भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.200

13.200.1

दानेन वर्ततेत्याह तपसा चैव भारत । तदेतन्मे मनोदुःशं व्यपोह त्वं पितामह ।
किंस्वित्पृथिव्यां ह्येतन्मे भवाञ्शंसितुमर्हति ॥
भीष्म उवाच ।

13.200.2

शृणु यैर्धर्मनिरतैस्तपसा भावितात्मभिः ।
लोका ह्यसंशयं प्राप्ता दानपुण्यरतैर्नृपैः ॥

13.200.3

सत्कृतश्च तथाऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।
उपदिश्य तदा राजन्गतो लोकाननुत्तमान् ॥

13.200.4

शिबिरोशीनरः प्राणान्प्रियस्य तनयस्य च ।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥

13.200.5

प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम् ।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥

13.200.6

रन्तिदेवश्च सान्कृत्यो वसिष्ठाय महात्मने ।
अर्घ्यं प्रदाय विधिवल्लेभे लोकाननुत्तमान् ॥

13.200.7

दिव्यं शतशलाकं च यज्ञार्थं काञ्चनं शुभम् ।
छत्रं देवावृधो दत्त्वा ब्राह्मणायास्थितो दिवम् ॥

13.200.8

भगवानम्बरीषश्च ब्राह्मणायामितौजसे ।
प्रदाय सकलं राष्ट्रं सुरोलकमवाप्तवान् ॥

13.200.9

सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः ।
ब्राह्मणाय च गा दत्त्वा गतो लोकाननुत्तमान् ॥

13.200.10

वृषादर्भिश्च राजर्षी रत्नानि विविधानि च ।
रम्यांश्चावसथान्दत्त्वा द्विजेभ्यो दिवमागतः ॥

13.200.11

निमी राष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने ।
अगस्त्याय गतः स्वर्गं सपुत्रपशुबान्धवः ॥

13.200.12

जामदग्न्यश्च विप्राय भूमिं दत्त्वा महायशाः ।
रामोऽक्षयांस्तथा लोकाञ्जगाम मनसोऽधिकान् ॥

13.200.13

अवर्षति च पर्जन्ये सर्वभूतानि देवराट् ।
वसिष्ठो जीवयामास येन यातोऽक्षयां गतिम् ॥

13.200.14

रामो दाशरथिश्चैव हुत्वा यज्ञेषु वै वसु ।
सगतो ह्यक्षयाँल्लोकान्यस्य लोके महद्यशः ॥

13.200.15

कक्षसेनश्च राजर्षिर्वसिष्ठाय महात्मने ।
न्यासं यथावत्सन्न्यस्य जगामि सुमहायशः ॥

13.200.16

करन्धमस्य पौत्रस्तु मरुत्तोऽविक्षितः सुतः ।
कन्यामाङ्गिरसे दत्त्वा दिवामाशु जगाम सः ॥

13.200.17

ब्रह्मदत्तश्च पाञ्चाल्यो राजा धर्मभृतांवरः ।
निधिं शङ्खमनुज्ञाप्य जगाम परमां गतिम् ॥

13.200.18

राजा मित्रसहश्चैव वसिष्ठाय महात्मने ।
मदयन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः ॥

13.200.19

मनोः पुत्रश्च सुद्युम्नो लिखिताय महात्मने ।
दण्डमुद्धृत्य धर्मेण गतो लोकाननुत्तमान् ॥

13.200.20

सहस्रचित्यो राजर्षिः प्राणानिष्टान्महायशाः ।
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥

13.200.21

सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम् ।
मौद्गल्याय गतः स्वर्गं शतद्युम्नो महीपतिः ॥

13.200.22

भक्ष्यभोज्यस्य च कृतान्राशयः पर्वतोपमान् ।
शाण्डिल्याय पुरा दत्त्वा सुमन्युर्दिवमास्थितः ॥

13.200.23

नाम्ना च द्युतिमान्नाम साल्वराजो महाद्युतिः ।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥

13.200.24

मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् ।
हिरण्यहस्ताय गतो लोकान्देवैरधिष्ठितान् ॥

13.200.25

लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः ।
ऋश्यशृङ्गाय विपुलैः सर्वैः कामैरयुज्यत ॥

13.200.26

कौत्साय दत्त्वा कन्यां तु हंसीं नाम यशस्विनीम् ।
गतोऽक्षयानतो लोकान्राजर्षिश्च भगीरथः ॥

13.200.27

दत्त्वा शतसहस्रं तु गवां राजा भगीरथः ।
स वत्सानां कोहलाय गतो लोकाननुत्तमान् ॥

13.200.28

एते चान्ये च बहवो दानेन तपसा च ह ।
युधिष्ठिर गताः स्वर्गं निवर्तन्ते पुनःपुनः ॥

13.200.29

तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी ।
गृहस्थैर्दानतपसा यैर्लोका वै विनिर्जिताः ॥

13.200.30

शिष्टानां चरितं ह्येतत्कीर्तितं मे युधिष्ठिर ।
दानयज्ञप्रजासर्गैरेते हि दिवमास्थिताः ॥

13.200.31

दत्त्वा तु सततं तेऽस्तु कौरवाणां धुरन्धर ।
दानयज्ञक्रियायुक्ता बुद्धिर्धर्मोपचायिनी ॥

13.200.32

यत्र ते नृपशार्दूल सन्देहो वै भविष्यति ।
श्वः प्रभाते हि वक्ष्यामि सन्ध्या हि समुपस्थिता ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc