भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.109

13.109.1

जान्यो गामपहरेद्विक्रीयाच्चार्थकारणात् ।
एतद्विज्ञातुमिच्छामि कानु तस्य गतिर्भवेत् ॥
पितामह उवाच ।

13.109.2

भक्तार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते ।
दानार्थं ब्राह्मणार्थाय तत्रेदं श्रूयतां फलम् ॥

13.109.3

विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः ।
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥

13.109.4

घातकः खादको वाऽपि तथा यश्चानुमन्यते ।
यावन्ति तस्या रोमाणि तावद्वर्षाणि मज्जति ॥

13.109.5

ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके ।
विक्रये चापहारे च ते दोषा वै स्मृता गवाम् ॥

13.109.6

अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति । यावद्दाने तु यो गां वै ब्राह्मणाय प्रयच्छति ।

13.109.7

सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते ।
सुवर्णं परमित्युक्तं दक्षिणार्थमसंशयम् ॥

13.109.8

गोप्रदानात्तारयते सप्त पूर्वांस्तथाऽपरान् ।
सुवर्णं दक्षिणां कृत्वा तावद्द्विगुणमुच्यते ॥

13.109.9

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ॥

13.109.10

कुलानां पावनं प्राहुर्जातरूपं शतक्रतो ।
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥
भीष्म उवाच ।

13.109.11

एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ ।
इन्द्रो दशरथायाह रामायाह पिता तथा ॥

13.109.12

राघवोपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने ।
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो ॥

13.109.13

पारम्पर्यागतं चेदमृषयः संशितव्रताः ।
दुर्धरं दारयामासू राजानश्चैव धार्मिकाः ॥

13.109.14

उपाध्यायेन गदितं मम चेदं युधिष्ठिर ॥

13.109.15

य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि ।
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ॥

13.109.16

तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा ।
इति ब्रह्मा स भगवानुवाच परमेश्वरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc