महाभारत · अध्याय 13.111
विधिं गवां परं श्रोतुमिच्छामि नृप तत्त्वतः ।
येन ताञ्शाश्वताँल्लोकानर्थिनां प्राप्नुयादिह ॥
भीष्म उवाच ।
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप ।
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥
सतामर्थे सम्यगुत्पादितो यः स वै क्लृप्तः सम्यगाभ्यः प्रजाभ्यः ।
तस्मात्पूर्वं ह्यादिकालप्रवृत्तं गोदानार्थं शृणु राजन्विधिं मे ॥
पुरा गोष्ठे निलीनासु गोषु सन्दिग्धदर्शिना ।
मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥
द्विजानामन्त्र्य सत्कृत्य प्रोक्तं कालमुपोष्य च ।
गोदानार्थे प्रयुञ्जीत रोहिणीं नियतव्रतः ॥
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च ।
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥
गौर्मे माता वृषभः पिता मे दिवं गर्भं जगती मे प्रतिष्ठा ।
प्रपद्यैवं शर्वरीमुष्य गोषु पुनर्वाणीमुत्सृजेद्गोप्रदाने ॥
स तामेकां निशां गोभिः समसख्यः समव्रतः ।
ऐकात्म्यगमनात्सद्यः कलुषाद्विप्रमुच्यते ॥
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने ।
त्रिदिवं प्रतिपत्तव्यमर्थवादाशिषस्तव ॥
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञे गर्भोऽमृतस्य जगतश्च प्रतिष्ठा ।
क्षिते रोहः प्रवहः शश्वदेव । प्राजापत्याः सर्वमित्यर्थवादाः ॥
गावो ममैनः प्रणुदन्तु सौर्या- स्तथा सौम्याः स्वर्गयानाय सन्तु ।
आत्मानं मे मातृवच्चाश्रयन्तु तथाऽनुक्ताः सन्तु सर्वाशिषो मे ॥
शोषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यः श्रेयसे सम्प्रवृत्ताः ।
यूयं नित्यं सर्वपुण्योपवाह्यां दिशध्वं मे गतिमिष्टां प्रसन्नाः ॥
या वै यूयं सोऽहमद्यैव भावो युष्मान्दत्त्वा चाहमात्मप्रदाता ।
मनश्च्युता मन एवोपपन्नाः सन्धुक्षध्वं सौम्यरूपाग्र्यदेहाः ॥
दानस्याग्रे पूर्वमेतद्वदेत गवां दाता विधिवत्पर्वदृष्टम् ।
प्रतिब्रूयाच्छेषमर्धन्द्विजातिः प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥
गां ददानीति वक्तव्यमर्घ्यमुत्सृज्य सुव्रतः ।
ऊढव्या भरितव्या च वैष्णवीति च चोदयेत् ॥
नाम सङ्कीर्तयेत्तस्या यथासंख्योत्तरं स वै ।
फलं षट्त्रिंशदष्टौ च सहस्राणि च विंशतिः ॥
एवमेतान्गुणान्विद्याद्गवादीनां यथाक्रमम् ।
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥
गोदः शीली निर्भयश्चार्घदाता न स्याद्दुःखी वसुदाता च कामम् ।
उपस्योढा भारते यश्च विद्वा- न्विख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं निशां चैकां संवसेतेह ताभिः ।
काम्याष्टभ्यां वर्तितव्यं त्रिरात्रं रसैर्वा गोः शकृता प्रश्नवैर्वा ॥
देवव्रती स्याद्वृषभप्रदाने वेदावाप्तिर्गोयुगस्य प्रदाने ।
तथा गवां विधिमासाद्य यज्वा लोकानग्र्यान्विन्दते गोविधिज्ञः ॥
कामान्सर्वान्पार्थिवानेकसंस्था- न्यो वै दद्यात्कामदुघां च धेनुम् ।
सम्यक्ताः स्युर्हव्यकव्यौघवत्य स्तासामुक्ष्णां ज्यायसां सम्प्रदानम् ॥
न चाशिष्यायाव्रतायोपकुर्या- न्नाश्रद्दधानाय न वक्रबुद्धये ।
गुह्यो ह्ययं सर्वलोकस्य धर्मो नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥
सन्ति लोके श्रद्दधाना मनुष्याः सन्ति क्षुद्रा राक्षसमानुषेषु ।
एषामेतद्दीयमानं ह्यनिष्टं ये नास्तिक्यं चाश्रयन्तेऽल्पपुण्याः ॥
बार्हस्पत्यं वाक्यमेतन्निशम्य ये राजानो गोप्रदानानि दत्त्वा ।
लोकान्प्राप्ताः पुण्यशीलाः प्रवृत्ता- स्तान्मे राजन्कीर्त्यमानान्निबोध ॥
उशीनरो विश्वगश्वो नृगश्च भगीरथो विश्रुतो यौवनाश्वः ।
मान्धाता वै मुचुकुन्दश्च राजा भूरिद्युम्नो नैषधः सोमकश्च ॥
पुरूरवा भरतश्चक्रवर्ती यस्यान्ववाये भरताः सर्व एव ।
तथा वीरो दाशरथिश्च रामो ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥
तथा राजा पृथुकर्मा दिलीपो दिवं प्राप्तो गोप्रदानैर्विधिज्ञः ।
यज्ञैर्दानैस्तपसा राजधर्मै- र्मान्धाताऽभूद्गोप्रदानैश्च युक्तः ॥
तस्मात्पार्थ त्वमपीमां मयोक्तां बार्हस्पतीं भारतीं धारयस्व ।
द्विजाग्र्येभ्यः सम्प्रयच्छस्व प्रीतो गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥
वैशम्पायन उवाच ।
तथा सर्वं कृतवान्धर्मराजो भीष्मेणोक्तो विधिवद्गोप्रदाने
स मान्धातुर्वेद देवोपदिष्टं सम्यग्धर्मं धारयामास राजा ॥
इति नृप सततं गवां प्रदाने यवशकलान्सह गोमयैः पिबानः ।
क्षितितलशयनः शिखी यतात्मा वृष इव राजवृषस्तदा बभूव ॥
नरपतिरभवत्सदैव ताभ्यः प्रयतमनास्त्वभिसंस्तुवंश्च गा वै ।
नृपतिधुरि च गामयुक्त भूप- स्तुरगवरैरगमच्च यत्र तत्र ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0