भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.225

13.225.1

भगवन्भगनेत्रघ्न मानुषाणां विचेष्टितम् ।
सर्वमात्मकृतं चेति श्रुतं मे भगवन्मतम् ॥

13.225.2

लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम् । तदेव ग्रहनक्षत्रं प्रायशः पर्युपासते ।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि ॥
महेश्वर उवाच ।

13.225.3

स्थाने संशयितं देवि शृणु तत्वविनिश्चयम् ॥

13.225.4

नक्षत्राणि ग्रहाश्चैव शुभाशुभनिवेदकाः ।
मानवानां महाभागे न तु कर्मकराः स्वयम् ॥

13.225.5

प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति ।
अनागतमतिक्रान्तं ज्योतिश्चक्रेण बोध्यते ॥

13.225.6

किन्तु तत्र शुभं कर्म सुग्रहैस्तु निवेद्यते ।
दुष्कृतस्याशुभैरेव समावायो भवेदिति ॥

13.225.7

तस्मात्तु ग्रहवैषम्ये विषमं कुरुते जनः ।
ग्रहसाम्ये शुभं कुर्याज्ज्ञात्वाऽत्मानं तथा कृतम् ॥

13.225.8

केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् ।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥

13.225.9

पृथग्ग्रहाः पृथक्कर्ता कर्ता स्वं भुञ्जते फलम् ।
इति ते कथितं सर्वं विशङ्कां जहि शोभने ॥
उमोवाच ।

13.225.10

भगवन्विविधं कर्म कृत्वा जन्तुः शुभाशुभम् । किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः ।
एष मे संशयो देव तं मे त्वं छेत्तुमर्हसि ॥
महेश्वर उवाच ।

13.225.11

स्थाने संशयितं देवि तत्ते वक्ष्यामि तत्वतः ॥ अशुभं पूर्वमित्याहुरपरे शुभमित्यपि ।

13.225.12

मिथ्या तदुभयं प्रोक्तं केवलं तद्ब्रवीमि ते ॥

13.225.13

मानुषे तु पदे कर्म युगपद्भुज्यते सदा ।
यथाकृतं यथायोगमुभयं भुज्यते क्रमात् ॥

13.225.14

भुञ्जानाश्चापि दृश्यन्ते क्रमशो भुवि मानवाः ।
ऋद्धिं हानिं सुखं दुःखं तत्सर्वमुभयं भयम् ॥

13.225.15

दुःखान्यनुभवन्त्याढ्या दरिद्राश्च सुखानि च ।
यौगपद्याद्धि भुञ्जाना दृश्यन्ते लोकसाक्षिकम् ॥

13.225.16

नरके स्वर्गलोके च न तथा संस्थितिः प्रिये ।
नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा ॥

13.225.17

शुभाशुभानामाधिक्यं कर्मणां तत्र सेव्यते ।
निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत् ॥

13.225.18

तत्रापि सुमहद्भुक्त्वा पूर्वमल्पं पुनः शुभे ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।

13.225.19

भगवन्प्राणिनो लोके म्रियन्ते केन हेतुना ।
जाताजाता न तिष्ठन्ति तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.225.20

तदहं ते प्रवक्ष्यामि शृणु सत्यं समाहिता ।
आत्मा कर्मक्षयाद्देहं यथा मुञ्चति तच्छृणु ॥

13.225.21

शरीरात्मसमाहारो जन्तुरित्यभिधीयते ।
तत्रात्मानं नित्यमाहुरनित्यं क्षेत्रिमुच्यते ॥

13.225.22

एवं कालेन सङ्क्रान्तं शरीरं जर्झरीकृतम् ।
अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत् ॥

13.225.23

नित्यस्यानित्यसन्त्यागाल्लोके तन्मरणं विदुः ।
कालं नातिक्रमेरन्हि सदेवासुरमानवाः ॥

13.225.24

यथाऽकाशे न तिष्ठेत द्रव्यं किञ्चिदचेतनम् ।
तथा धावति कालोऽयं क्षणं किञ्चिन्न तिष्ठति ॥

13.225.25

स पुनर्जायतेऽन्यत्र शरीरं नवमाविशन् ।
एवंलोकगतिर्नित्यमादिप्रभृति वर्तते ॥
उमोवाच ।

13.225.26

भगवन्प्राणिनो बाला दृश्यन्ते मरणं गताः ।
अतिवृद्धाश्च जीवन्तो दृश्यन्ते चिरजीविनः ॥

13.225.27

केवलं कालमरणं न प्रमाणं महेश्वर ।
तस्मान्मे संशय ब्रूहि प्राणिनां जीवकारणम् ॥
महेश्वर उवाच ।

13.225.28

शृणु तत्कारणं देवि निर्णयस्त्वेक एव सः ।
जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत् ॥

13.225.29

जीर्णे कर्मणि सन्घातः स्वयमेव विशीर्यते ।
पूर्वकर्मप्रमाणेन जीवितं मृत्युरेव वा ॥

13.225.30

यावत्पूर्वकृतं कर्म तावज्जीवति मानवः ।
तत्र कर्मवशाद्बाला म्रियन्ते कालसन्क्षयात् ॥

13.225.31

चिरं जीवन्ति वृद्धाश्च तथा कर्मप्रमाणतः ।
इति ते कथितं देवि निर्विशङ्का भव प्रिये ॥
उमोवाच ।

13.225.32

भगवन्केन वृत्तेन भवन्ति चिरजीविनः ।
अल्पायुषो नराः केन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.225.33

शृणु तत्सर्वमखिलं गुह्यं पथ्यतरं नृणाम् ।
येन वृत्तेन सम्पन्ना भवन्ति चिरजीविनः ॥

13.225.34

अहिंसा सत्यवचनमक्रोधः क्षीन्तिरार्जवम् ।
गुरूणां नित्यशुश्रूषा वृद्धानामपि पूजनम् ॥

13.225.35

शौचादकार्यसन्त्यागात्सदा पथ्यस्य भोजनम् ।
एवमादिगुणं वृत्तं नराणां दीर्घजीविनाम् ॥

13.225.36

तपसा ब्रह्मचर्येण रसायननिषेवणात् । उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः ।
स्वर्गे वा मानुषे वाऽपि चिरं तिष्ठन्ति धार्मिकाः

13.225.37

अपरे पापकर्माणः प्रायशोऽनृतवादिनः ।
हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः ॥

13.225.38

नास्तिका घोरकर्माणः सततं मांसपानपाः ।
पापाचारा गुरुद्विष्टाः कोपनाः कलहप्रियाः ॥

13.225.39

एवमेवाशुभाचारास्तिष्ठन्ति नरके चिरम् । तिर्यग्योनौ तथाऽत्यन्तमल्पास्तिष्ठन्ति मानवाः ।
तस्मादल्पायुषो मर्त्यास्तादृशाः सम्भवन्ति ते ॥

13.225.40

अगम्यदेशगमनादपथ्यानां च भोजनात् ।
आयुःक्षयो भवेन्नॄणामायुःक्षयकरा हि ते ॥

13.225.41

भवन्त्यल्पायुषस्तैस्तैरन्यथा चिरजीविनः ।
एतत्ते कथितं सर्वं भूयः श्रोतुं किमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc