भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.170

13.170.1

यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह ।
यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।

13.170.2

सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणः ।
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ॥

13.170.3

अगाधे विमले शुद्धे सत्यतीर्थे धृतिह्रदे ।
स्नातव्यं मानसे तीर्थे सत्वमालम्ब्य शाश्वतम् ॥

13.170.4

तीर्थशौचं तपो ज्ञानं मार्दवं सत्यमार्जवम् ।
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ॥

13.170.5

निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ।
योगिनस्तीर्थभूतास्ते तीर्थं परममुच्यते ॥

13.170.6

नारायणेऽथ रुद्रे वा भक्तिस्तीर्थं परं मतम् ।
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षतः ॥

13.170.7

रजस्तमःसत्वमथो येषां निर्धूतमात्मना । तीर्थमाचारशुद्धिश्च स्वमार्गपरिमार्गणम् ।

13.170.8

सर्वत्यागेष्वभिरताः सर्वज्ञाः समदर्शिनः ।
शौचष्वेतेष्वभिरतास्ते तीर्थशुचयोऽपि च ॥

13.170.9

नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते ।
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरः शुचिः ॥

13.170.10

अदृष्टेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः ।
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ॥

13.170.11

प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः ।
तथा निष्किञ्चनत्वं च मनसश्च प्रसन्नता ॥

13.170.12

वृत्तं शौचं महाशौचं तीर्थशौचमतः परम् ।
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं स्मृतम् ॥

13.170.13

मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च ।
स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शनाः ॥

13.170.14

समारोपितशौचस्तु नित्यं भवसमन्वितः ।
केवलं गुणसम्पन्नः शुचिरेव नरः सदा ॥

13.170.15

शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत ।
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ॥

13.170.16

शरीरस्य यथोद्देशः शरीरोपरि निर्मिताः ।
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ॥

13.170.17

कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् । शोध्यं हि पातकं तीर्थे पूता यान्ति सुखं दिवम् ।

13.170.18

परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा ।
अतीव पुण्यभागास्ते सलिलस्य च तेजसा ॥

13.170.19

मनसश्च पृथिव्याश्च पुण्यास्तीर्थास्तथापरे ।
उभयोरेव यः स्नायात्स सिद्धिं शीघ्रमाप्नुयात् ॥

13.170.20

यथा फलं क्रियाहीनं क्रिया वा फलवर्जिता ।
नेह साधयते कार्यं समायुक्ता तु सिध्यति ॥

13.170.21

एवं शरीरशौचेन तीर्थशौचेन चान्वितः ।
शुचिः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc