भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.116

13.116.1

पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् ।
पावनं परमं चैव तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.116.2

गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् ।
धारयन्ति प्रजाश्चेमा हविषा पयसा तथा ॥

13.116.3

न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम ।
एताः पुण्याः पवित्राश्च त्रिषु लोकेषु सत्तमाः ॥

13.116.4

देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै ।
दत्त्वा चैतास्तारयते यान्ति स्वर्गं मनीषिणः ॥

13.116.5

मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा ।
गा वै ददन्तः सततं सहस्रशतसम्मिताः ॥

13.116.6

गताः परमकं स्थानं देवैरपि सुदुर्लभम् ।
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ ॥

13.116.7

ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः ।
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ॥

13.116.8

पितरं परिपप्रच्छ दृष्टलोकपरावरम् ।
को यज्ञः सर्वयज्ञानां वरिष्ठोऽभ्युपलक्ष्यते ॥

13.116.9

किञ्च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः ।
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो ॥

13.116.10

किञ्च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः । दानानामुत्तमं किञ्च किञ्च सत्रमितः परम् ।
पवित्राणां पवित्रं च यत्तद्ब्रूहि महामुने ॥

13.116.11

एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् ।
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥

13.116.12

गावः प्रतिष्ठा भूतानां तथा गावः परायणम् ।
गावः पुण्याः पवित्राश्च गोधनं पावनं तथा ॥

13.116.13

पूर्वमासन्नंशृङ्गा वै गाव इत्यनुशश्रुम ।
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥

13.116.14

ततो ब्रह्मा तु गाः सत्रमुपविष्टाः समीक्ष्य ह ।
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥

13.116.15

तासां शृङ्गाण्यजायन्त तस्या यादृङ्भनोगतम् ।
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥

13.116.16

ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः ।
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ॥

13.116.17

गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ।
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः ॥

13.116.18

ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ।
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥

13.116.19

यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः ।
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥

13.116.20

सर्वा मणिभयी भूमिः सर्वकाञ्चनवालुकाः ।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का निरजाः शुभाः ॥

13.116.21

रक्तोत्पलवनैश्चैव मणिखण्डैर्हिरण्मयैः ।
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ॥

13.116.22

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः ।
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥

13.116.23

करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः ।
सन्तानकवनैः फुल्लैर्वृक्षेश्च समलङ्कृताः ॥

13.116.24

निर्मिलाभिश्च मुक्ताभिर्मणिभिश्च महाप्रभैः ।
उद्भूतपुलिनास्तत्र जातरूपैश्चि निम्नगाः ॥

13.116.25

सर्वरत्नमयैश्चित्रैरवगाढा द्रुमोत्तमैः ।
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥

13.116.26

सौवर्णि गिरयस्तत्र मणिरत्नशिलोच्चयाः ।
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥

13.116.27

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥

13.116.28

रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर ।
सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥

13.116.29

विमानेषु विचित्रेषु रमणीयेषु भारत ।
मोदन्ते पुण्यकर्माणो विरहन्तो यशस्विनः ॥

13.116.30

उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः ।
एतान्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥

13.116.31

यासामधिपतिः पूषा मारुतो बलवान्बले ।
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः ॥

13.116.32

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः ।
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥

13.116.33

गाश्च शुश्रूषते यश्च समन्वेति च सर्वशः ।
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥

13.116.34

द्रुह्येन मनसा वाऽपि गोषु ता हि सुखप्रदाः ।
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ॥

13.116.35

दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाऽश्नुते ।
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः ॥

13.116.36

गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं विबेत् ।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्र्यहम् ॥

13.116.37

योन देवाः पवित्रेणि भुञ्जते लोकमुत्तमम् ।
यत्पवित्रं पवित्राणां तद्धृतं शिरसा वहेत् ॥

13.116.38

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।
घृतं प्राशेद्धृतं दद्याद्गवां पुष्टिं तथाऽश्नुते ॥

13.116.39

निर्हृतैश्च यवैर्गोभिर्मासं प्रश्रितयावकः ।
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यते ॥

13.116.40

पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् ॥
ते देवत्वमपि प्राप्ताः संसिद्धाश्च महाबलाः ॥

13.116.41

गावः पवित्राः पुण्याश्च पावनं परमं महत् ।
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥

13.116.42

गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् ।
पूताभिरद्भिराचम्यि शुचिर्भवति निर्मलः ॥

13.116.43

अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि ।
विद्यावेदप्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥

13.116.44

अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसम्मिताम् ।
त्रिरात्रोपोषितो भूत्वा गोमतीं लभते वरम् ॥

13.116.45

पुत्रिकामश्च लभते पुत्रं धनमथापि वा ॥
पतिकामा च भर्तारं सर्वकामांश्च मानवः ॥

13.116.46

गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः । एवमेतां महाभागा यज्ञियाः सर्वकामदाः ।
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥

13.116.47

इत्युक्तः स महातेजाः शुकः पित्रा महात्मना ।
पूजयामास तां नित्यं तस्मात्त्वमपि पूजय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc