भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.213

13.213.1

देवदेव महादेव सर्वदेवनमस्कृत ।
यानि धर्मरहस्यानि श्रोतुमिच्छामि तान्यहम् ॥
महेश्वर उवाच ।

13.213.2

रहस्यं श्रूयतां देवि मानुषाणां सुखावहम् ।
नपुंसकेषु वन्ध्यासु वियोनौ पृथिवीतले ॥

13.213.3

उत्सर्गो रेतसस्तेषु न कार्यो धर्मकाङ्क्षिभिः ।
एतेषु बीजं प्रक्षिप्तं न च रोहति वै प्रिये ॥

13.213.4

यत्र वा तत्र वा बीजं धर्मार्थीं नोत्सृजेत्पुनः ।
नरो बीजविनाशेन लिप्यते ब्रह्महत्यया ॥

13.213.5

अहिंसा परमो धर्म अहिंसा परमं सुखम् ।
अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम् ॥

13.213.6

देवतातिथिशुश्रूषा सततं धर्मशीलता ।
वेदाध्ययनयज्ञाश्च तपो दानं दमस्तथा ॥

13.213.7

आचार्यगुरुशुश्रूषा तीर्थाभिगमनं तथा ।
अहिंसाया वरारोहे कलां नार्हन्ति षोडशीम् ॥

13.213.8

एतत्ते परमं गुह्यमाख्यातं परमार्चितम् ॥
उमोवाच ।

13.213.9

यद्यधर्मस्तु हिंसायां किमर्थममरोत्तम ।
यज्ञेषु पशुबन्धेषु हन्यन्ते पशवो द्विजैः ॥

13.213.10

कथं च भगवन्भूयो हिंसमाना नराधिपाः ।
स्वर्गं सुदुर्गमं यान्ति तदा स्म रिपुसूदन ॥

13.213.11

यस्यैव गोसहस्राणि विंशतिः स्वादिकानि तु ।
अहन्यहनि हन्यन्ते द्विजानां मांसकारणात् ॥

13.213.12

समांसं तु स दत्त्वाऽन्नं रन्तिदेवो नराधिपः ।
कथं स्वर्गमनुप्राप्तः परं कौतूहलं हि मे ॥

13.213.13

किन्तु धर्मं न शृण्वन्ति न श्रद्दधति वा श्रुतम् ।
मृयां वै विनिर्गत्य मृगान्हन्ति नराधिपाः ॥

13.213.14

एतत्सर्वं विशेषेण विस्तरेण वृषध्वज ।
श्रोतुमिच्छामि सर्वज्ञ तत्त्वमद्य ममोच्यताम् ॥
ईश्वर उवाच ।

13.213.15

बहुमान्यमिदं देवि नास्ति कश्चिदहिंसकः ।
श्रूयतां कारणं चात्र यथाऽनेकविधं भवेत् ॥

13.213.16

दृश्यते चापि लोकेऽस्मिन्न हि कश्चिदहिंसकः ।
धरणीसंश्रिता देवि सुसूक्ष्मांश्चैव मध्यमान् ॥

13.213.17

सञ्चरंश्चरणाभ्यां च हन्ति जीवाननेकशः । अज्ञानाज्ज्ञानतो वाऽपि यो जीवः शयनासनात् ।
उपाविशञ्शयानश्च हन्ति जीवाननेकशः ॥

13.213.18

शिरोवस्त्रेषु ये जीवा नरणां स्वेदसम्भवाः ।
तांश्च हिंसन्ति सततं दंशांश्च मशकानपि ॥

13.213.19

जले जीवास्तथाऽकाशे पृथिवी जीवमालिनी ।
एवं जीवाकुले लोके कोसौ स्याद्यस्त्वहिंसकः ॥

13.213.20

स्थूलमध्यमसूक्ष्मैश्च स्वेदवारिमहीरुहैः ।
दृश्यरूपैरदृश्यैश्च नानारूपैश्च भामिनि ॥

13.213.21

जीवैस्ततमिदं सर्वमाकाशं पृथिवी तथा ।
अन्योन्यं ते च हिंसन्ति दुर्बलान्बलवत्तराः ॥

13.213.22

मत्स्या मत्स्यान्ग्रसन्तीह खगाश्चैव खगांस्तथा ।
सरीसृपैश्च जीवन्ति कपोताद्या विहङ्गमाः ॥

13.213.23

भूचराः खेचराश्चान्ये क्रव्यादा मांसगृद्धिनः ।
समृद्धाः परमांसैस्तु भक्षेरंस्तेऽपि चापरैः ॥

13.213.24

सत्वैः सत्वानि जीवन्ति शतशोथ सहस्रशः ।
अपीडयित्वा नैवान्यं जीवा जीवन्ति सुन्दरि ॥

13.213.25

स्थूलकायस्य सत्वस्य खरस्य महिषस्य च । जीवस्यैकस्य मांसेन पयसा रुधिरेण वा ।
तृप्यन्ते बहवो जीवाः क्रव्यादा मांसजीविनः ॥

13.213.26

एको जीवसहस्राणि सदा खादति मानवः ।
अन्नाद्यस्य च भोगेन दान्यसञ्ज्ञानि यानि तु ॥

13.213.27

मांसधान्यैः सबीजैश्च भोजनं परिवर्जयेत् ॥

13.213.28

त्रिरात्रं पञ्चरात्रं वा सप्तरात्रं तथाऽपि वा ।
धान्यानि यो न हिंसेताहिंसकः परिकीर्तितः ॥

13.213.29

नाश्नाति यावतो जीवस्तावत्पुण्येन युज्यते ।
आहारस्य वियोगेन शरीरं परितप्यते ॥

13.213.30

तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु ।
वशे तिष्ठन्ति सुश्रोणि नृपाणामिव किन्कराः ॥

13.213.31

निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः । इन्द्रियाणां निरोधेन दानेन च दमेन च ।
नरः सर्वमवाप्नोति मनसा यद्यधिच्छति ॥

13.213.32

एवं मूलमर्हिसाया उपवासः प्रकीर्तितः ॥

13.213.33

आहारं कुरुते यस्तु भूमिमाक्रमते च यः ।
सर्वे ते हिंसका देवि यथा धर्मेषु दृश्यते ॥

13.213.34

यथैवाहिंसको देवि तत्वतो ज्ञायते नरः ।
तथा ते सम्प्रवक्ष्यामि श्रूयतां धर्मचारिणि ॥

13.213.35

फलानि मूलपर्णानि भस्म वा योपि भक्षयेत् ।
अलेख्यमिव निश्चेष्टं तं मन्येऽहमहिंसकम् ॥

13.213.36

आरम्भा हिंसया युक्ता धूमेनाग्निरिवावृताः ।
तस्माद्यस्तु निराहारस्तं मन्येऽहमहिंसकम् ॥

13.213.37

यस्तु सर्वं समुत्सृज्य दीक्षित्वा नियतः शुचिः ।
कृत्वा मण्डलमर्यादां सङ्कल्पं कुरुते नरः ॥

13.213.38

यावज्जीवमनाशित्वा कालकाङ्क्षी दृढव्रतः ।
ध्यानेन तपसा युक्तस्तं मन्येऽहमहिंसकम् ॥

13.213.39

अन्यथा हि न पश्यामि नरो यः स्यादहिंसकः ।
बहु चिन्त्यमिदं देवि नास्ति कश्चिदहिंसकः ॥

13.213.40

यतो यतो महाभागे हिंसा स्यान्महती ततः ।
निवृत्तो मधुमांसाभ्यां हिंसा त्वल्पतरा भवेत् ॥

13.213.41

निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम् ।
मनसा विनिवृत्तानां धर्मस्य निचयो महान् ॥

13.213.42

मनःपूर्वागमा धर्मा अधर्माश्च न संशयः ।
मनसा बध्यते चापि मुच्यते चापि मानवः ॥

13.213.43

निगृहीते भवेत्स्वर्गो विसृष्टे नरको ध्रुवः ।
घातकः शस्त्रमुद्यम्य मनसा चिन्तयेद्यदि ॥

13.213.44

आयुःक्षयं गतेऽन्येषां मृते तु प्रहराम्यहम् ।
इति यो घातको हन्यान्न स पापेन लिप्यते ॥

13.213.45

विधिना निहताः पूर्वं निमित्तं स तु घातकः ।
विधिर्हि बलवान्देवि दुस्त्यजं वै पुराकृतम् ॥

13.213.46

जीवाः पुराकृतेनैव तिर्यग्योनिसरीसृपाः ।
नानायोनिषु जायन्ते स्वकर्मपरिवेष्टिताः ॥

13.213.47

नानाविधविचित्राङ्गा नानाशौर्यपराक्रमाः ।
नानाभूमिप्रदेशेषु नानाहारश्च जन्तवः ॥

13.213.48

जायमानस्य जीवस्य मृत्युः पूर्वं प्रजायते ।
सुखं वा यदि वा दुःखं यथापूर्वं कृतं तु वा ॥

13.213.49

प्राप्नुवन्ति नरा मृत्युं यदा यत्र च येन च ।
नातिक्रान्तुं हि शक्यः स्यान्निदेशः पूर्वकर्मणः ॥

13.213.50

अप्रमत्तः प्रमत्तेषु विधिर्जागर्ति जन्तुषु ।
न हि तस्य प्रियः कश्चिन्न द्वेष्यो न च मध्यमः ॥

13.213.51

समः सर्वेषु भूतेषु कालः कालं निरीक्षते ।
गतायुषो ह्याक्षिपते जीवः सर्वस्य देहिनः ॥

13.213.52

यथा येन च मर्तव्यं नान्यथा म्रियते हि सः ।
दृश्यते न च लोकेऽस्मिन्भूतो भव्यो द्विधा पुनः ॥

13.213.53

विज्ञानैर्विक्रमैर्वाऽपि नानामन्त्रौषधैरपि ।
यो हि वञ्चयितुं शक्तो विधेस्तु नियतां गतिम् ॥

13.213.54

एष तेऽभिहितो देवि जीवहिंसाविधिक्रमः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc