भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.207

13.207.1

भगवन्सर्वभूतेश शूलपाणे वृषध्वज ।
आवासेषु विचित्रेषु रम्येषु च शुभेशु च ॥

13.207.2

सत्सु चान्येषु भूतेषु श्मशाने रमसे कथम् ।
केशास्थिकलिले भीमे कपालशतसङ्कुले ॥

13.207.3

सृगालगृध्रम्पूर्णे शवधूमसमाकुले ।
चिताग्निविषमे घोरे गहने च भयानके ॥

13.207.4

एवं कलेवरक्षेत्रे दुर्दर्शे रमसे कथम् ।
एष मे संशयो देव तन्मे शंसितुमर्हसि ॥
महादेव उवाच ।

13.207.5

हन्त ते कथयिष्यामि शृणु देवि समाहिता ।
आवासार्थं पुरा देवि शुद्धान्वेषी शुचिस्मिते ॥

13.207.6

नाध्यगच्छं चिरं कालं देशं शुचितमं शुभे ।
एष मेऽभिनिवेशोऽभूत्तस्मिन्काले प्रजापतिः ॥

13.207.7

आकुलः सुमहाघोरः प्रादुरासीत्समन्ततः ।
सम्भूता भूतसृष्टिश्च घोरा लोकभयावहा ॥

13.207.8

नानावर्णा विरूपाश्च तीक्ष्णदंष्ट्राः प्रहारिणः । पिशाचरक्षोवदनाः प्राणिनां प्राणहारिणः ।
इतश्चरन्ति निघ्नन्तः प्राणिनो भृशमेव च ॥

13.207.9

एवं लोके प्राणिहीने क्षयं याते पितामहः ।
चिन्तयंस्तत्प्रतीकारं मां च शक्तं हि निग्रहे ॥

13.207.10

एवं ज्ञात्वा ततो ब्रह्मा तस्मिन्कर्मण्योजयत् ।
तच्च प्राणिहितार्थं तु मयाऽप्यनुमतं प्रिये ॥

13.207.11

तस्मात्संरक्षिता देवि भूतेभ्यः प्राणिनो भयात् । अस्माच्छ्मशानान्मेध्यं तु नास्ति किञ्चिदनिन्दिते ।
निःसम्पातान्मनुष्याणां तस्माच्छुचितमं स्मृतं ॥

13.207.12

भूतसृष्टिं च तां चाहं श्मशाने सन्न्यवेशयम् ।
तत्रस्थः सर्वभूतानां विनिहन्मि प्रिये भयम् ॥

13.207.13

न च भूतगणेनाहं विना वसितुमुत्सहे ।
तस्मान्मे सन्निवासाय श्मशाने रोचते मनः ॥

13.207.14

मेध्यकामैर्द्विजैनित्यं मेध्यमित्यभिधीयते ।
आचरद्भिर्व्रतं नित्यं मोक्षकामैश्च सेव्यते ॥

13.207.15

स्थानं मे तत्र विहितं वीरस्थानमिति प्रिये ।
कपालशतसम्पूर्णमभिरूपं भयानकम् ॥

13.207.16

मध्याह्ने सन्ध्ययोस्तत्र नक्षत्रे रुद्रदेवते ।
आयुष्कामैरशुद्धैर्वा न गन्तव्यमिति स्थितिः ॥

13.207.17

मदन्येन न शक्यं हि निहन्तुं भूतजं भयम् ।
तत्रस्थोऽहं प्रजाः सर्वाः पालयामि दिनेदिने ॥

13.207.18

मन्नियोगाद्भूतसङ्घा न च घ्नन्तीह कञ्चन । तांस्तु लोकहितार्ताय श्मशाने रमयान्महम् ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।

13.207.19

भगवन्देवदेवेश त्रिनेत्र वृषभध्वज ।
पिङ्गलं विकृतं भाति रूपं ते तु भयानकम् ॥

13.207.20

भस्मदिग्धं विरूपाक्षं तीक्ष्णदंष्ट्रं जटाकुलम् ।
व्याघ्रोदरत्वक्संवीतं कपिलश्मश्रुसन्ततम् ॥

13.207.21

रौद्रं भयानकं घोरं शूलपट्टससंयुतम् ।
किमर्थं त्वीदृशं रूपं तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.207.22

तदहं कथयिष्यामि शृणु तत्त्वं समाहिता ।
द्विविधो लौकिको भावः शीतमुष्णमिति प्रिये ॥

13.207.23

तयोर्हि ग्रसितं सर्वं सौम्याग्नेयमिदं जगत् ॥

13.207.24

सौम्यत्वं सततं विष्णौ मय्याग्नेयं प्रतिष्ठितम् ।
अनेन वपुषा नित्यं सर्वलोकान्बिभर्म्यहम् ॥

13.207.25

रौद्राकृतिं विरूपाक्षं शूलपट्टससंयुतम् ।
आग्नेयमिति मे रूपं देवि लोकहिते रतम् ॥

13.207.26

यद्यहं विपरीतः स्यामेतत्त्यक्त्वा शुभानने ।
तदैव सर्वलोकानां विपरीतं प्रवर्तते ॥

13.207.27

तस्मान्मयेदं ध्रियते रूपं लोकहितैषिणा ।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥
उमोवाच ।

13.207.28

भगवन्देवदेवेश शूलपाणे वृषध्वज । किमर्थं चन्द्ररेखा ते शिरोभागे विरोचते ।
श्रोतुमिच्छाम्यहं देव तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।

13.207.29

तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् । पुराऽहं कारणाद्देवि कोपयुक्तः शुचिस्मिते ।
दक्षयज्ञवधार्याय भूतसङ्घैः समावृतः ॥

13.207.30

तस्मिन्क्रतुवरे घोरे यज्ञभागनिमित्ततः ।
देवा विभ्रंशितास्ते वै येषां भागः क्रतौ कृतः ॥

13.207.31

सोमस्तत्र मया देवि कुपितेन भृशार्दितः ।
पश्यंश्चानपराधी सन्पादङ्गुष्ठेन ताडितः ॥

13.207.32

तथापि विकृतेनाहं सामपूर्वं प्रसादितः ।
तन्मे चिन्तयतश्चासीत्पश्चात्तापः पुरा प्रिये ॥

13.207.33

तदाप्रभृति सोमं वै शिरसा धारयाम्यम् । एवं मे पापहानिस्तु भवेदिति मतिर्मम ।
तदाप्रभृति वै सोमो मूर्ध्नि सन्दृश्यते सदा ॥
नारद उवाच ।

13.207.34

एवं ब्रुवति देवेशे विस्मिताः परमर्षयः ।
वाग्भिः साञ्जलिमालाभिरभितुष्टुवुरीश्वरम् ॥
ऋषय ऊचुः ।

13.207.35

नमः शङ्कर सर्वेश नमः सर्वजगद्भुरो ।
नमो देवादिदेवाय नमः शशिकलाधर ॥

13.207.36

नमो घोरतराद्धोर नमो रुद्राय शङ्कर ।
नमः शान्ततराच्छान्त नमश्चन्द्रस्य पालक ॥

13.207.37

नमः सोमाय देवाय नमस्तुभ्यं चतुर्मुख ।
नमो भूतपते शम्भो जह्नुकन्याम्बुशेखर ॥

13.207.38

नमस्त्रिशूलहस्ताय पन्नगाभरणाय च ।
नमोस्तु विषमाक्षाय दक्षयज्ञप्रदाहक ॥

13.207.39

नमोस्तु बहुनेत्राय लोकरक्षणतत्पर । अहो देवस्य महात्म्यमहो देवस्य वै कृपा ।
एवं धर्मपरत्वं च देवदेवस्य चार्हति ॥

13.207.40

एवं ब्रुवत्सु मुनिषु वचो देव्यब्रवीद्धरम् ।
सम्प्रीत्यर्थं मुनीनां सा क्षणज्ञा परमं हितम् ॥
उमोवाच ।

13.207.41

भगवन्देवदेवेश सर्वलोकनमस्कृत ।
अस्यैव ऋषिसङ्घस्य मम च प्रियकाम्यया ॥

13.207.42

वर्णाश्रमकृतं धर्मं वक्तुमर्हस्यशेषतः ।
न तृप्तिरस्ति देवेश श्रवणीयं हि ते वचः ॥

13.207.43

सधर्मचारिणी चेयं भक्ता चेयमिति प्रभो । वक्तुमर्हसि देवेश लोकानां हितकाम्यया ।
याथातथ्येन तत्सर्वं वक्तुमर्हसि शन्कर ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc