भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.232

13.232.1

विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते ।
प्रोच्यते तत्त्रिधा देवि सुकृतं च समासतः ॥

13.232.2

यदौपरमिकं चैव सुकृतं निरुपद्रवम् ।
तथैव सोपकरणं तावता सुकृतं विदुः ॥

13.232.3

निवृत्तिः पापकर्मभ्यस्तदौपरमिकं प्रिये ।
मनोवाक्कायजा दोषाः शृणु मे वर्जनाच्छुभम् ॥

13.232.4

त्रैविध्यदोषोपरमे यस्तु दोषव्यपेक्षया ।
स हि प्राप्नोति सकलं सर्वदुष्कृतवर्जनात् ॥

13.232.5

प्रथमं वर्जयेद्दोषान्युगपत्पृथगेव वा । तथा धर्ममवाप्नोति दोषत्यागो हि दुष्करः ।
दोषसाकल्यसन्त्यागान्मुनिर्भवति मानवः ॥

13.232.6

सौकर्यं पस्य धर्मस्य कार्यारम्भादृतेऽपि च ।
आत्मा च लब्धोपरमो लभन्ते सुकृतं परम् ॥

13.232.7

अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः ।
एतादृशं न बुध्यन्ते आत्माधीनं न निर्व्यथाः ॥

13.232.8

दुष्कृतत्यागमात्रेण पदमूर्ध्वं हि लभ्यते ॥

13.232.9

पापभीरुत्वमात्रेण दोषाणां परिवर्जनात् । सुशोभनो भवेद्देवि क्रजुर्धर्मव्यपेक्षया ।
इत्यौपरमिकं देवि कथितं सुकृतं तव ॥

13.232.10

श्रुत्वा च वृद्धसंयोगादिन्द्रियाणां च निग्रहात् ।
सन्तोषाच्च धृतेश्चैव शक्यते दोषवर्जनम् ॥

13.232.11

तदेव धर्ममित्याहुर्दोषसंयमनं प्रिये । यमधर्मेण धर्मोस्ति नान्यः शुभतरः प्रिये ।
यमधर्मेण यतयः प्राप्नुवन्त्युत्तमां गतिम् ॥

13.232.12

ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम् ।
सफलो दोषसन्त्यागो दानादपि शुभादपि ॥

13.232.13

तपो दानं महादेवि दोषमल्पं हि निर्भरेत् ।
सुकृतं यामिकं चोक्तं वक्ष्ये निरुपसाधनम् ॥

13.232.14

सुखाभिसन्धिर्लोकानां सत्यं शौचमथार्जवम् ।
व्रतोपवासः प्रीतिश्च ब्रह्मचर्यं दमः शमः ॥

13.232.15

एवमादि शुभं कर्म सुकृतं नियमाश्रितम् ।
शृणु तेषां विशेषांश्च कीर्तयिष्यामि भामिनि ॥

13.232.16

सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ।
नास्ति सत्यात्परं दानं नास्ति सत्यात्परं तपः ॥

13.232.17

यथा श्रुतं यथा दृष्टमात्मना यद्यथा कृतम् ।
तथा तस्याविकारेण वचनं सत्यलक्षणम् ॥

13.232.18

यच्छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत् ।
सत्यमेव प्रवक्तव्यं पारावर्यं विजानता ॥

13.232.19

दीर्घायुश्च भवेत्सत्यात्कुलसन्तानपालकः ।
लोकसंस्थितिपालश्च भवेत्सत्येन मानवः ॥
उमोवाच ।

13.232.20

कथं सन्धारयन्मर्त्यो व्रतं शुभमवाप्नुयात् ॥
महेश्वर उवाच ।

13.232.21

पूर्वमुक्तं तु यत्पापं मनोवाक्कायकर्मभिः ।
व्रतवत्तस्य सन्त्यागस्तपोव्रतमिति स्मृतम् ॥

13.232.22

त्याज्यं वा यदि वा जोष्यमव्रतेनि वृथा चरन् ।
तथा फलं न लभते तस्माद्धर्मं वृथा चरेत् ॥

13.232.23

शुद्धकायो नरो भूत्वा स्नात्वा तीर्थ यथाविधि ।
पञ्चभूतानि चन्द्रार्कौ सन्ध्ये धर्मयमौ पितॄन् ॥

13.232.24

आत्मनैव तथाऽत्मानं निवेद्य व्रतवच्चरेत् ।
व्रतमामरणाद्वाऽपि कालच्छेदेन वा हरेत् ॥

13.232.25

शाकादिषु व्रतं कुर्यात्तथा पुष्पफलादिषु ।
ब्रह्मचर्यव्रतं कुर्यादुपवासव्रतं तथा ॥

13.232.26

एवमन्येषु बहुषु व्रतं कार्यं हितैषिणा । व्रतभङ्गो यथा न स्याद्रक्षितव्यं तथा बुधैः ।
व्रतभङ्गे महत्पापमिति विद्धि शुभेक्षणे ॥

13.232.27

औषधार्थं यदज्ञानाद्गुरूणां वचनादपि ।
अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते ॥

13.232.28

व्रतापवर्गकाले तु दैवब्राह्मणपूजनम् ।
नरेण तु यथा विद्धि कार्यसिद्धिं यथाऽप्तुयात् ॥
उमोवाच ।

13.232.29

कथं शौचविधिस्तत्र तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.232.30

बाह्ममाभ्यन्तरं चेति द्विविधं शौचमिष्यते ।
मानसं सुकृतं यत्तच्छौचमाभ्यन्तरं स्मृतम् ॥

13.232.31

सदाऽहारविशुद्धिश्च कायप्रक्षालनं च यत् ।
बाह्यशौचं भवेदेतत्तथैवाचमनादिना ॥

13.232.32

मृच्चैव शुद्धदेशस्था गोशकृन्मूत्रमेव च । द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च ।
एतैः सम्मार्जयेत्कायमम्भसा च पुनः पुनः ॥

13.232.33

अक्षोभ्यं यत्प्रकीर्णं च नित्यस्रोतं च यज्जलम् ।
प्रायशस्तादृशे मज्जेदन्यथा च विवर्जयेत् ॥

13.232.34

त्रिस्त्रिराचमनं श्रेष्ठं निष्फेनैर्निर्मलैर्जलैः । तथा विण्मूत्रयोः शुद्धिरद्भिर्बहुमृदा भवेत् ।
तथैव जलसंशुद्धिर्यत्संशुद्धं तु संस्पृशेत् ॥

13.232.35

शकृता भूमिशुद्धिः स्याल्लौहानां भस्मना स्मृतम् ।
तक्षणं घर्षणं चैव दारवाणां विशोधनम् ॥

13.232.36

दहनं मृण्मयानां च मर्त्यानां कृच्छ्रधारणम् । शेषाणां देवि सर्वेषामातपेन जलेन च ।
ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत् ॥

13.232.37

अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते । एवमापदि संशुद्धिरेवं शौचं विधीयते ।
उमोवाच ।

13.232.38

आहारशुद्धिस्तु कथं देवदेव महेश्वर ॥
महेश्वर उवाच ।

13.232.39

अमांसमद्यमक्लेद्यमपर्युषितमेव च ।
अतिकट्वम्ललवणहनं च शुभगन्धि च ॥

13.232.40

क्रिमिकेशमलैर्हीनं संवृतं शुद्धदर्शम् ।
एवंविधं सदाहार्यं देवब्राह्मणसात्कृतम् ॥

13.232.41

श्रुतमित्येव तज्ज्ञेयमन्यथा मन्यसेऽशुभम् ।
ग्राम्यादारण्यकैः सिद्धं श्रेष्ठमित्यवधारय ॥

13.232.42

अतिमात्रगृहीतात्तु अल्पदत्तं भवेच्छुचि । यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम् ।
इति ते कथितं देवि भूयः किं श्रोतुमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc