भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.107

13.107.1

उक्तं ते गोप्रदानं वै नाचिकेतमृषिं प्रति ।
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ॥

13.107.2

नृगेण च महद्दुःखमनुभूतं महात्मना ।
एकापराधादज्ञानात्पितामह महामते ॥

13.107.3

द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः ।
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ॥

13.107.4

किं त्वस्ति मम सन्देहो गवां लोकं प्रति प्रभो ।
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र वसन्त्युत ॥
भीष्म उवाच ।

13.107.5

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथाऽपृच्छत्पद्मयोनिमेतदेव शतक्रतुः ॥
शक्र उवाच ।

13.107.6

स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वयाऽर्चिषा ।
गोलोकवासिनः पश्ये वदतां संशयोऽत्र मे ॥

13.107.7

कीदृशा भगवँल्लोका गवां तद्बूहि मेऽनघ ।
यानावसन्ति दातार एतदिच्छामि वेदितुम् ॥

13.107.8

कीदृशाः किम्फलाः किंस्वित्परमस्तत्र को गुणः ।
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ॥

13.107.9

कियत्कालं प्रदानस्य दाता च फलमश्नुते ।
कथं बहुविधं दानं स्यादल्पमपि वा कथम् ॥

13.107.10

बह्वीनां कीदृशं दानमल्पानां वाऽपि दीदृशम् । अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे

13.107.11

कथं वा बहुदाता स्यादल्पदात्रा समः प्रभो ।
अल्पप्रदाता बहुदः कथं स्वित्स्यादिहेश्वर ॥

13.107.12

कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते ।
एतत्तथ्येन भगवन्मम शंसितुमर्हसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc