भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.178

13.178.1

इमे वै मानवा लोके भृशं मांसेषु गृद्धिनः ।
विसृज्य विविधान्भक्ष्यान्महारक्षोगणा इव ॥

13.178.2

अपूपान्विविधाकाराञ्शाकानि विविधानि च ।
पादपान्रससंयुक्तान्न चेच्छन्ति यथाऽमिषम् ॥

13.178.3

तत्र मे बुद्धिरत्रेव विषये परिमुह्यते ।
न मन्ये रसतः किञ्चिन्मांसतोऽस्तीति किञ्चन ॥

13.178.4

तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणे प्रभो ।
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥

13.178.5

सर्वसत्त्वेन धर्मज्ञ यथावदिह धर्मतः ।
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ॥

13.178.6

यथैतद्यादृशं चैव गुणा ये चास्य वर्जने ।
दोषा भक्षयतो येऽपि तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.178.7

सर्वमेतन्महाबाहो यथा वदसि भारत ।
न मांसात्परमं किञ्चिद्रसतो विद्यते भुवि ॥

13.178.8

क्षतक्षीणाभितप्तानां ग्राम्यधर्मरतात्मनाम् ।
अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥

13.178.9

सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां दधाति च ।
नाशो भक्षणदोषः स्याद्दानमेव सदा मतम् ॥

13.178.10

क्षुधितानां द्विजानां च सर्वेषां चापि जीवितम् ।
दत्त्वा भवति पूतात्मा श्रद्धया लोभवर्जितः ॥

13.178.11

शिक्षयन्ति न याचन्ते दर्शयन्ति स्वमूर्तिभिः । अवस्थेयमदानस्य मा भूदेवं भवानिति ।
दानाद्यः सुशुचिर्मांसं पुनर्नैव च भक्षयेत् ॥

13.178.12

न भक्ष्योऽभ्याधिकः कश्चिन्मांसादस्ति परन्तप । विवर्जने तु बहवो गुणाः कौरवनन्दन ।
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥

13.178.13

स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
नास्ति क्षुद्रतरस्तस्मात्स नृशंसतरो नरः ॥

13.178.14

न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते ।
तस्माद्दयां नरः कुर्याद्यथाऽत्मनि तथा परे ॥

13.178.15

शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः ।
भक्षणे तु महान्दोषो मलेन स हि कल्प्यते ॥

13.178.16

अहिंसालक्षणो धर्म इति वेदविदो विदुः ।
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मविन्नरः ॥

13.178.17

पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते । विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ॥

13.178.18

यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः ।
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ॥

13.178.19

क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु ।
वीर्येणोपार्जितं मांसं यथा भुञ्जन्न दुष्यति ॥

13.178.20

आरण्याः सर्वदैवत्याः सर्वशः प्रोक्षिता मृगाः ।
अगस्त्येन पुरा राजन्मृगया येन पूज्यते ॥

13.178.21

रक्षणार्थाय भूतानां हिंस्रान्हन्यान्मृगान्पुनः । नात्मानमपरित्यज्य मृगया नाम विद्यते ॥

13.178.22

समतामुपसङ्गम्य रूपं हन्यान्न वा नृप । अतो राजर्षयः सर्वे मृगयां यान्ति भारत ।
न हि लिप्यन्ति पापेन न चैतत्पातकं भुवि ॥

13.178.23

न ह्यतः सदृशं किञ्चिदिह लोके परत्र च ।
यत्सर्वेष्विह भूतेषु दया कौरवन्दन ॥

13.178.24

न भयं विद्यते जातु नरस्येह दयावतः ।
दयावतामिमे लोकाः परे चापि तपस्विनाम् ॥

13.178.25

अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
अभयं तस्य भूतानि ददतीत्यनुशुश्रुम ॥

13.178.26

क्षतं च स्खलितं चैव पतितं क्लिन्नमाहतम् । सर्वभूतानि रक्षन्ति समेषु विषमेषु च ।

13.178.27

नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः ।
मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ॥

13.178.28

प्राणदानात्परं दानं न भूतं न भविष्यति ।
न ह्यात्मनः प्रियतरं किञ्चिदस्तीह निश्चितम् ॥

13.178.29

अनिष्टं सर्वभूतानां मरणं नाम भारत ।
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ॥

13.178.30

व्याधिजन्मजरादुःखैर्नित्यं संसारसागरे ।
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥

13.178.31

गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः ।
मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ॥

13.178.32

जाताश्चाप्यवशास्तत्र च्छिद्यमानाः पुनःपुनः ।
हन्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ॥

13.178.33

कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः ।
आक्रम्य मार्यमाणाश्च त्रास्यन्त्यन्ये पुनःपुनः ॥

13.178.34

नात्मनोऽस्ति प्रियतरः पृथिवीमनुसृत्य ह ।
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ॥

13.178.35

सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् ।
आश्वासं विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥

13.178.36

ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् ।
भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः ॥

13.178.37

मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् ।
एतन्मांसस्य मांसत्वमनुबुद्ध्यस्व भारत ॥

13.178.38

घातको वध्यते नित्यं तथा बध्येत बन्धकः ।
आक्रोष्टा क्रुध्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ॥

13.178.39

येनयेन शरीरेण यद्यत्कर्म करोति यः ।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥

13.178.40

अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः ।
अहिंसा परमं दानमहिंसा परमं तपः ॥

13.178.41

अहिंसा परमं मिमहिंसा परमं सुखम् ॥ सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वा प्लुतम् ।

13.178.42

सर्वदानफलं वाऽपि नैतत्तुल्यमहिंसया ॥ अहिंसस्य तपोऽक्षय्यमहिंस्रो जयते सदा ।

13.178.43

अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥ एतत्फलमहिंसायां भूयश्च कुरुपुङ्गव ।

13.178.44

न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc