भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.144

13.144.1

यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ ।
छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम् ॥

13.144.2

कथं चैतत्समुत्पन्नं किमर्थं चैव दीयते ।
न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते ॥

13.144.3

बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते ।
एतद्विस्तरतो ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः ॥
भीष्म उवाच ।

13.144.4

शृणु राजन्नवहितश्छत्रोपानहविस्तरम् ।
यथैतत्प्रथितं लोके यथा चैतत्प्रवर्तितम् ॥

13.144.5

यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथागतम् ।
सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप ॥

13.144.6

इतिहासं पुरावृत्तमिदं शृणु नराधिप । जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ॥

13.144.7

पुरा स भगवान्साक्षाद्धनुषा क्रीडति प्रभो ।
सन्धायसन्धाय शरांश्चिक्षेप किल भार्गवः ॥

13.144.8

तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः ।
आनीय सा तदा तस्मै प्रादादसकृदच्युत ॥

13.144.9

अथ तेन स शब्देनि ज्यायाश्चैव शरस्य च ।
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् ॥

13.144.10

ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे ।
स सायकान्द्विजो मुक्त्वा रेणुकामिदमब्रवीत् ॥

13.144.11

गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् ।
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ॥

13.144.12

सा गच्छन्त्यन्तरा छायां वृक्षमाश्रित्य भामिनी ।
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च ॥

13.144.13

स्थिता सा तु मूहूर्तं वै भर्तुः शापभयाच्छुभा । ययावानयितुं भूयः सायकानसितेक्षणा ।
प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥

13.144.14

सा वै प्रस्विन्नसर्वाङ्गी पद्भ्यां दुःखं नियच्छती ।
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥

13.144.15

स तामृषिस्तदा क्रुद्धो वाक्यमाह शुभाननाम् ।
रेणुके किं चिरेण त्वमागतेति पुनःपुनः ॥
रेणुकोवाच ।

13.144.16

शिरस्तप्तं प्रदीप्तौ मे पादौ चैव तपोधन ।
सूर्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता ॥

13.144.17

एतस्मात्कारणाद्ब्रह्मंश्चिरायैतत्कृतं मया ।
एतच्छ्रुत्वा मम विभो मा क्रुधस्त्वं पतोधन ॥
जमदग्निरुवाच ।

13.144.18

अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् ।
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥
भीष्म उवाच ।

13.144.19

स विष्फार्य धनुर्दिव्यं गृहीत्वा च शरान्बहून्न् ।
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥

13.144.20

अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य वचोऽब्रवीत् ।
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यति ॥

13.144.21

आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः ।
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः ॥

13.144.22

ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् ।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥

13.144.23

अथाऽभ्रेषु निगूढश्च रश्मिभिः परिवारितः ।
सप्तद्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥

13.144.24

ततस्तदौषधीनां च वीरुधां पुष्पपत्रजम् ।
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो ॥

13.144.25

जातकर्माणि सर्वाणि व्रतोपनयनानि च ।
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥

13.144.26

सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः ।
अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥

13.144.27

रमणीयानि यावन्ति यावदारम्भिकाणि च ।
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥

13.144.28

सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया ।
प्रसादये त्वां विप्रर्षे किं ते सूर्यो निपात्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc