महाभारत · अध्याय 13.172
शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम् ।
उपगम्य महाप्राज्ञः पर्यपृच्छद्युधिष्ठिरः ॥
अङ्गानां रूपसौभाग्यं प्रियं चैव कथं भवेत् ।
धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत् ॥
भीष्म उवाच ।
मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते ।
पादौ मूलेन राजेन्द्रि जङ्घायामथ रोहिणीम् ॥
अश्विन्यां सक्थिनी चैव ऊरू चाषाढयोस्तथा ।
गुह्यं तु फाल्गुनी विद्यात्कृत्तिका कटिकास्तथा ॥
नाभिं भाद्रपदे विद्याद्रेवत्यामक्षिमण्डलम् ।
पृष्ठमेव धनिष्ठासु अनुराधोत्तरास्तथा ॥
बाहुभ्यां तु विशाखासु हस्तौ हस्तेन निर्दिशेत् ।
पुनर्वस्वङ्गुली राजन्नाश्लेषासु नखास्तथा ॥
ग्रीवां ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः ।
मुखं पुष्येण दानेन दन्तोष्ठौ स्वातिरुच्यते ॥
हासं शतभिषां चैव मघां चैवाथ नासिकाम् ।
नेत्रे मृगशिरो विद्याल्ललाटे मित्रमेव तु ॥
भरण्यां तु शिरो विद्यात्केशानार्द्रां नराधिप ।
समाप्ते तु घृतं दद्याद्ब्राह्मणे वेदपारगे ॥
सुभगो दर्शनीयश्च ज्ञानभाग्यथ जानते । जायते परिपूर्णाङ्गः पौर्णमास्येव चन्द्रमाः ॥ ] ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0