भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.137

13.137.1

कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह ।
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।

13.137.2

ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् ।
दैवे कर्मणि पित्र्ये तु न्यायमाहुः परीक्षणम् ॥

13.137.3

देवताः पावयन्तीह दैवेनैवेह तेजसा ।
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ॥

13.137.4

श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः ।
कुलशीलवयोरूपैर्विद्ययाऽभिजनेन च ॥

13.137.5

तेषामन्ये पङ्क्तिदूष्यास्तथाऽन्ये पङ्क्तिपावनाः ।
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ॥

13.137.6

कितवो भ्रूणहा यक्ष्मीं पशुपालो निराकृतिः ।
ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ॥

13.137.7

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ॥

13.137.8

पित्रा विभजमानश्च यस्य चोपपतिर्गृहे ।
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवती ॥

13.137.9

पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः ।
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥

13.137.10

श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च । परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः ।

13.137.11

कुशीलवो देवलको नक्षत्रैर्यश्च जीवती ॥ ईदृशैर्ब्राह्मणैर्भुक्तमपाङ्क्तेयैर्युधिष्ठिर ।

13.137.12

रक्षांसि गच्छते हव्यमित्याहुर्ब्रह्मवादिनः ॥ श्राद्धं भुक्त्वा त्वधीयीत वृषलीतल्पगश्च यः ।

13.137.13

पुरीषे तस्य ते मासं पितरस्तस्य शेरते ।
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ॥

13.137.14

नष्टं देवलके दत्तमप्रतिष्ठं च वार्धुषे । यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ।
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥

13.137.15

ये तु धर्मव्यपेतेषु चारित्रापगतेषु च ।
हव्यं कव्यं प्रयच्छन्ति येषां तत्प्रेत्य नश्यति ॥

13.137.16

ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः ।
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चयः ॥

13.137.17

एतानिमान्विजानीयादपाङ्क्तेयान्द्विजाधमान् ।
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥

13.137.18

षष्टिं काणः शतं षण्डः श्वित्री यावत्प्रपश्यति ।
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ॥

13.137.19

यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥

13.137.20

असूयता च यदत्तं यच्च श्रद्धाविवर्जितम् ।
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥

13.137.21

श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन ।
तस्मात्परिसृते दद्यात्तिलांश्चान्ववकीरयेत् ॥

13.137.22

तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च ।
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥

13.137.23

अपाङ्क्तो यावतः पाङ्क्तान्भुञ्जानाननुपश्यति ।
तावत्फलाद्धंशयति दातारं तस्य बालिशम् ॥

13.137.24

इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः ।
हेतुतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥

13.137.25

विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व एव हि ।
सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः ॥

13.137.26

पाङ्क्तेयांस्तु प्रवक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः ।
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥

13.137.27

ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः ।
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः ॥

13.137.28

ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ।
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥

13.137.29

अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः ।
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च सः ॥

13.137.30

ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।
मखेषु च समन्त्रेषु भन्त्यवभृथप्लुताः ॥

13.137.31

अक्रोधना ह्यचपलाः क्षान्ताः दान्ता जितेन्द्रियाः ।
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ॥

13.137.32

एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ।
इमे परे महाभागा विज्ञेयाः पङ्क्तिपावनाः ॥

13.137.33

यतयो मोक्षधर्मज्ञा योगिनश्चरितव्रताः ।
पञ्चरात्रविदो मुख्यास्तथा भागवताः परे ॥

13.137.34

वैखानसाः कुलश्रेष्ठा वैदिकाचारचारिणः । ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् ॥

13.137.35

ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ।
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च ॥

13.137.36

अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ।
उपपन्नो गुरुकुले सत्यवादी सहस्रशः ॥

13.137.37

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत ॥

13.137.38

ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते । क्रोशादर्धतृतीयाच्च पावयेदेक एव हि ।
ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः ॥

13.137.39

अनुत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् ।
ऋत्विग्भिरभ्यनुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥

13.137.40

अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः ।
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ॥

13.137.41

तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् ।
स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रतान् ॥

13.137.42

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
न प्रीणन्ति पितॄन्देवान्स्वर्गं च न स गच्छति ॥

13.137.43

यश्च श्राद्धे कुरुते सङ्गतानि न देवयानेन पथा स याति ।
स वै मुक्तः पिप्पलं बन्धनाद्वा स्वर्गाल्लोकच्च्यवते श्राद्धमित्रः ॥

13.137.44

तस्मान्मित्रं श्राद्धकृन्नाद्रियेत दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि ।
यन्मन्यते नैव शत्रुं न मित्रं तं मध्यस्थं भोजयेद्धव्यकव्ये ॥

13.137.45

यथोषरे बीजमुप्तं न रोहे- न्नचावप्ता प्राप्नुयाद्बीजभागम् ।
एवं श्राद्धं भुक्तमनर्हमाणै- र्न चेह नामुत्र फलं ददाति ॥

13.137.46

ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ।
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥

13.137.47

सम्भोजनी नाम पिशाचदक्षिणा सा नैव देवान्न पितॄनुपैति ।
इहैव सा भ्राम्यति हीनपुण्या शालान्तरे गौरिव नष्टवत्सा ॥

13.137.48

यथाऽग्नौ शान्ते घृतमाजुहोति तन्नैव देवान्न पितॄनुपैति ।
तथा दत्तं नर्तके गायके च यां चानृते दक्षिणामावृणोति ॥

13.137.49

उभौ हिनस्ति न भुनक्ति चैषा या चानृते दक्षिणा दीयते वै ।
आघातिनी गर्हितैषा पतन्ती तेषां प्रेतान्पातयेद्देवयानात् ॥

13.137.50

ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर ।
निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥

13.137.51

स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च ।
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥

13.137.52

कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत ।
तत्र ये ब्राह्मणान्केचिन्न सीदन्ति हि ते नराः ॥

13.137.53

ये तु निन्दन्ति जल्पेषु न ताञश्राद्धेषु भोजयत् ।
ब्राह्मणा निन्दिता राजन्हन्युस्त्रैपुरुषं कुलम् ॥

13.137.54

वैखानसानां वचनमृषीणां श्रूयते नृप ।
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ॥

13.137.55

प्रियो वा यदि वा द्वेष्यस्तेषां तु श्राद्धमावपेत् ॥

13.137.56

यः सहस्रं सहस्राणां भोजयदेनृचो नरः ।
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc