भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.146

13.146.1

शूद्राणामिह शुश्रूषा नित्यमेवानुवर्णिता ।
कैः कारणैः कतिविधा शुश्रूषा समुदाहृता ॥

13.146.2

के च शुश्रूषया लोका विहिता भरतर्षभ ।
शुद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम् ॥
भीष्म उवाच ।

13.146.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शूद्राणामनुकम्पार्थं यदुक्तं ब्रह्मवादिना ॥

13.146.4

वृद्धः पराशरः प्राह धर्मं शुभ्रमनामयम् ।
अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम् ॥

13.146.5

धर्मोपदेशमकिलं यथावदनुपूर्वशः ।
शिष्यानध्यापयामास शास्त्रमर्थवदर्थवित् ॥

13.146.6

क्षान्तेन्द्रियेण मानेन शुचिनाऽचापलेन वै ।
अदुर्बलेन धीरेण शान्तेनोत्तरवादिना ॥

13.146.7

अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना ।
चारित्रतत्परेणैव सर्वभूतहितात्मना ॥

13.146.8

अरयः षड्विजेतव्या नित्यं स्वं देहमाश्रिताः ।
कामक्रोधौ च लोभश्च मानमोहौ मदस्तथा ॥

13.146.9

विधिना धृतिमास्थाय शुश्रूषुरनहन्कृतः ।
वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम् ॥

13.146.10

कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् ।
आस्थाय नियमं धीमाञ्शान्तो दान्तो जितेन्द्रियः ॥

13.146.11

रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः ।
वर्णत्रयान्मधु यथा भ्रमरो धर्ममाचरेत् ॥

13.146.12

यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मणा ॥
इह चास्य परिक्लेशः प्रेत्य चास्यासुभागतिः ॥

13.146.13

अधर्म्यमयशस्यं च तपः शूद्रे प्रतिष्ठितम् ।
अमार्गेण तपस्तप्त्वा म्लेच्छेषु फलमश्नुते ॥

13.146.14

अन्यथा वर्तमानो हि न शूद्रो धर्ममर्हति । अमार्गेणि प्रयातानां प्रत्यक्षादुपलभ्यते ।
चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः ॥

13.146.15

तथा ते हि शकाश्चीनाः काम्भोजाः पारदास्तथा ।
शबराः पप्लवाश्चैव तुषारयवनास्तथा ॥

13.146.16

दार्वाश्च दरदाश्चैव उज्जिहानास्तथेतराः ।
वेणाश्च कङ्कणाश्चैव सिम्हला मद्रकास्तथा ॥

13.146.17

किष्किन्धकाः पुलिन्दाश्च कह्वाश्चान्ध्राः सनीरगाः ।
गन्धिका द्रमिडाश्चैव बर्बराश्चूचुकास्तथा ॥

13.146.18

किराताः पार्वतेयाश्च कोलाश्चोलाः सकाषकाः ।
आरूकाश्चैव दोहाश्च याश्चान्याम्लेच्छजातयः ॥

13.146.19

विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः ।
अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः ॥

13.146.20

अमार्गोपार्जितस्यैतत्तपसो विदितं फलम् ।
न नश्यति कृतं कर्म शुभं वा यदि वाऽशुभम् ॥

13.146.21

अत्राप्येते वसु प्राप्य विकर्म तपसार्जितम् ।
पाषण्डानर्चयिष्यन्ति धर्मकामा वृथा श्रमाः ॥

13.146.22

एवं चतुर्णां वर्णानामाश्रमाणां च पार्थिव ।
विपरीतं वर्तमाना म्लेच्छा जायन्त्यबुद्धयः ॥

13.146.23

अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम् ।
वणिक्कृषिश्च वैश्यानां शूद्राणां परिचारिका ॥

13.146.24

व्युच्छेदात्तस्य धर्मस्य निरयायोपपद्यते । ततो म्लेच्छा भवन्त्येते निर्घृणा धर्मवर्जिताः ।
पुनश्च निरयं तेषां तिर्यग्योनिश्च शाश्वती ॥

13.146.25

ये तु सत्यथमास्थाय वर्णाश्रमकृतं पुरा ।
सर्वान्विमार्गानुत्सृज्य स्वधर्मविधिमाश्रिताः ॥

13.146.26

सर्वभूतदयावन्तो दैवतद्विजपूजकाः ।
शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः ॥

13.146.27

तेषां विधिं प्रवक्ष्यामि यथावदनुपूर्वशः ।
उपादानविधैं कृत्स्नं शुश्रूषाधिगमं तथा ॥

13.146.28

शिष्टोपनयनं चैव मन्त्राणि विविधानि च ।
तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात् ॥

13.146.29

प्रवक्ष्यामि यथातत्वं यथावदनुपूर्वशः ।
शौचकृत्यस्य शौचार्थान्सर्वानेव विशेषतः ॥

13.146.30

महाशौचप्रभृतयो दृष्टास्तत्वार्थदर्शिभिः ।
तत्रापि शूद्रो भिक्षूणामिदं शेष च कल्पयेत् ॥

13.146.31

भिक्षुभिः सुकृतप्रज्ञैः केवलं दर्ममाश्रितैः । सम्यद्गर्शनसम्पन्नैर्गताध्वनि हितार्थिभिः ।
अवकाशमिमं मेध्यं निर्मितं तामवीरुधम् ॥

13.146.32

निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः ।
सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम् ॥

13.146.33

परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः ।
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः ॥

13.146.34

अन्तर्हितायां भूमौ तु अन्तर्हितशिरास्तथा ।
असमाप्ते तथा शौचे न वाचं किञ्चिदीरयेत् ॥

13.146.35

कृतकृत्यस्तथाऽचम्य गच्छन्नोदीरयेद्वचः ।
शौचार्थमुपविष्टस्तु मृद्गाजनपुरस्कृतः ॥

13.146.36

स्थाप्यं कमण्डलुं गृह्यि पार्श्वोरुभ्यामथान्तरे ।
शौचं कुर्याच्छनैर्वीरो बुद्धिपूर्वमसङ्करम् ॥

13.146.37

पाणिना शुद्धमुदकं सङ्गृह्य विधिपूर्वकम् ।
विप्रुषश्च यता न स्युर्यथा चोरू न संस्पृशेत् ॥

13.146.38

अपाने मृत्तिकास्तिस्रः प्रदेयास्त्वनुपूर्वशः । हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत्

13.146.39

अपाने नव देयाः स्युरिति वृद्धानुशासनम् ।
मृत्तिका दीयमाना हि शोधयेद्देशमञ्जसा ॥

13.146.40

तस्मात्पाणितले देया मृत्तिकास्तु पुनः पुनः ।
बृद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत्स्फिजौ ॥

13.146.41

यथा घातो हि न भवेत्क्लेदजः परिधानके ।
तथा गुदं प्रमार्जेत शौचार्थं तु पुनःपुनः ॥

13.146.42

प्रतिपादं ततस्त्यक्त्वा शौचमुत्थाय कारयेत् । सव्ये द्वादश देयाः स्युस्तिस्रस्तिस्रः पुनः पुनः ।
देया कूर्परके हस्ते पृष्ठे बन्धे पुनः पनः ।

13.146.43

तथैवादर्शके दद्याच्चतस्रस्तूभयोरपि ।
उभयोर्हस्तयोरेवं सप्तसप्त प्रदापयेत् ॥

13.146.44

ततोऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस्तयोः । हस्तयोरेवमेतद्धि महाशौच विधीयते ।
ततोऽन्यथा न कुर्वीत विधिरेष सनातनः ॥

13.146.45

उपस्थे मूत्रशौचं स्यादत ऊर्ध्वं विधीयते ।
अतोऽन्यथा तु यः सुर्यात्प्रायश्चित्तीयते तु सः ॥

13.146.46

मलोपहतचेलस्य द्विगुणं तु विधीयते ।
सहपादमथोरुभ्यां हस्तशौचमसंशयम् ॥

13.146.47

अवधीरयमाणस्य सन्देह उपजायते ।
यथायथा विशुद्ध्येत तत्तथा तदुपक्रमे ॥

13.146.48

सकर्दमं तु वर्षासु गृहमाविश्य सङ्कटम् ।
हस्तयोर्मृत्तिकास्तिस्रः पादयोः षट् प्रदापयेत् ॥

13.146.49

कामं दत्त्वा गुदे दद्यात्तिस्रः पद्भ्यां तथैव च ।
हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस्तथा ॥

13.146.50

मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः ।
नैष्ठिके स्थानशौचे तु महाशौचं विधीयते ॥

13.146.51

क्षारौषराभ्यां वस्त्रस्य कुर्याच्छौचं मृदा सह ।
लेपगन्धापनयनममेध्यस्य विधीयते ॥

13.146.52

स्नानशाट्यां मृदस्तिस्रो हस्ताभ्यां चानुपूर्वशः ।
शौचं प्रयत्नतः कृत्वा कम्पमानः समुद्धरेत् ॥

13.146.53

देयाश्चतस्रस्तिस्रो वा द्वे वाऽप्येकां तथाऽपदि ।
कालमासाद्य देशं च शौचस्य गुरुलाघवम् ॥

13.146.54

विधिनाऽनेन शौचं तु नित्यं कुर्यादतन्द्रितः ।
अविप्रेक्षन्नसम्भ्रान्तः पादौ प्रक्षाल्य तत्परः ॥

13.146.55

अप्रक्षालितपादस्तु पाणिमामणिबन्धनात् ।
अधस्तादुपरिष्टाच्च ततः पाणिमुपस्पृशेत् ॥

13.146.56

मनोगतास्तु निश्शब्दा निश्शब्दं त्रिरपः पिबेत् ।
द्विर्मुखं परिमृज्याच्च खानि चोपस्पृशेद्बुधः ॥

13.146.57

ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेदपः ।
द्वितीयं तु यजुर्वेदं तृतीयं साम एव च ॥

13.146.58

मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात् ।
द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः ॥

13.146.59

यच्चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत् ।
प्रीणाति वायुं घ्राणं च दिशश्चाप्यथ श्रोत्रयोः ॥

13.146.60

ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समापयेत् ।
समुत्क्षिपति चापोर्ध्वमाकाशं तेन प्रीणयेत् ॥

13.146.61

प्रीणाति विष्णुः पद्भ्यां तु सलिलं वै समादधत् ॥ प्राङ्मुखोदङ्मुखो वाऽपि अन्तर्जानुरुपस्पृशेत् ।

13.146.62

सर्वत्र विधिरित्येष भोजनादिषु नित्यशः ॥ अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनराचमेत् ।

13.146.63

विधिरेष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम् ॥ शूद्रस्यैव विधिर्दृष्टो गृहान्निष्क्रमतस्ततः ।

13.146.64

नित्यं त्वलुप्तशौचेन वर्तितव्यं कृतात्मना ।
यशस्कामेन भिक्षुभ्यः शुद्रेणात्महितार्थिना ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc