भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.103

13.103.1

तिलानां कीदृशं दानमथ दीपस्य चैव हि ।
अन्नानां वाससा चैव भूय एव ब्रवीहि मे ॥
भीष्म उवाच ।

13.103.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥

13.103.3

मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह ।
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥

13.103.4

पर्णशालेति विख्यातो रमणीयो नराधिप ।
विद्वांशस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तथा ॥

13.103.5

अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम् ।
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥

13.103.6

गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय ।
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥

13.103.7

शमे निविष्टं विद्वांसमध्यापकमनावृतम् ।
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥

13.103.8

स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना । अपत्येषु तथा वृत्ते समस्तेनैव धीमता ।
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥

13.103.9

स गत्वा प्रतिकूलं तच्चकार यमशासनम् ।
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥

13.103.10

तस्मै यमः समुत्थाय पूजा कृत्वा च वीर्यवान् ।
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥

13.103.11

एवमुक्ते तु वचने धर्मराजेन स द्विजः । उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै ।
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥
यम उवाच ।

13.103.12

नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन ।
यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥

13.103.13

गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते ।
ब्रूहि सर्वं यथा स्वैरं करवाणि किमच्युत ॥
ब्राह्मण उवाच ।

13.103.14

शुद्धदानं च सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे ।
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥
यम उवाच ।

13.103.15

शृणु तत्त्वेन विप्रर्पे प्रदानविधिमुत्तमम् ।
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥

13.103.16

तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ ।
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥

13.103.17

तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् ।
तान्प्रयच्छस्व विप्रेभअयो विधिदृष्टेन कर्मणाः ॥

13.103.18

वैशाख्यां पौर्णमास्यां तु तिलान्दद्याद्द्विजातिषु । तिला भक्षयितव्याश्च सदा त्वालम्भं च तैः

13.103.19

कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ।
तथाऽपः सर्वदा देयाः पेयाश्चैव न संशयः ॥

13.103.20

पुष्करिण्यस्तटाकानि कूपांश्चैवात्र खानयेत् ।
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम ॥

13.103.21

आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् । प्रपाश्च कार्या दानार्थं नित्यं ते द्विजसत्तम ।
भुक्तेऽप्यथ प्रदेयं तु पानीयं वै विशेषतः ॥

13.103.22

पानीयाभ्यर्थिनं दृष्ट्वा प्रीत्या दत्त्वा त्वरान्वितः ।
वस्त्रे तन्तुप्रमाणेन दीपे निमिषवत्सरम् ॥

13.103.23

गवां रोमप्रमाणेन स्वर्गभोगमुपाश्नुते ।
जलबिन्दुप्रमाणेन तदेतान्युपवर्तय ॥
भीष्म उवाच ।

13.103.24

इत्युक्ते स तदा तेन यमदूतेन वै गृहान् ।
नीतश्च कारयामास सर्वं तद्यमशासनम् ॥

13.103.25

नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा ।
ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥

13.103.26

तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् ।
कृत्वा च संविदं तेन विससर्ज यथागतम् ॥

13.103.27

तस्यापि च यमः सर्वमुपदेशं चकार ह ।
प्रेत्यैत्य च ततः सर्वं चकारोक्तं यमेन तत् ॥

13.103.28

तथा प्रशंसने दीपान्यमः पितृहितेप्सया ।
तस्माद्दीपप्रदो नित्यं सन्तारति वै पितॄन् ॥

13.103.29

दातव्याः सततं दीपास्तस्माद्भरतसत्तम ।
देवतानां पितॄणां च चक्षुष्यं चात्मनां विभो ॥

13.103.30

रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप ।
यस्तान्विक्रीय यजते ब्राह्मणो ह्यभयन्करम् ॥

13.103.31

यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै ।
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥

13.103.32

यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् ।
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥

13.103.33

वाससां सम्प्रदानेनि स्वदारनिरतो नरः ।
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥

13.103.34

गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः ।
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥

13.103.35

विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च ।
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc