भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.230

13.230.1

भगवंस्ते कथं तत्र दण्ड्यन्ते नरकेषु वै ।
कति ते नरका घोराः कीदृशास्ते महेश्वर ॥
महेश्वर उवाच ।

13.230.2

शृणु भामिनि तत्सर्वं पञ्चैते नरकाः स्मृताः ।
भूमेरधस्ताद्विहिता घोरा दुष्कृतकर्मणाम् ॥

13.230.3

प्रथमं रौरवं नाम शतयोजनमायतम् ।
तावत्प्रमाणविस्तीर्णं तामसं पापपीडितम् ॥

13.230.4

भृशं दुर्गन्धि परुषं क्रिमिभिर्दारुणैर्वृतम् ।
अतिघोरमनिर्देश्यं प्रतिकूलं ततस्ततः ॥

13.230.5

ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने ।
क्रिमिभिर्भक्ष्यमाणाश्च विष्ठागन्धसमायुताः ॥

13.230.6

एवम्प्रमाणमुद्विग्ना यावत्तिष्ठन्ति तत्र ते ।
यातनाभ्यो दशगुणं नरके दुःखमिष्यते ॥

13.230.7

तत्र चात्यन्तिकं दुःखमिष्यते च शुभेक्षणे क्रोशन्तश्च रुद्रन्तश्च वेदनास्तत्रि भुञ्जते ॥

13.230.8

भ्रमन्ति दुःखमोक्षार्थं ज्ञाता कश्चिन्न विद्यते ।
दुःखस्यान्तरमात्रं तु ज्ञानं वा न च लभ्यते ॥

13.230.9

महारौरवसञ्ज्ञं तु द्वितीयं नरकं प्रिये ।
तस्माद्द्विगुणितं विद्धि माने दुःखे च रौरवात् ॥

13.230.10

तृतीयं नरकं तत्र कण्टिकावनसञ्ज्ञितम् । ततो द्विगुणितं तच्च पूर्वाभ्यां दुःखमानयोः ।
महापातकसंयुक्ता घोरास्तस्मिन्विशन्ति हि ॥

13.230.11

अग्निकुण्डमिति ख्यातं चतुर्थं नरकं प्रिये ।
एतद्द्विगुणितं तस्माद्यथानिष्टसुखं तथा ॥

13.230.12

ततो दुःखं हि सुमहदमानुषमिति स्मृतम् ।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः ॥

13.230.13

तत्र दुःखमनिर्देश्यं वहद्धोरं यथा तथा । पञ्चेन्द्रियैरसम्बाधात्पञ्चकष्टमिति स्मृतम् ।
भुञ्जते तत्रतत्रैव दुःखं दुष्कृतकारिणः ॥

13.230.14

अमानुषार्हजं दुःखं महाभूतैश्च भुञ्जते ।
अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम् ॥

13.230.15

पञ्च् कष्टेन हि समं नास्ति दुःखं तथा परम् ।
दुःखस्थानमिति प्राहुः पञ्चकष्टमिति प्रिये ॥

13.230.16

एवं त्वेतेषु तिष्ठन्ति प्राणिनोः दुःखभागिनः ।
अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये ॥

13.230.17

क्रोशन्तश्च रुदन्तश्च वेदनर्ता भृशातुराः ।
केचिद्भमन्तश्चेष्टन्ते केचिद्धावन्ति चातुराः ॥

13.230.18

आधावन्तो निवार्यन्ते शूलहस्तैर्यतस्ततः ।
रुजार्दितास्तृषायुक्ताः प्राणिनः पापकारिणः ॥

13.230.19

यावत्पूर्वकृतं तावन्न मुच्यन्ते कथञ्चन ।
क्रिमिभिर्भक्ष्यमाणाश्च वेदनार्तास्तृषान्विताः ॥

13.230.20

संस्मरन्तः स्वकं पापं कृतमात्मापराधजम् । शोचन्तस्तत्र तिष्ठन्ति यावत्पापक्षयं प्रिये ।
एवं भुक्त्वा तु नरकं मुच्यन्ते पापसन्क्षयात् ॥
उमोवाच ।

13.230.21

भगवन्कतिकालं ते तिष्ठन्ति नरकेषु वै ॥
महेश्वर उवाच ।

13.230.22

शतवर्षसहस्राणामादिं कृत्वा हि जन्तवः ।

13.230.22

तिष्ठन्ति नरकावासाः प्रलयान्तमिति स्थितिः ॥
उमोवाच ।

13.230.23

भगवंस्तेषु के तत्र तिष्ठन्तीति वद प्रभो ॥
महेश्वर उवाच ।

13.230.24

रौरवे शतसाहस्रं वर्षाणामिति संस्थितिः ।

13.230.24

मानुषघ्नाः कृतघ्नाश्च तथैवानृतवादिनः ॥

13.230.25

द्वितीये द्विगुणं कालं पच्यन्ते तादृशा नराः ।
महापातकयुक्तास्तु तृतीये दुःखमाप्नुयुः ॥

13.230.26

एतावन्मानुषसहं परमन्येषु लक्ष्यते ॥

13.230.27

यक्षा विद्याधराश्चैव काद्रवेयाश्च किन्नराः । गन्धर्वभूतसङ्घाश्च तेषां पापयुता भृशम् ।
चतुर्थे परिपच्यन्ते तादृशा नरकाः स्मृताः ॥ चतुर्थे परितप्यन्ते यावद्युगविपर्ययः ।

13.230.28

सहन्तस्तादृशं घोरं पञ्चकष्टे तु यादृशम् ।
तत्रास्य चिरदुःखस्य ह्यधोन्यान्विद्धि मानुषान् ॥

13.230.29

एवं ते नरकान्भुक्त्वा तत्र क्षपितकल्मषाः ।
नरकेभ्यो विमुक्ताश्च जायन्ते कृमिजातिषु ॥

13.230.30

उद्भेदजेषु वा केचिदत्रापि क्षीणकल्मषाः । पुनरेव प्रजायन्ते मृगपक्षिषु शोभने ।
मृगपक्षिषु तद्भुक्त्वा लभन्ते मानुषं पदम् ॥
उमोवाच ।

13.230.31

नानाजातिषु केनैव जायन्ते पापकारिणः ॥
महेश्वर उवाच ।

13.230.32

तदहं ते प्रवक्ष्यामि यत्त्वमिच्छसि शोभने ।
सर्वदाऽत्मा कर्मवशो नानाजातिषु जायते ॥

13.230.33

यश्च मांसप्रियो नित्यं काकगृध्नान्स संस्पृशेत् ।
सुरापः सततं मर्त्यः सूकरत्वं व्रजेद्भुवम् ॥

13.230.34

अभक्ष्यभक्षणो मर्त्यः काकजातिषु जायते ।
आत्मघ्नो यो नरः कोपात्प्रेतजातिसु तिष्ठति ॥

13.230.35

पैशुन्यात्परिवादाच्च कुक्कुटत्वमवाप्नुयात् ।
नास्तिकश्चैव यो मूर्खो मृगजातिं स गच्छति ॥

13.230.36

हिंसाविहारस्तु नरः क्रिमिकीटेषु जायते ।
अतिमानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत् ॥

13.230.37

अगम्यागमनाच्चैव परदारनिषेवणात् ।
मूषिकत्वं व्रजेन्मर्त्यो नास्ति तत्र विचारणा ॥

13.230.38

कृतघ्नो मित्रघाती च सृगालवृकजातिषु ।
कृतघ्नः पुत्रघाती च स्थावरेष्वथ तिष्ठति ॥

13.230.39

एवमाद्यशुभं कृत्वा नरा निरयगामिनः ।
तांस्तान्भावान्प्रपद्यन्ते स्वकृतस्यैव कारणात् ॥

13.230.40

एवञ्जातिषु निर्देश्याः प्राणिनः पापकारिणः ।
कथञ्चित्पुनरुत्पद्यि लभन्ते मानुषं पदम् ॥

13.230.41

बहुशश्चाग्निसङ्क्रान्तं लोहं शुचिमयं तथा । बहुदुःखाभिसन्तप्तस्तथाऽत्मा शोध्यते बलात् ।
तस्मात्सुदुर्लभं चेति विद्धि जन्मसु मानुषम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc