भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.166

13.166.1

तत्वसङ्ख्या श्रुता चैषा येषां ब्रह्मविदांवर । सर्गसङ्ख्या मया प्रोक्ता नवानामानुपूर्व्यशः ।
प्रवक्ष्यामि तु तेऽध्यात्ममधिभूताधिदैवतम् ॥

13.166.2

नैतद्युक्तैर्वेदविद्भिर्गृहस्थै- र्मान्यैरेभिस्तपसा वाभिपन्नैः ।
यत्नेन दृष्टं परमात्मतत्वं तत्वेन प्राप्यं तु यथोक्तमेतत् । परं परेभ्यस्त्वमृतार्थतत्वं स्वभावसत्वस्थमनीशमीशम् ॥

13.166.3

कैवल्यतां प्राप्य महासुरोत्तम तवैतदाख्यामि मुनीन्द्रवृत्त्या ।
रहस्यमेवान्यदवाप्य दिव्यं पवित्रपूतस्तव मृत्युजालम् ॥

13.166.4

पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्वपरीक्षिताय ।
नाश्रद्दधानाय न चान्यबुद्धे- र्नाज्ञानयुक्ताय न विस्मिताय ॥

13.166.5

स्वाध्याययुक्ताय गुणान्विताय प्रदेयमेतन्नियतेन्द्रियाय ॥

13.166.6

सन्क्षेपं चाप्यथैतेषां तत्वानां वृषभध्वज ।
अनुलोमानुजातानां प्रतिलोमप्रमीयतम् ॥

13.166.7

प्रवक्ष्यामि तमध्यात्मं साधिभूताधिदैवतम् ।
यथांशुजालमर्कस्य तथैतत्प्रवदन्ति वै ॥

13.166.8

सन्क्षीणे ब्रह्मदिवसे जगज्जलधिमाविशेत् ।
प्रलीयते जले भूमिर्जलमग्नौ प्रलीयते ॥

13.166.9

लीयतेऽग्निस्तथा वायौ वायुराकाश एव तु ।
मनसि प्रलीयते खं तु मनोऽहन्कार एव च ॥

13.166.10

अहङ्कारस्तथा तस्मिन्महति प्रविलीयते ।
महानव्यक्त इत्याहुस्तदेकत्वं प्रचक्षते ॥

13.166.11

अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्म्णि ।
एवमस्यासकृत्क्रीडामाहुस्तत्वविदो जनाः ॥

13.166.12

अध्यात्ममधिभूतं च तथैवाप्यधिदैवतम् ।
यथावदुदितं शास्त्रं योगे तु सुमहात्मभिः ॥

13.166.13

तथैव चेह साङ्ख्ये तु परिसंख्यात्मचिन्तकैः ।
प्रपञ्चितार्थमेतावन्महादेव महात्मभिः ॥

13.166.14

ब्रह्मेति विद्यादध्यात्मं पुरुषं चाधिदैवतम् ।
प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च ॥

13.166.15

अध्यात्मं प्राणमित्याहुः क्रतुमप्यधिदैवतम् ।
रथं च यज्ञवाहोऽत्र कर्माहङ्कारमेव च ॥

13.166.16

अध्यात्मं तु मनो विद्याच्चन्द्रमाश्चाधिदैवतम् ।
दैवं च प्रभवश्चैव कर्म व्याहृतयस्तथा ॥

13.166.17

विद्यात्तु श्रोत्रमध्यात्ममाकाशमधिदैवतम् ।
सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतं ॥

13.166.18

त्वगध्यात्ममथो विद्याद्वायुरत्राधिदैवतम् ।
सन्निपातय विज्ञानं सर्वकर्म च तत्र ह ॥

13.166.19

अध्यात्मं चक्षुरित्याहुर्भास्करोऽत्राधिदैवतम् ।
ज्ञापतं सर्ववर्णानां रूपं कर्म सदा स्मृतम् ॥

13.166.20

जिह्वेति विद्यादध्यात्ममापश्चात्राधिदैवतम् ॥

13.166.21

पायुरध्यात्ममित्याहुर्यथावद्यतिसत्तमाः ।
विसर्गमधिभूतं च मित्रं चाप्यधिदैवतम् ॥

13.166.22

उपस्थोऽध्यात्ममित्याहुर्देवदेव पिनाकधृक् ।
अनुभावोऽधिभूतं तु दैवतं च प्रजापतिः ॥

13.166.23

पादावध्यात्ममित्याहुस्त्रिशूलाङ्क मनीषिणः ।
गन्तव्यमधिभूतं तु विष्णुस्तत्राधिदैवतम् ॥

13.166.24

वागध्यात्मं तथैवाहुः पिनाकिंस्तत्वदर्शिनः ।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥

13.166.25

एतदध्यात्ममतुलं साधिभूताधिदैवतम् ।
मया तु वर्णितं सम्यग्देहिनाममरर्षभ ॥

13.166.26

एतत्कीटपतङ्गे च श्वपाके शुनि हस्तिनि ।
पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे ॥

13.166.27

सर्वमेव हि द्रष्टव्यमन्यथा मा विचिन्तय ।
अतोऽन्यथा ये पश्यन्ति न सम्यक्तेषु दर्शनम् ॥

13.166.28

देवदानवगन्धर्वयक्षराक्षसकिन्नराः ।
यन्न जानन्ति को ह्येष कुतो वा भगवानिति ॥

13.166.29

ओमित्येकाक्षरं ब्रह्म यत्तत्सदसतः परम् ।
अनादिमध्यपर्यन्तं कूटस्थमचलं ध्रुवम् ॥

13.166.30

योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ।
अनादिनिधं देवं देवदेवं सनातनम् ॥

13.166.31

अपमेयमविज्ञेयं हरिं नारायणं प्रभुम् ।
कृताञ्जलिः शुचिर्भूत्वा प्रणम्य प्रयतोऽर्चयेत् ॥

13.166.32

अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः ।
एकोयं वेद भगवांस्त्राता नारायणो हरिः ॥

13.166.33

नारायणादृषिगणास्ततः सिद्धा महोरगाः ।
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥

13.166.34

यमाहुर्विजितक्लेशं यस्मिंश्च विहिताः प्रजाः ।
यस्मिँल्लोकाः स्फुरन्तीमे जाले शकुनयो यथा ॥

13.166.35

सप्तर्षयो मनः सप्त साङ्ख्यास्तु मुनिदर्शनात् ।
सप्तर्षयश्चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च ॥

13.166.36

श्रोत्रयोश्च दिशः प्राहुर्मनसि त्वथ चन्द्रमाः ॥

13.166.37

मनः षष्ठं बुद्धिः सप्तमी ह्यात्मनि स्थापितानि शरीरेषु नात्मनि तस्य हि कारणानि भन्ति सर्वा-
ण्यपि सर्वकर्मसु वा विषयेषुवा युञ्जन्ति यथात्म- नि स्वानि कर्माणि प्रवृत्तानि सप्तस्वपि ॥

13.166.38

विषयाणां व्यापकत्वानि तान्येव स्वपतो भूत- ग्रामस्याजमात्मानं देवलोकस्थानसम्मितं देहान्तर-
गामिनं मुमुक्षुं वानुप्रतिशन्ति सूक्ष्माणि प्रलीयन्ते ॥

13.166.39

मोक्षकाले तमेकं न कश्चिद्वेत्ति स्वपरम् ।
एवं प्रविष्टेषु भूतेषु को जागर्तीत्युच्यते ॥

13.166.40

निद्राप्रसुप्तेषु वाऽत्र जाग्रत्स्वप्नशीलोत्रसदनौ च देवद्योतनो भगवांश्चात्र क्षत्रेज्ञो बुद्धिर्वाऽभिसुप्त-
स्यापि स्वप्नदर्शनानि पश्यन्ति ॥

13.166.41

अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते । स एष प्राज्ञः । अथ तैजसः कायाग्निः स हि सुप्तस्यात्मा वा ॥

13.166.42

अविदुषो वाऽप्रतिबुध्यमानस्यान्नं पचतीत्यन्ते वै तिष्ठति एतदात्मानमधिकृत्यानुज्ञातमिति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc