भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.221

13.221.1

भगवन्देवदेवेश भूतपाल नमोस्तु ते ।
ह्रस्वाङ्गाश्चैव वक्राङ्गाः कुब्जा वामनकास्तथा ॥

13.221.2

अपरे मानुषा देव दृश्यन्ते कुणिबाहवः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.221.3

ये पुरा मनुजा देवि लोभमोहसमन्विताः ।
धान्यमानान्विकुर्वन्ति क्रयविक्रयकारणात् ॥

13.221.4

कुलदोषं तदा देवि धृतमानेषु नित्यशः ।
अर्धापकर्षणं चैव सर्वेषां क्रयविक्रये ॥

13.221.5

अङ्गदोषकरा ये तु परेषां कोपकारणात् ।
मांसादाश्चैव ये मूर्खा अयथावत्प्रथाः सदा ॥

13.221.6

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
ह्रस्वाङ्गा वामनाश्चैव कुब्जाश्चैव भवन्ति ते ॥
उमोवाच ।

13.221.7

भगवन्मानुषाः केचिद्दृश्यन्ते मानुषेषु वै । उन्मत्ताश्च पिशाचाश्च पर्यटन्तो यतस्ततः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.221.8

ये पुरा मनुजा देवि दर्पाहन्कारसंयुताः ।
बहुधा प्रलपन्त्येव हसन्ति च परान्भृशम् ॥

13.221.9

मोहयन्ति परान्भोगैर्मदनैर्लोभकारणात् । वृद्धान्गुरूंश्च ये मूर्खा वृथैवापहसन्ति च ।
शौण्डा विदग्धाः शास्त्रेषु सदैवानृतवादिनः ॥

13.221.10

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ।
उन्मत्ताश्च पिशाचाश्च भवन्त्येव न संशयः ॥
उमोवाच ।

13.221.11

भगवन्मानुषाः केचिन्निरपत्याः सुदुःखिताः । यतन्तो न लभन्त्येव अपत्यानि यतस्ततः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.221.12

ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः ।
घ्नन्ति बालांश्च भुञ्जन्ते मृगाणां पक्षिणामपि ॥

13.221.13

गुरुविद्वेषिणश्चैव परपुत्राभ्यसूयकाः ।
पितृपूजां न कुर्वन्ति यथोक्तां चाष्टकादिभिः ॥

13.221.14

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । मानुष्यं वा चिरात्प्राप्य निरपत्या भवन्ति ते ।
पुत्रशोकयुताश्चापि नास्ति तत्र विचारणा ॥
उमोवाच ।

13.221.15

भगवन्मानुषाः केचित्प्रदृश्यन्ते सुदुःखिताः ।
उद्वेगवासनिरताः सोद्वेगाश्च यतव्रताः ॥

13.221.16

नित्यं शोकसमाविष्टा दुर्गताश्च तथैव च ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.221.17

ये पुरा मनुजा नित्यमुत्क्रोशनपरायणाः ।
भीषयन्ति परानित्यं विकुर्वन्ति तथैव च ॥

13.221.18

ऋणवृद्धिकराश्चैव दरिद्रेभ्यो यथेष्टतः ।
ऋणार्थमभिगच्छन्ति सततं वृद्धिरूपकाः ॥

13.221.19

उद्विजन्ते हि तान्दृष्ट्वा धारकाः स्वार्थकारणात् ।
अतिवृद्धिर्न कर्तव्या दरिद्रेभ्यो यथेष्टतः ॥

13.221.20

ये श्वभिः क्रीडमानाश्च त्रासयन्ति वने मृगान् ।
प्राणिहिंसां तथा देवि कुर्वन्ति च यतस्ततः ॥

13.221.21

येषां गृहेषु वै श्वानस्त्रासयन्ति वृथा नरान् ।
एवंयुक्तसमाचाराः कालधर्मगताः पुनः ॥

13.221.22

पीडिता यमदण्डेन निरयस्थाश्चिरं प्रिये ।
कथञ्चित्प्राप्य मानुष्यं तत्र ते दुःखसंयुताः ॥

13.221.23

कुदेशे दुःखभूयिष्ठे व्याघातशतसङ्कुले ।
जायन्ते तत्र शोचन्तः सोद्वेगाश्च यतस्ततः ॥
उमोवाच ।

13.221.24

भगवन्मानुषाः केचिदैश्वर्यज्ञानसंयुताः । म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.221.25

ये पुरा मनुजा देवि धनधान्यसमन्विताः ।
अयथावत्प्रयच्छन्ति श्रद्धावर्जितमेव वा ॥

13.221.26

अपात्रेभ्यश्च ये दानं शौचमङ्गलवर्जिताः ।
ददत्येव च ये मूर्खाः श्लाघयाऽवज्ञयाऽपि वा ॥

13.221.27

एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने । कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसन्कटे ।
म्लेच्छाधिपत्यं सम्प्राप्य जायन्ते तत्रतत्र वै ॥
उमोवाच ।

13.221.28

भगवन्भगनेत्रघ्न मानुषेषु च केचन ।
क्लीबा नपुंसकाश्चैव दृश्यन्ते षण्डकास्तथा ॥

13.221.29

नीचकर्मरता नीचा नीचसक्यास्तथा भुवि ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.221.30

तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥

13.221.31

ये पुरा मनुजा भूत्वा घोरकर्मरतास्तथा ।
पशुपंस्त्वोपगातेन जीवन्ति च रमन्ति च ॥

13.221.32

पुंस्त्वोपघातिनश्चैव नराणां कोपकारणात् ।
ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद्यथेष्टतः ॥

13.221.33

कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात् । एवंयुक्तसमाचाराः कालधर्मं गतास्तु ते ।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥

13.221.34

यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः ।
क्लीबा वर्षवराश्चैव षण्डकाश्च भवन्ति ते ॥

13.221.35

नीचकर्मपरा लोके निर्लज्जा वीतसम्भ्रमाः ।
परान्दीनान्बहिष्कृत्य ते भवन्ति स्वकर्मणा ॥

13.221.36

यदि चेत्सम्प्रपश्येरंस्ते मुच्यन्ते हि कल्मषात् ।
अत्रापि ते प्रमाद्येयुः पतन्ति नरकालये ॥

13.221.37

स्त्रीणामपि तथा देवि यथा पुंसां तु कर्मजम् ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc