भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.118

13.118.1

सुरभेः काः प्रजाः पूर्वं मार्ताण्डादभवन्पुरा ।
एतन्मे शंस तत्वेनि गोषु मे प्रीयते मनः ॥
भीष्म उवाच ।

13.118.2

शृणु नामानि दिव्यानि गोमातॄणां विशेषतः ।
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिर्जनाधिप ॥

13.118.3

सुरभ्यः प्रथमोद्भूता याश्च स्युः प्रथमाः प्रजाः ।
मयोच्यमानाः शृणु ताः प्राप्स्यसे विपुलं यशः ॥

13.118.4

तप्त्वा तपो घोरतपाः सुरभिर्दिप्ततेजसः ।
सुषावैकादश सुतान्रुद्रा ये च्छन्दसि स्तुताः ॥

13.118.5

अजैकपादहिर्बुध्न्यस्त्र्यम्बकश्च महायशाः ।
वृषाकपिश्च शम्भुश्च कपाली रैवतस्तथा ॥

13.118.6

हरश्च बहुरूपश्च उग्र उग्रोऽथ वीर्यवान् ।
तस्य चैवात्मजः श्रीमान्विश्वरूपो महायशाः ॥

13.118.7

एकादशैते कथिता रुद्रास्ते नाम नामतः ।
महात्मानो महायोगास्तेजोयुक्ता महाबलाः ॥

13.118.8

एते वरिष्ठजन्मानो देवानां ब्रह्मवादिनाम् ।
विप्राणां प्रकृतिर्लोके एत एव हि विश्रुताः ॥

13.118.9

एत एकादश प्रोक्ता रुद्रास्त्रिभुवनेश्वराः ।
शतं त्वेतत्समाख्यातं शतरुद्रं महात्मनाम् ॥

13.118.10

सुषुवे प्रथमां कन्यां सुरभिः पृथिवीं तदा ।
विश्वकामदुघा धेनुर्या धारयति देहिनः ॥

13.118.11

सुतं गोब्राह्मणं राजन्नेकमित्यभिधीयते ।
गोब्राह्मणस्य जननी सुरभिः परिकीर्त्यते ॥

13.118.12

सृष्ट्वा तु प्रथमं रुद्रान्वरदान्रुद्रसम्भवान् ।
पश्चात्प्रभुं ग्रहपतिं सुषुवे लोकसम्मतम् ॥

13.118.13

सोमराजानममृतं यज्ञसर्वस्वमुत्तमम् ।
ओषधीनां रसानां च देवानां जीवितस्य च ॥

13.118.14

ततः श्रियं च मेधां च कीर्तिं देवीं सरस्वतीम् ।
चतस्रः सुषुवे कन्या योगेषु नियताः स्तिताः ॥

13.118.15

एताः सृष्ट्वा प्रजा एषा सुरभिः कामरूपिणी ।
सुषुवे परमं भूयो दिव्या गोमातरः शुभाः ॥

13.118.16

पुण्यां मायां मधुश्च्योतां शिवां शीघ्रां सरिद्वराम् ।
हिरण्यवर्णां सुभगां गव्यां पृश्नीं कुथावतीम् ॥

13.118.17

अङ्गावतीं घृतवतीं दधिक्षीरपयोवतीम् ।
अमोघां सुरमां सत्यां रेवतीं मारुतीं रसाम् ॥

13.118.18

अजां च सिकतां चैव शुद्धधूमामधारिणीम् ।
जीवां प्राणवतीं धन्यां शुद्धां धेनुं धनावहाम् ॥

13.118.19

इन्द्रामृद्धिं च शान्ति च शान्तपापां सरिद्वराम् ।
चत्वारिंशतिमेकां च धन्यास्ता दिवि पूजिताः ॥

13.118.20

भूयो जज्ञे सुरभ्याश्च श्रीमांश्चन्द्रांशुसप्रभः । वृपो दक्ष इति ख्यातः कण्ढे मणितलप्रभः ।

13.118.21

स्रग्वी ककुद्मान्द्युतिमान्मृणालसदृशप्रभः ।
सुरभ्यनुमते दत्तो ध्वजो माहेशअवरस्तु सः ॥

13.118.22

सुरभ्यः कामरूपिण्यो गावः पुण्यार्थमुत्कटाः ।
आदित्येभ्यो वसुभ्यश्च विश्वेभ्यश्च ददौ वरान् ॥

13.118.23

सुरभिस्तु तपस्तप्त्वा सुषुवे गास्ततः पुनः ।
या दत्ता लोकपालानामिन्द्रादीनां युधिष्ठिर ॥

13.118.24

सुष्टुनां कपिलां चैव रोहिणीं च यशस्विनीम् ।
सर्वकामदुघां चैव मरुतां कामरूपिणीम् ॥

13.118.25

गावो मृष्टदुघा ह्येतास्ताश्चतस्रोऽत्र संस्तुताः ।
यासां भूत्वा पुरा वत्साः पिबन्त्यमृतमुत्तमम् ॥

13.118.26

सुष्टुतां देवराजाय वासवाय महात्मने ।
कपिलां धर्मराजाय वरुणाय च रोहिणीम् ॥

13.118.27

सर्वकामदुघां धेनुं राज्ञे वैश्रवणाय च ।
इत्येता लोकमहिता विश्रुताः सुरभेः प्रजाः ॥

13.118.28

एतासां प्रजया पूर्णा पृथिवी मुनिपुङ्गवः ।
गोभ्यः प्रभवते सर्वं यत्किञ्चिदिह शोभनम् ॥

13.118.29

सुरभ्यपत्यमित्येतन्नामतस्तेऽनुपूर्वशः ।
कीर्तितं ब्रूहि राजेन्द्र किं भूयः कथयामि ते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc