भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.157

13.157.1

कथं वै स विपन्नश्च कथं वै पातितो भुवि ।
कथं देवेन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥
भीष्म उवाच ।

13.157.2

एवं तयोः संवदतोः क्रियास्तस्य महात्मनः ।
सर्वा एव प्रवर्तन्ते या दिव्या याश्च मानुषाः ॥

13.157.3

तथैव दीपदानानि सर्वोपकरणानि वै ।
बलिकर्म च यच्चान्यद्वत्सकाश्च पृथग्विधाः ॥

13.157.4

सर्वास्तस्य समुत्पन्ना देवेन्द्रस्य महात्मनः ।
देवलोके नृलोके च सदाचारपुरस्कृताः ॥

13.157.5

ताश्चोद्भवन्ति राजेन्द्र समृद्ध्यै गृहमेधिनः ।
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥

13.157.6

यथा सिद्धस्य चान्नस्य गृह्य चाग्रं प्रदीयते ।
बलयश्च गृहोद्देशे ततः प्रीयन्ति देवताः ॥

13.157.7

यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणि ।
तथा शतगुणा प्रीतिर्देवतानां प्रजायते ॥

13.157.8

एवं धूपप्रदानं च दीपदानं च साधवः ।
प्रयच्छति नमस्कारैर्युक्तमात्मगुणावहम् ॥

13.157.9

स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता ।
नमस्कारप्रयुक्तेन तेन प्रीणन्ति देवताः ॥

13.157.10

पितरश्च महाभागा ऋषयश्च तपोधनाः ।
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनाऽर्चिताः ॥

13.157.11

इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः ।
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥

13.157.12

कस्य चित्त्वथ कालस्य भाग्यक्षय उपस्थिते ।
सर्वमेतदवज्ञाय न चकार यथाविधि ॥

13.157.13

ततः स परिहीणोऽभूत्सुरेन्द्रो बलदर्पतः । धूपदीपादिकविधिं न यथावच्चकार ह ।
ततोऽस्य यज्ञविषयो रक्षोभिः परिबाध्यते ॥

13.157.14

अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह ।
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥

13.157.15

ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् । निमीलयस्व नयने जटां यावद्विशामि ते ।
सुरेन्द्रपतनायेति स च नेत्र न्यमीलयत् ॥

13.157.16

ततोऽगस्त्यस्याथ जटां दृष्ट्वा प्राविशदच्युतः ।
भृगुः स सुमहातेजाः पातनाय नृपस्य च ॥

13.157.17

ततः स देवराट् प्राप्तस्तमृषिं वाहनाय वै । ततोऽगस्त्यः सुरपतिं वाक्यमाह विशाम्पते ।
योजयस्वेति मां क्षिप्रं कं च देशं वहामि ते ॥

13.157.18

यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ।
इत्युक्तो नरहुषस्तेन योजयामास तं मुनिम् ॥

13.157.19

भृगुस्तस्य जटान्तस्थो बभूव हृषितो भृशम् । न चापि दर्शनं तस्य चकार स भृगुस्तदा ।
वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥

13.157.20

न चुकोप तदाऽगस्त्यो युक्तोऽपि नहुषेण वै । तं तु राजा पदैकेन चोदयामास भारत ।
श्रुतिः स्मृतिः प्रमाणं वा नेतिवादेन देवराट् ॥

13.157.21

न चुकोप स धर्मात्मा ततः पादेन देवराट् ।
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥

13.157.22

तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः ।
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ॥

13.157.23

यस्मात्पदाऽवधीः क्रोधाच्छिरसीमं महामुनिम् ।
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥

13.157.24

शप्तोऽथ स तदा तेन सर्पो भूत्वा पपात ह ।
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥

13.157.25

भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते ।
स शक्तोनाऽभविष्यद्वै पातने तस्य तेजसा ॥

13.157.26

स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा ।
पतितोऽपि महाराज भूतले स्मृतिमानभूत् ॥

13.157.27

प्रसादयामास भृगुं शापान्तो मे भवेदिति । ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् ।
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥
भृगुरुवाच ।

13.157.28

राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः ।
स त्वां मोक्षयिता शापादित्युक्त्वाऽन्तरधीयत ॥

13.157.29

अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः ।
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥

13.157.30

नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः ।
जगाम ब्रह्मभवनं पश्यतस्ते जनाधिप ॥

13.157.31

तदा स पातयित्वा तं नहुषं भूतले भृगुः ।
जगाम ब्रह्मभवनं ब्रह्मणे च न्यवेदयत् ॥

13.157.32

ततः शक्रं समानाय्य देवानाह पितामहः । वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ।
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ॥

13.157.33

न च शक्यं विना राज्ञा सुखं वर्तयितुं क्वचित् ।
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥

13.157.34

एवं सम्भाषमाणं तु देवाः पार्थ पितामहम् ।
एवमस्त्विति संहृष्टाः प्रत्यूचुस्तं नराधिप ॥

13.157.35

सोऽभिषिक्तो भगवता देवराज्ये च वासवः ।
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ॥

13.157.36

एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् ।
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ॥

13.157.37

तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः । दिव्यं चक्षुरवाप्नोति प्रेत्य दीपस्य दायकः ।
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥

13.157.38

यावदक्षिनिमेषाणि ज्वलन्ते तावतीः समाः ।
रूपवान्बलवांश्चापि नरो भवति दीपदः ॥

13.157.39

य इदं शृणुयाद्वापि पठते यो द्विजोत्तमः ।
ब्रह्मलोकमवाप्नोति स च वै नात्र संशयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc