्वं सुरासुरैर्मान्या नदीराद्रियसेऽनघे ॥

13.248.28

तवैवार्हति कल्याणि एवं सान्त्वप्रसादनम् । अशक्यमपि ये मूर्खाः स्वात्मसम्भावनायुताः ।
वाक्यं वदन्ति संसत्सु स्वयमेव यथेष्टतः ॥

13.248.29

शक्तो यश्चानहंवादी सुदुर्लभतमो मतः ॥

13.248.30

त्वं हि शक्ता सती देवी वक्तुं प्रश्नमशेषतः ।
व्याहर्तुं नेच्छसि स्त्रीत्वात्सम्पूजयति नस्तथा ॥

13.248.31

त्वं हि देवि महादेवी ऊहापोहविशारदा ।
दिव्यज्ञानयुता देवि दिव्यज्ञानेन्धनैधिता ॥

13.248.32

त्वमेवार्हसि तद्वक्तुं स्त्रीणां वृत्तं शुभाशुभम् । याचामहे वयं श्रोतुममृतं त्वन्मुखोद्गतम् ।
कुरु देवप्रियं देवि वद स्त्रीधर्ममुत्तमम् ॥
नारद उवाच ।

13.248.33

एवं प्रसादिता देवी गङ्गया लोकपूज्यया ।
प्राह धर्ममशेषेण स्त्रीधर्मं सुरसुन्दरी ॥
उमोवाच ।

13.248.34

भगवन्देवदेवेश सुरेश्वर महेश्वर । त्वत्प्रसादात्सुरश्रेष्ठ तवैव प्रियकाम्यया ।
तमहं कीर्तयिष्यामि यथावच्छ्रोतुमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc