भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.204

13.204.1

भवतां दर्शनादेव प्रीतिरभ्यधिका मम ।
भवन्तस्तु तपःसिद्धा भवन्तो दिव्यदर्शनाः ॥

13.204.2

सर्वत्र गतिमन्तश्च ज्ञानविज्ञानभाविताः ।
गत्यागतिज्ञा लोकानां सर्वे निर्दूतकल्मषाः ॥

13.204.3

तस्माद्भवद्भिर्यत्किञ्चिदृष्टं वाऽप्यथवा श्रुतम् ।
आश्चर्यभूतं लोकेषु तद्भवन्तो ब्रुवन्तु मे ॥

13.204.4

युष्माभिः कथितं यत्स्यात्तपसा भावितात्मभिः तस्यादमृतसन्काशं वाङ्मधुश्रवणे स्पृहा ॥

13.204.5

रागद्वेषवियुक्तानां सततं सत्यवादिनाम् ।
श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत् ॥

13.204.6

तत्संयोगं हितं मेऽस्तु न वृथा कर्तुमर्हथ ।
भवतां दर्शनं तस्मात्सफलं तु भवेन्मम ॥

13.204.7

तदहं सज्जनमुखान्निःसृतं जनसंसदि ।
कथयिष्याम्यहं बुद्ध्या बुद्धिदीपकरं नृणाम् ॥

13.204.8

तदन्ये वर्धयिष्यन्ति पूजयिष्यन्ति चापरे ।
वात्सल्यविगताश्चान्ये प्रशंसन्ति पुरातनाः ॥

13.204.9

एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः ।
वाग्भिः साञ्जलिमालाभिरिदमूचुर्जनार्दनम् ॥

13.204.10

अयुक्तमस्मानेवं त्वं वाचा वरद भाषितुम् ।
त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः ॥

13.204.11

एवं पूजयितुं चास्मान्न चैवार्हसि केशव । त्वत्तस्त्वन्यं न पश्यामो यल्लोके ते न विद्यते ।
दिवि वा भुवि वा किञ्चित्तत्सर्वं हि त्वया ततम् ॥

13.204.12

न विद्महे वयं देव कथ्यमानं तवान्तिके ।
एवमुक्तो हृषीकेशः सस्मितं चेदमब्रवीत् ॥

13.204.13

अहं मानुषयोनिस्थः साम्प्रतं मुनिपुङ्गवाः । तस्मान्मानुषवद्वीर्यं मम जानीत सुव्रताः ।
भवद्भिः कथ्यमानं च अपूर्वमिव तद्भवेत् ॥
भीष्म उवाच ।

13.204.14

एवं सञ्चोदिताः सर्वे केशवेन महात्मना ।
ऋषयश्चानुवर्तन्ते वासुदेवस्य शासनम् ॥

13.204.15

ततस्त्वृषिगणाः सर्वे नारदं देवदर्शनम् ।
अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने ॥

13.204.16

ऋषिरुग्रतपाश्चायं केशवस्य प्रियोऽधिकम् ।
पुराणज्ञश्च वाग्मी च कारणैस्तं च मेनिरे ॥

13.204.17

सर्वे तदर्हणं कृत्वा नारदं वाक्यमब्रुवन् ॥

13.204.18

भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ ।
दृष्टं वै यत्तदाश्चर्यं श्रोतॄणां परमं प्रियम् ॥

13.204.19

अतस्त्वमविशेषेण हितार्थं सर्वमादितः ।
प्रियार्थं केशवस्यास्य स भवान्वक्तुमर्हति ॥

13.204.20

तदा संयोजितः सर्वैरृषिभिर्नारदस्तदा । प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम् ।
समुद्वीक्ष्य हृषीकेशं वक्तुमेवोपचक्रमे ॥

13.204.21

ततो नारायणसुहृन्नारदो वदतांवरः ।
शङ्करस्योमया सार्धं संवादमनुभाषत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc