भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.210

13.210.1

भगवन्देवदेवेश तेषां कर्मफलं प्रभो ।
श्रोतुमिच्छाम्यहं देव प्रसादात्ते वरप्रद ॥
महेश्वर उवाच ।

13.210.2

वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये ॥

13.210.3

अग्नियोगं व्रजन्ग्रीष्मे ततो द्वादशवार्षिकम् ।
रुद्रलोकेऽभिजायेत विधिदृष्टेन कर्मणा ॥

13.210.4

उपवासव्रतं कुर्वन्वर्षाकाले दृढव्रतः ।
सोमलोकेऽभिजायेत नरो द्वादशवार्षिकम् ॥

13.210.5

काष्ठवन्मौनमास्थाय नरो द्वादशवार्षिकम् ।
मरुतां लोकमास्थाय तत्र भोगैश्च युज्यते ॥

13.210.6

कुशशर्करसंयुक्ते स्थण्डिले संविशन्मुनिः ।
यक्षलोकेऽभिजायेत सहस्राणि चतुर्दश ॥

13.210.7

वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम् । वीरासनगतो यस्तु कण्टकाफलकाश्रितः ।
गन्धर्वेष्वभिजायेत नरो द्वादशवार्षिकम् ॥

13.210.8

वीरस्थायी चोर्ध्वबाहुर्नरो द्वादशवार्षिकम् ।
देवलोकेऽभिजायेत दिव्यभोगसमन्वितः ॥

13.210.9

पादाङ्गुष्ठेन यस्तिष्ठेदूर्ध्वबाहुर्जितेन्द्रियः । इन्द्रलोकेऽभिजायेत सहस्राणि चतुर्दश ।

13.210.10

आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् ।
नागलोकेऽभिजायेत संवत्सरगणान्बहून् ॥

13.210.11

एवं दृढव्रता देवि वानप्रस्थाश्च कर्मभिः ।
स्थानेषु तत्र तिष्ठन्ति तत्तद्भोगसमन्विताः ॥

13.210.12

तेभ्यो भ्रष्टाः पुनर्देवि जायन्ते नृषु भोगिनः ।
वर्णोत्तमकुलेष्वेव धनधान्यसमन्विताः ॥

13.210.13

एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।

13.210.14

एषां यथा वराणां तु धर्ममिच्छामि मानद ।
कृपया परयाऽविष्टस्तन्मे ब्रूहि महेश्वर ॥
महेश्वर उवाच ।

13.210.15

धर्मं यथा वराणां त्वं शृणु भामिनि तत्परा ॥

13.210.16

व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः ।
धृतिमन्तःक क्षमायुक्ताः सत्यव्रतपरायणाः ॥

13.210.17

पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः ।
वर्षैः शीतातपैश्चैव कुर्वन्तः परमं तपः ॥

13.210.18

कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते ।
तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः ॥

13.210.19

दिव्यभूषणसंयुक्ता विमानवरसंयुताः । विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः ।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।

13.210.20

तेषां चक्रचराणां च धर्ममिच्छामि वै प्रभो ॥
महेश्वर उवाच ।

13.210.21

हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे ॥

13.210.22

संवहन्तो धुरं दानैः शकटानां तु सर्वदा ।
प्रार्थयन्ते यथाकालं शकटैर्भैक्षचर्यया ॥

13.210.23

तपोर्जनपरा धीरास्तपसा क्षीणकल्मषाः ।
पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः ॥

13.210.24

तेनैव कालयोगेन त्रिदिवं यान्ति शोभने ।
तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम् ॥

13.210.25

एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।

13.210.26

वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो ॥
महेश्वर उवाच ।

13.210.27

ते वै वैखानसा नाम वानप्रस्थाः शुभेक्षणे । तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा ।
सत्यव्रतपरा धीरास्तेषां निष्कल्मषं तपः ॥

13.210.28

अश्मकुट्टास्तथाऽन्ये च दन्तोलूखलिनस्तथा ।
शीर्णपर्णाशिनश्चान्ये उञ्छवृत्तास्तथा परे ॥

13.210.29

कपोतवृत्तयश्चान्ये कापोतीं वृत्तिमाश्रिताः ।
पशुप्रचारनिरताः फेनपाश्च तथा परे ॥

13.210.30

मृगवन्मृगचर्यायां सञ्चरन्ति तथा परे ।
अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च ॥

13.210.31

केचिच्चरन्ति सद्विष्णोः पादपूजनमुत्तमम् । सञ्चरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः ।
स्ववशादेव ते मृत्युं भीषयन्ति च नित्यशः ॥

13.210.32

इन्द्रलोके तथा तेषां निर्मिता भोगसञ्चयाः ।
अमरैः समतां यान्ति देववद्भोगसंयुताः ॥

13.210.33

वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते ।
एतत्ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥
उमोवाच ।

13.210.34

भगवञ्श्रोतुमिच्छामि वालखिल्यांस्तपोधनान् ॥
महेस्वर उवाच ।

13.210.35

धर्मचर्यां तथा देवि वालखिल्यगतां शृणु ॥

13.210.36

मृगनिर्मोकवसना निर्द्वन्द्वास्ते तपोधनाः ।
अङ्गुष्ठमात्राः सुश्रोणि तेष्वेवाङ्गेषु संश्रिताः ॥

13.210.37

उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः । भास्करस्येव किरणैः सहसा यान्ति नित्यदा ।
द्योतयन्तो दिशः सर्वा धर्मज्ञाः सत्यवादिनः ॥

13.210.38

तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम् ।
लोकोऽयं धार्यते देवि तेषामेव तपोबलात् ॥

13.210.39

महात्मनां तु तपसा सत्येन च शुचिस्मिते ।
क्षमया च महाभागे भूतानां संस्थितिं विदुः ॥

13.210.40

प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः । तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम् ।
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत् ॥

13.210.41

पञ्चभूतार्थतत्वे च लोकसृष्टिविर्धनम् ।
एतत्सर्वं समासेन तपोयोगाद्विनिर्मितम् ॥

13.210.42

तस्मादयं त्वृषिगणस्तपस्तप इति प्रिये ।
धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये ॥

13.210.43

अमरत्वं शिवत्वं च तपसा प्रापयेत्सदा । एतत्ते कथितं सर्वं शृण्वन्त्यास्ते श्रुतं प्रिये ।
प्रियार्थमृषिसङ्घस्य प्रजानां हितकाम्यया ॥
नारद उवाच ।

13.210.44

एवं ब्रुवन्तं देवेशमृषयश्चापि तुष्टुवुः ।
भूयः परतरं यत्तु तदाप्रभृति चक्रिरे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc