भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.132

13.132.1

अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् ।
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥

13.132.2

देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् ।
ऐश्वर्ये वारुणेवाऽथ रुद्रस्येशस्य वै प्रभो ॥

13.132.3

आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः ।
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥

13.132.4

मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः ।
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥

13.132.5

लक्षणानि स्वरास्तोभा निरुक्ताः स्वरभक्तयः ।
ओन्कारश्छन्दसां नेत्रं निग्रहप्रग्रहौ तथा ॥

13.132.6

वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च ।
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ॥

13.132.7

सञ्जुहावात्मनाऽत्मानं स्वयमेव तदा प्रभो ।
यज्ञं च शोभयामास बहुरूपं पिनाकधृत् ॥

13.132.8

द्यौर्नभः पृथिवी खं च तथा चैवैष भूपतिः ।
सर्वविद्येश्वरः श्रीमानेष चापि विभावसुः ॥

13.132.9

एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः ।
कीर्त्यते भगवान्देवः सर्वभूतपतिः शिवः ॥

13.132.10

तस्य यज्ञः पशुपतेस्तपः क्रतव एव च ।
दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः ॥

13.132.11

देवपत्न्यश्च कन्याश्च देवानां चैव मातरः । आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ।
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः ॥

13.132.12

स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ॥

13.132.13

तस्य शुक्रस्य निष्यन्दान्पांसून्सङ्गृह्य भूमितः ।
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥

13.132.14

ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके ।
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूवह ॥

13.132.15

स्कन्नमात्रं च तच्छुक्रं स्रुवेण परिगृह्य सः ।
आज्यवन्मन्त्रतश्चापि सोऽजुहोद्भृगुनन्दन ॥

13.132.16

ततः स जनयामास भूतग्रामं च वीर्यवान् ।
तस्य तत्तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥

13.132.17

तमसस्तामसा भावा व्यापि सत्वं तथोभयम् । स गुणस्तेजसो नित्यं तमस्याकाशमेव च ।
सर्वभूतेषु च तथा सत्वं तेजस्तथोत्तमम् ॥

13.132.18

शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ।
पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः ॥

13.132.19

भर्जनाद्भृगुरित्येवमङ्गारेभ्योऽङ्गिराऽभवत् । अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् ।
सह ज्वालाभैरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥

13.132.20

मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् ।
अङ्गोरभ्योऽङ्गिरास्तात वालखिल्याः कुशोच्चयात् ॥

13.132.21

अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥

13.132.22

तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसम्मताः ।
वैखानसाः समुत्पन्नास्तपः श्रुतगुणेप्सवः ॥

13.132.23

अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसम्मतौ । शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे ।
ऋषयो रोमकूपेभ्यः स्वेदाच्छन्दो बलान्मनः ॥

13.132.24

एतस्मात्कारणादाहुरग्निः सर्वास्तु देवताः ।
ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ॥

13.132.25

यानि दारूणि निर्यासास्ते मासाः पक्षसञ्ज्ञिताः ।
अहोरात्रा मुहूर्ताश्च वीतज्योतिश्च वारुणम् ॥

13.132.26

रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् ।
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥

13.132.27

अर्चिषो याश्च ते रुद्रास्तथाऽदित्या महाप्रभाः ।
उद्दीप्तास्ते तथाऽङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥

13.132.28

अग्निर्नाथश्च लोकस्य तत्परं ब्रह्म तद्भुवम् ।
सर्वकामदमित्याहुस्तत्र हव्यमुपावहन् ॥

13.132.29

ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः ।
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥

13.132.30

त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः ।
इति जानीत खगमा मम यज्ञफलं हि तत् ॥
अग्निरुवाच ।

13.132.31

मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च ।
ममैव तान्मपत्यानि मम शुक्लं हुतं हि तत् ॥

13.132.32

अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः ।
ममैव तान्यपत्यानि मम शुक्लं हुतं हि तत् ॥

13.132.33

अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह ।
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥

13.132.34

ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै ।
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥

13.132.35

वयं च भगवन्सर्वे जगच्च सचराचरम् । तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः ।
वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥

13.132.36

निसर्गाद्ब्रह्मणश्चापि वरुणो यादसाम्पतिः ।
जग्राह वै भृगु पूर्वमपत्यं सूर्यवर्चसम् ॥

13.132.37

ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थमकल्पयत् ।
पितामहस्त्वपत्यं वैकविं जग्राह तत्त्ववित् ॥

13.132.38

तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत् । आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः ।
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ॥

13.132.39

एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः ।
सर्वं सन्तानमेतेषामिदमित्युपधारय ॥

13.132.40

भृगोस्तु पुत्राः सप्तासन्सर्वे तुल्या भृगोर्गुणैः ।
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥

13.132.41

शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते ।
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥

13.132.42

अषअटौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्यवारुणाः ।
बृहस्पतिरुचथ्यश्च वयस्यः शान्तिरेव च ॥

13.132.43

घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः ।
एतेऽष्टौ वह्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥

13.132.44

ब्राह्मणाश्च कवेः पुत्रा वारुणास्तेऽप्युदाहृताः ।
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥

13.132.45

कविः काव्यश्च विष्णुश्च बुद्धिमानुशना तथा ।
भृगुश्च वरुणश्चैव काश्यपोऽग्निश्च धर्मवित् ॥

13.132.46

अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् ।
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥

13.132.47

एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः ।
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥

13.132.48

वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः ।
कविं तात भृगुं चापि तस्मात्तौ वारुणौ स्मृतौ ॥

13.132.49

जग्राहाङ्गिरसं देवः शिखी तस्माद्भुताशनः ।
तस्मादाङ्गिरसा ज्ञेयाः सर्व एव तदन्वयाः ॥

13.132.50

ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः ।
इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः ॥

13.132.51

सर्वे प्रजानां पतयः सर्वे चातितपस्विनः ।
त्वत्प्रसादादिमं लोकं धारयिष्यन्ति शाश्वतं ॥

13.132.52

तथैव वंशकर्तारस्तव तेजोविवर्धनाः ।
भवेयुर्वेदविदुषः सर्वे च कृतिनस्तथा ॥

13.132.53

देवपक्षचराः सौम्याः प्राजापत्या महर्षयः ।
अनन्तं ब्रह्म सत्यं च तपश्च परमं भुवि ॥

13.132.54

सर्वे हि वयमेते च तवैव प्रसवाः प्रभो ।
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥

13.132.55

मारीचमादितः कृत्वा सर्वे चैवाथ भार्गवाः ।
अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह ॥

13.132.56

अथ स्वेनैव रूपेणि प्रजनिष्यन्ति वै प्रजाः ।
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥

13.132.57

इत्युक्तः स तदा तैस्तु ब्रह्मा लोकपितामहः ।
ततेत्येवाब्रवीत्प्रीतस्तेऽपि जग्मुर्यथागतम् ॥

13.132.58

एवमेतत्पुरावृत्तं तस्य यज्ञे महात्मनः ।
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥

13.132.59

अग्निर्ब्रह्म पशुपतिः शर्वो रुद्रः प्रजापतिः ।
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणाः ॥

13.132.60

अग्न्यभावे च कुरुते वह्निस्थानेषु काञ्चनम् ।
जामदग्न्यप्रमाणज्ञो वेदश्रुतिनिदर्शनात् ॥

13.132.61

कुशस्तम्बे जुहोत्यग्निं सुवर्णे तत्र च स्थिते ।
वल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे ॥

13.132.62

शकटोर्व्या परस्याप्सु ब्राह्मणस्य करे तथा ।
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥

13.132.63

तस्मादग्निपराः सर्वे देवता इति शुश्रुम ।
ब्रह्मणो हि प्रभूतोऽग्निरग्नेरपि च काञ्चनम् ॥

13.132.64

तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः ।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥

13.132.65

तस्य वा तपसो लोकान्गच्छतः परमां गतिम् ।
स्वर्लोके राजराज्येन सोभिषिच्येत भार्गव ॥

13.132.66

आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् ।
ददाति काञ्चनं यो वाः दुःस्वप्नं प्रतिहन्ति सः ॥

13.132.67

ददात्युदितमात्रे यस्यस्य पाप्मा विधूयते ।
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥

13.132.68

ददाति पस्चिमां सन्ध्यां यः सुवर्णं यतव्रतः ।
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥

13.132.69

सेन्द्रेषु चैव लोकेषु प्रतिष्ठा विन्दते शुभाम् ।
इह लोके यशः प्राप्य शान्तपाप्मा च मोदते ॥

13.132.70

ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा ।
अनावृतगतिश्चैव कामचारो भवत्युत ॥

13.132.71

न च क्षरति तेभ्यश्च यशश्चैवाप्नुते महत् ।
सुवर्णमक्षयं दत्त्वा लोकांश्चाप्नोति पुष्कलान् ॥

13.132.72

यस्तु सञ्जनयित्वाऽग्निमादित्योदयनं प्रति ।
दद्याद््वै व्रतमुद्दिश्य सर्वकामान्समश्नुते ॥

13.132.73

अग्निरित्येव तत्प्राहुः प्रदानं च सुखावहम् ।
यथेष्टगुणसंवृत्तं प्रवर्तकमिति स्मृतम् ॥

13.132.74

एषा सुवर्णस्योत्पत्तिः कथिता ते मयाऽनघ ।
कार्तिकेयस्य च विभो तद्विद्धि भृगुनन्दन ॥

13.132.75

कार्तिकेयस्तु संवृद्धः कालेन महता तदा ।
देवैः सेनापतित्वेन वृतः सेन्द्रैर्भृगूद्वह ॥

13.132.76

जघान तारकं चापि दैत्यमन्यांस्तथाऽसुरान् ।
त्रिदशेन्द्राज्ञया ब्रह्मँल्लोकानां हितकाम्यया ॥

13.132.77

सुवर्णदाने च मया कथितास्ते गुणा विभो ।
तस्मात्सुवर्णं विप्रेभ्यः प्रयच्छ तदतांवर ॥
भीष्म उवाच ।

13.132.78

इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् ।
ददौ सुवर्णं विप्रभ्यो व्यमुच्यत च किल्बिषात् ॥

13.132.79

एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते ।
प्रदानस्य फलं चैव जन्म चास्य युधिष्ठिर ॥

13.132.80

तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहुः ।
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc