भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.142

13.142.1

अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः ।
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥

13.142.2

अथापश्यन्सुपीनांसपाणिपादमुखोदरम् ।
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनस्सखम् ॥

13.142.3

अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभम् ।
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥
वसिष्ठ उवाच ।

13.142.4

नैतस्येह यथाऽस्माकमग्निहोत्रमनिर्हुतम् ।
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनस्सखः ॥
अत्रिरुवाच ।

13.142.5

नैतस्येह यथाऽस्माकं क्षुधया वीर्यमाहतम् ।
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्छुनस्सखः ॥
विश्वामित्र उवाच ।

13.142.6

नैतस्येह यथाऽस्माकं शश्वच्छास्त्रकृतो ज्वरः ।
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनस्सखः ॥
जमदग्निरुवाच ।

13.142.7

नैतस्येह यथाऽस्माकं भक्तमिन्धनमेव च ।
सञ्चित्यं वार्षिकं चित्ते तेन पीवाञ्शुनस्सखः ॥
कश्यप उवाच ।

13.142.8

नैतस्येह यथाऽस्माकं चत्वारश्च सहोदराः ।
देहिदेहीति भिक्षन्ति तेन पीवाञ्शुनस्सखः ॥
भरद्वाज उवाच ।

13.142.9

नैतस्येह यथाऽस्माकं ब्रह्मबन्धोरचेतसः ।
शोको भार्यापवादेन तेन पीवाञ्शुनस्सखः ॥
गौतम उवाच ।

13.142.10

नैतस्येह यथाऽस्माकं त्रिकौशेयं च राङ्कवम् ।
एकैकं वै त्रिवर्षीयं तेन पीवाञ्शुनस्सखः ॥
भीष्म उवाच ।

13.142.11

अथ दृष्ट्वा परिव्राट् स तान्महर्षीञ्शुनस्सखः ।
अभिवाद्य यथान्यायं पाणिस्पर्शमथाचरत् ॥

13.142.12

परिचर्यां वने तां तु क्षुत्प्रतीकारकाङ्क्षिणः ।
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥

13.142.13

एकनिश्चयकार्याश्च व्यचरन्त वनानि ते ।
आददानाः समुद्धृत्य मूलानि च फलानि च ॥

13.142.14

कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् ।
शुचिपूर्णप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥

13.142.15

बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् ।
वैडूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥

13.142.16

नानाविधैश्च विहगैर्जलप्रवरसेविभिः ।
एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥

13.142.17

वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना ।
यातुधानीति विख्याता पद्मिनीं तामरक्षत ॥

13.142.18

शुनस्सखसहायास्तु बिसार्थं ते महर्षयः ।
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥

13.142.19

ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् ।
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥

13.142.20

एका तिष्ठसि का च त्वं कस्यार्थे किं प्रयोजनम् ।
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥
यातुधान्युवाच ।

13.142.21

याऽस्मि काऽस्म्यनुयोगो मे न कर्तव्यः कथञ्चन ।
आरक्षिणीं मा पद्मिन्या वित्त सर्वे तपोधनाः ॥
ऋषय ऊचुः ।

13.142.22

सर्व एव क्षुधार्ताः स्म न चान्यत्किञ्चिदस्ति नः ।
भवत्याः सम्मते सर्वे गृह्णीयाम बिसान्युत ॥
यातुधान्युवाच ।

13.142.23

समयेन बिसानीतो गृह्णीध्वं कामकारतः ।
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥
भीष्म उवाच ।

13.142.24

विज्ञाय यातुधानीं तां कृत्यमृषिवधैषिणीम् ।
अत्रिः क्षुधा परीतात्मा ततो वचनमब्रवीत् ॥
अत्त्रिरुवाच ।

13.142.25

अरात्त्रिरत्त्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै ।
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥
यातुधान्युवाच ।

13.142.26

यथोदाहृतमेतत्ते त्वया नाम महाद्युते ।
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम् ॥
वसिष्ठ उवाच ।

13.142.27

वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि ।
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्दि माम् ॥
यातुधान्युवाच ।

13.142.28

नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
कश्यप उवाच ।

13.142.29

कुलन्कुलं च कुवमः कुवमः कश्यपो द्विजः ।
काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥
यातुधान्युवाच ।

13.142.30

यथोदाहृतमेतत्ते मयि नाम महाद्युते ।
दुर्धार्यमेतन्मनसा गच्छाऽवतर पद्मिनीम् ॥
भरद्वाज उवाच ।

13.142.31

भरेऽसुतान्भरे पोष्यान्भरे देवान्भरे द्विजान् ।
भरे भार्यामहं व्याजाद्भरद्वाजोऽस्मि शोभने ॥
यातुधान्युवाच ।

13.142.32

नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
गौतम उवाच ।

13.142.33

गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात् । विद्धि मां गोतमं कृत्ये यातुधानि निबोध मां
यातुधान्युवाच ।

13.142.34

यथोदाहृतमेतत्ते मयि नाम महामुने ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
विश्वामित्र उवाच ।

13.142.35

विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा । विश्वामित्र इति ख्यातं यातुधानि निबोध मां
यातुधान्युवाच ।

13.142.36

नाम नैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
जमदग्निरुवाच ।

13.142.37

जाजमद्यजजानेऽहं जिजाहीह जिजायिषि ।
जमदग्निरिति ख्यातं ततो मां विद्धि शोभने ॥
यातुधान्युवाच ।

13.142.38

यथोदाहृतमेतत्ते मयि नाम महामुने ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
अरुन्धत्युवाच ।

13.142.39

धरान्धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् ।
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥
यातुधान्युवाच ।

13.142.40

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
गण्डोवाच ।

13.142.41

वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते ।
तेनोन्नतेन गण्डेति विद्धि माऽनलसम्भवे ॥
यातुधान्युवाच ।

13.142.42

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥
पशुसख उवाच ।

13.142.43

पशून्यञ्जामि दृष्ट्वाऽहं पशूनां च सदा सखा ।
गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे ॥
यातुधान्युवाच ।

13.142.44

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।
नैतद्धारयितुं शक्यं गच्छाऽवतर पद्मिनीम् ॥
शुनःसख उवाच ।

13.142.45

एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे ।
शुनःसखसखायं मां यातुधान्युपधारय ॥
यातुधान्युवाच ।

13.142.46

नाम न व्यक्तमुक्तं वै वाक्यं सन्दिग्धया गिरा ।
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥
शुनःसख उवाच ।

13.142.47

सकृदुक्तं मया नाम न गृहीतं त्वया यदि ।
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ॥
भीष्म उवाच ।

13.142.48

सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा ।
कृत्या पपात मेदिन्यां भस्म साच जगाम ह ॥

13.142.49

शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् ।
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥

13.142.50

ततस्ते मुनयः सर्वेः पुष्कराणि बिसानि च ।
यथाकाममुपादाय समुत्तस्थुर्मुदाऽन्विताः ॥

13.142.51

श्रमेण महता युक्तास्ते बिसानि कलापशः ।
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥

13.142.52

अथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन् ।
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः ॥
ऋषय ऊचुः ।

13.142.53

केन क्षुधाभिभूतानामस्माकं पापकर्मणाम् ।
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ॥
भीष्म उवाच ।

13.142.54

ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः ।
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥

13.142.55

त उक्त्वा बाढमित्येव सर्व एव तदा समम् ।
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥
अत्रिरुवाच ।

13.142.56

स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु ।
अध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥
वसिष्ठ उवाच ।

13.142.57

अनध्याये पठेल्लोके शुनः स परिकर्षतु ।
परिव्राट् कामवृत्तिस्तु बिसस्तैन्यं करोति यः ॥

13.142.58

शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु ।
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥
कश्यप उवाच ।

13.142.59

विष्णुं ब्रह्मण्यदेवेशं देवदेवं जगद्गुरुम् । आधातारं विधातारं सन्धातारं जगद्गुरुम् ।
विहाय स भजत्वन्यं बिसस्तैन्यं करोति यः ॥

13.142.60

सर्वत्र सर्वं लपतु न्यासलोपं करोतु च ।
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥

13.142.61

वृथा मांसाशनश्चास्तु वृथा दानं करोतु च ।
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥
भरद्वाज उवाच ।

13.142.62

नृशंसस्त्यक्तधर्माऽस्तु स्त्रीषु ज्ञातिषु गोषु च ।
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥

13.142.63

उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च ।
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥
जमदग्निरुवाच ।

13.142.64

पुरीषमुत्सृजत्वप्सु हन्तु गां चैव द्रुह्यत् ।
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥

13.142.65

द्वेष्यो भार्योपजीवी स्याद्दुरबन्धुश्च वैरवान् ।
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥
गौतम उवाच ।

13.142.66

अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु ।
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ॥

13.142.67

उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः ।
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥
विश्वामित्र उवाच ।

13.142.68

जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः ।
दरिद्रो बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ॥

13.142.69

अशुचिर्ब्रह्मकूटोऽस्तु मिथ्या चैवाप्यहङ्कृतः ।
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥

13.142.70

हर्षं करोतु भृतको राज्ञश्वास्तु पुरोहितः । अयाज्यस्य भवेदृत्विक् बिसस्तैन्यं करोति यः
अरुन्धत्युवाच ।

13.142.71

नित्यं परिभवेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः ।
एका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥

13.142.72

ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये ।
अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या ॥
गण्डोवाच ।

13.142.73

अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु ।
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥

13.142.74

साधयित्वा स्वयं प्राशेद्दास्ये जीर्यतु चैव ह ।
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥
पशुसख उवाच ।

13.142.75

दास एव प्रजायेतामप्रसूतिरकिञ्चन ।
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥
शुनःसख उवाच ।

13.142.76

अध्वर्यवे दुहितरं वा ददातु च्छन्दोगे वाऽचरितब्रह्मचर्ये ।
आथर्वणं वेदमधीत्य विप्रः स्नायीत वा यो हरते बिसानि ॥
ऋषय ऊचुः ।

13.142.77

इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः ।
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥
शुनःसख उवाच ।

13.142.78

न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः ।
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ॥

13.142.79

मया ह्यन्तर्हितानीह बिसानीमानि पश्यत ।
परीक्षार्थं भगवतां कृतमेवं मयाऽनघाः ॥

13.142.80

रक्षणार्थं च सर्वेषां भवतामहमागतः ।
यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी ॥

13.142.81

वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ।
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा ॥

13.142.82

तस्मादस्म्यागतो विप्रा वासवं मां निबोधत । अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः ।
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥
भीष्म उवाच ।

13.142.83

ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरन्दरम् ।
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥

13.142.84

एवमेते महात्मानो योगैर्बहुविधैरपि । क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः ।
नैव लोभं तदा यक्रुस्ततः स्वर्गमवाप्नुवन् ॥

13.142.85

तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् ।
एष धर्मः परो राजंस्तस्माल्लोभं विवर्जयेत् ॥

13.142.86

इदं नरः सुचरितं समवायेषु कीर्तयन् ।
अर्थभागी च भवति न च दुर्गाण्यवाप्नुते ॥

13.142.87

प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा ।
यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc