भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.135

13.135.1

किंस्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वरः ।
किंस्विद्वहुफलं प्रोक्तं किमानन्त्याय कल्पते ॥
भीष्म उवाच ।

13.135.2

हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः ।
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥

13.135.3

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा ।
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥

13.135.4

वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् ।
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ॥

13.135.5

द्वौ मासौ तु भवेत्तुप्तिर्मत्स्यैः तितृगणस्य ह ।
त्रीन्मासानाविकेनाहुश्चतुर्मासं शशेन ह ॥

13.135.6

आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप ।
वाराहेण तु षण्मासान्सप्त वै शाकुलेन तु ॥

13.135.7

मासानष्टौ पार्षतेन रौरवेण नव प्रभो ।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥

13.135.8

मांसेनेकादश प्रीतिः पितॄणां माहिषेण तु ।
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥

13.135.9

यथा गव्यं तथा युक्तं पायसं सर्पिषा सह ।
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥

13.135.10

आन्त्याय भवेद्दतं खङ्गमांसं पितृक्षते ।
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥

13.135.11

गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर ।
सनत्कुमारो भगवान्पुरा मध्यभ्यभाषत ॥

13.135.12

अपि नः स्वकुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
मघासु सर्पिःसंयुक्तं पायसं दक्षिणायने ॥

13.135.13

आजेन वाऽपि लौहेन मघास्वेव यतव्रतः ।
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥

13.135.14

एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ।
यत्रासौ प्रथितो लोकेष्वक्ष्यकरणो वटः ॥

13.135.15

आपो मूलं फलं मांसमन्नं वाऽपि पितृक्षये ।
यत्किञ्चिन्मधुसम्मिश्रं तदानन्त्याय कल्पते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc