भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.228

13.228.1

भगवन्सर्वभूतेश लोके कर्मक्रियापथे ।
दैवात्प्रवर्तते सर्वमिति केचिद्व्यवस्थिताः ॥

13.228.2

अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम् । पक्षभेदे द्विधा चास्मिन्संशयस्थं मनो मम ।
तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे ॥
महेश्वर उवाच ।

13.228.3

तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता ।
तदेवं कुरुते कर्म लोके देवि शुभाशुभम् ॥

13.228.4

लक्ष्यते द्विविधं कर्म मानुषेष्वेव तच्छृणु ।
पुराकृतं तयोरेकमैहिकं त्वितरस्तथा ॥

13.228.5

अदृष्टपूर्वं यत्कर्म तद्दैवमिति लक्ष्यते ।
विहीनं दृष्टकरणं तन्मानुषमिति स्मृतम् ॥

13.228.6

मानुषं तु क्रियामात्रं दैवात्सम्भवते फलम् ।
एवं तदुभयं कर्म मानुषं विद्धि तन्नृषु ॥

13.228.7

लौकिकं तु प्रवक्ष्यामि दैवमानुषनिर्मितम् ।
कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा ॥

13.228.8

रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम् ।
दैवादसिद्धिश्च भवेद्दुष्कृतं चास्ति पौरुषे ॥

13.228.9

सुयत्नाल्लभ्यते कीर्तिर्दुर्यत्नादयशस्तथा ।
एवं लोकगतिर्देवि आदिप्रभृति वर्तते ॥
उमोवाच ।

13.228.10

भगवन्सर्वलोकेश सुरासुरनमस्कृत । कथमात्मा सदा गर्भं संविशेष्कर्मकारणात् ।
तन्मे वद महादेव तद्धि गुह्यं परं मतम् ॥
महेश्वर उवाच ।

13.228.11

शृणु भामिनि तत्सर्वं गुह्यानां परमं प्रिये ।
देवगुह्यादपि परमात्मगुह्यमिति स्मृतम् ॥

13.228.12

देवासुरास्तन्न विदुरात्मनो हि गतागतम् ।
अदृश्यो हि सदैवात्मा जनैः सौक्ष्म्यान्निराश्रयात् ॥

13.228.13

अतिमायेति मायानामात्ममाया सेदष्यते । सोयं चतुर्विधां जातिं संविशत्यात्ममायया ।
मैथुनं शोणितं बीजं दैवमेवात्र कारणम् ॥

13.228.14

बीजशोणितसंयोगे यदा सम्भवते शुभे ।
तदाऽत्मा विशते गर्भमेवमण्डजरायुजे ॥

13.228.15

एवं संयोगकाले तु आत्मा गर्भत्वमेयिवान् ॥

13.228.16

कलिलाज्जायते पिण्डं पिण्डात्पेश्यर्बुदं भवेत् ।
व्यक्तिभावगतं चैव कर्म त्वाश्रयते क्रमात् ॥

13.228.17

एवं विवर्धमानेन कर्मात्मा सह वर्धते ।
एवमात्मगतिं विद्धि यन्मां पृच्छसि सुप्रभे ॥

13.228.18

रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम् ॥

13.228.19

काले वृष्टिः सुवापं च प्ररोहः पक्तिरेव च ।
एवमादि तु यच्चान्यत्तद्दैवतमिति स्मृतम् ॥

13.228.20

पञ्चभूतस्थितिश्चैव ज्योतिषामयनं तथा ।
अबुद्धिगम्यं यन्मर्त्यैर्हेतुभिर्वा न विद्यते ॥

13.228.21

तादृशं कारणं दैवं शुभं वा यदि वेतरत् ।
यादृशं चात्मना शक्यं तत्पौरुषमिति स्मृतम् ॥

13.228.22

केवलं फलनिष्पत्तिरेकेन तु न शक्यते । पौरुषेणैव दैवेनि युगपद्ग्रथितं प्रिये ।
तयोः समाहितं कर्म शीतोष्णं युगपत्तथा ॥

13.228.23

पौरुषं तु तयोः पूर्वमारब्धव्यं विजानता ।
आत्मना तु न शक्यं हि न तथा कीर्तिमाप्नुयात् ॥

13.228.24

खननान्मथनाल्लोके जलाग्निप्रापणं यथा ।
तथा पुरुषकारे तु दैवसम्पत्समाहिता ॥

13.228.25

नरस्याकुर्वतः कर्म दैवसम्पन्न लभ्यते ।
तस्मात्सर्वसमारम्भो दैवमानुषनिर्मितः ॥

13.228.26

असुरा राक्षसाश्चैव मन्यन्ते लोकनाशनाः ।
पश्यन्ते न च ते पापाः केवलं मांसभक्षणाः ॥

13.228.27

प्रच्छादितं हि तत्सर्वं गूढमाया हि देवताः ।
तदहं ते प्रवक्ष्यामि देवि गुह्यं पुरस्सरम् ॥

13.228.28

आदिकाले नराः सर्वे कृत्वा कर्म शुभाशुभम् ।
भुञ्जते पश्यमानास्ते वृत्तान्तं लोकयोर्द्वयोः ॥

13.228.29

यथैवात्मकृतं विद्युर्देशान्तरगता नराः ।
विद्युस्तथैवान्तकाले सुकृतं पौर्वदैहिकम् ॥

13.228.30

एवं व्यवस्थिते लोके सर्वे धर्मरताऽभवन् ।
अचिरेणैव कालेन स्वर्गः सम्पूरितस्तदा ॥

13.228.31

देवानामपि सम्बाधं दृष्ट्वा ब्रह्माऽप्यचिन्तयत् ।
सञ्चरन्ते कथं स्वर्गं मानुषाः प्रविशन्ति हि ॥

13.228.32

इत्येवमनुचिन्त्यैव मानुषान्सममोहयत् ।
तदाप्रभृति ते मर्त्या न विदुस्ते पुराकृतम् ॥

13.228.33

कामक्रोधौ तु तत्काले मानुषेष्ववपातयत् ।
ताभ्यामभिहता मर्त्याः स्वर्गलोकं न पेदिरे ॥

13.228.34

पुराकृतस्याविज्ञानात्कामक्रोधाभिपीडिताः ।
नैतदस्तीति मन्वाना विकारंश्चक्रिरे पुनः ॥

13.228.35

अकार्यादिमहादोषानाहरन्त्यात्मकारणात् ।
विस्मृत्य धर्मकार्याणि परलोकभयं तदा ॥

13.228.36

एवं व्यवस्थिते लोके कश्मलं समपद्यत । लोकानां चैव देवानां क्षयायैव तथा प्रिये ।
नरकाः पूरिताश्चासन्प्राणिभिः पापकारिभिः ॥

13.228.37

पुनरेव तु तान्दृष्ट्वा लोककर्ता पितामहः । अचिन्तयत्तमेवार्थं लोकानां हितकारणात् ।
समत्वेन कथं लोके वर्तेतेति मुहुर्मुहुः ॥

13.228.38

चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये ।
अकरोज्ज्ञानदृश्यं तत्परलोकं न चक्षुषा ॥
उमोवाच ।

13.228.39

भगवन्मृतमात्रस्तु योयं जात इति स्मृतः ।
तथैव दृश्यते जातस्तत्रात्मा तु कथं भवेत् ॥

13.228.40

गर्भादावेव संविष्ट आत्मा तु भगवन्मम ।
एष मे संशयो देव तन्मे छेत्तुं त्वमर्हसि ॥
महेश्वर उवाच ।

13.228.41

तदहं ते प्रवक्ष्यामि शृणु तत्वं समाहिता ।

13.228.42

अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः । पुनरन्यच्छरीरं तत्प्रविश्य भुवि जायते ।
तत्वविन्नैव सर्वस्तु दैवयोगस्तु सम्भवेत् ॥

13.228.43

सूतिकाया हितार्थं च मोहनार्थं च देहिनाम् ।
समकर्मविधानत्वादित्येवं विद्धि शोभने ॥

13.228.44

काङ्क्षमाणास्तु नरकं भुक्त्वा केचित्प्रयान्ति हि । मायासंयामिका नाम यज्जन्ममरणान्तरे ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥
उमोवाच ।

13.228.45

भगवन्सर्वलोकेश लोकनाथ वृषध्वज ।
नास्त्यात्मा कर्मभोक्तेति मृतो जन्तुर्न जायते ॥

13.228.46

स्वभावाज्जायते सर्वं यथा वृक्षफलं तथा ।
यथोर्मयः सम्भवन्ति तथैव जगदाकृतिः ॥

13.228.47

तपोदानानि यत्कर्म तत्र तद्दृश्यते वृथा ।
नास्ति पौनर्भवं जन्म इति केचिद्व्यवस्थिताः ॥

13.228.48

परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात् ।
तत्सर्वं नास्तिनास्तीति संशयस्थास्तथा परे ॥

13.228.49

पक्षभेदान्तरे चास्मिंस्तत्वं मे वक्तुमर्हसि ।
उक्तं भगवता यत्तु तत्तु लोकस्य संस्थितिः ॥

13.228.50

प्रश्नमेतत्तु पृच्छत्या रुद्राण्या परिषत्तदा ।
कौतूहलयुता श्रोतुं समाहितमनाऽभवत् ॥
महेश्वर उवाच ।

13.228.51

नैतदस्ति महाभागे यद्वदन्तीह नास्तिकाः ।
एतदेवाभिशस्तानां श्रुतविद्वेषिणां मतम् ॥

13.228.52

सर्वमर्थं श्रुतं दृष्टं यत्प्रागुक्तं मया तव ।
तदाप्रभृति मर्त्यानां श्रुतमाश्रित्य पण्डिताः ॥

13.228.53

कामान्सञ्छिद्य परिगान्धृत्या वै परमासिना ।
अभियान्त्येव ते स्वर्गं पश्यन्तः कर्मणः पलम् ॥

13.228.54

एवं श्रद्धाफलं लोके परतः सुमहत्फलम् ।
बुद्धिः श्रद्धा च विनयः कारणानि हितैषिणाम् ॥

13.228.55

तस्मात्स्वर्गाभिगन्तारः कतिचित्त्वभवन्नराः ।
अन्ये करणहीनत्वान्नास्तिक्यं भावमाश्रिताः ॥

13.228.56

श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः ।
निष्क्रियास्तु निरन्नादाः पतन्त्येवाधमां गतिम् ॥

13.228.57

नास्त्यस्तीति पुनर्जन्म कवयोऽप्यत्र मोहिताः ।
नाधिगच्छन्ति तन्नित्यं हेतुवादशतैरपि ॥

13.228.58

एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः ।
किम्पुनर्मानवैर्लोके ज्ञातुकामैः कुबुद्धिभिः ॥

13.228.59

केवलं श्रद्धया देवि श्रुतमात्मनिविष्टया ।
ततोस्तीऽत्येव मन्तव्यं तथा हितमवाप्नुयात् ॥

13.228.60

दैवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः । बधिरान्धवदेवात्र वर्तितव्यं हितैषिणा ।
एतत्ते कथितं देवि ऋषिगुह्यं प्रजाहितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc