भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.101

13.101.1

दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ ।
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

13.101.2

उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः ।
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ॥

13.101.3

स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर ।
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशाम्पते ॥

13.101.4

उपतिष्ठति कौन्तेय रौप्यकाञ्चनभूषितम् ।
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥
युधिष्ठिर उवाच ।

13.101.5

यत्फलं तिलदाने च भूमिदाने च कीर्तितम् ।
गोदाने चान्नदाने च भूयस्तद्ब्रूहि कौरव ॥
भीष्म उवाच ।

13.101.6

शृणुष्व मम कौन्तैय तिलदानस्य यत्फलम् ।
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥

13.101.7

पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयम्भुवा ।
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥

13.101.8

माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति ।
सर्वसत्वसमाकीर्णं नरकं स न पश्यति ॥

13.101.9

सर्वसत्रैश्च यजते यस्तिलैर्यजते पितॄन् ।
न चाकामेन दातव्यं तिलैः श्राद्धं कदाचन ॥

13.101.10

महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः । ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो

13.101.11

पौष्टिका रूपदाश्चैव तथा पापविनाशनाः ।
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥

13.101.12

आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा ।
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ॥

13.101.13

तिलहोमरता विप्राः सर्वे संयतमैथुनाः ।
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥

13.101.14

सर्वेषामिति दानानां तिलदानं विशिष्यते ।
अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥

13.101.15

उच्छिन्ने तु पुरा हव्ये कुशिकर्षिः परन्तपः ।
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥

13.101.16

इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् ।
विधानं येन विधिना तिलानामिह शस्यते ॥

13.101.17

अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् ।
समागमे महाराज ब्रह्मणा वै स्वयम्भुवा ॥

13.101.18

देवाः समेत्य ब्रह्माणं भूमिभागे यियश्रवः ।
शुभं देशमयाचन्त यजेम इति पार्थिव ॥
देवा ऊचुः ।

13.101.19

भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च ।
यजेम हि महाभाग यज्ञं भवदनुज्ञया ॥

13.101.20

नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते । त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च ।
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥
ब्रह्मोवाच ।

13.101.21

ददानि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः ।
यस्मिन्देशे करिष्यध्वं यज्ञान्काश्यपनन्दनाः ॥
दैवा ऊचुः ।

13.101.22

भगवन्कृतकामाः स्म यक्ष्महे स्वाप्तदक्षिणैः ।
इमं तु देशं मुनयः पर्युपासन्ति नित्यदा ॥

13.101.23

ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः ।
असितो देवलश्चैव देवयज्ञमुपागमन् ॥

13.101.24

ततो देवा महात्मान ईजिरे यज्ञमच्युतम् ।
तथा समापयामासुर्यथाकालं सुरर्षभाः ॥

13.101.25

त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे । षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे ।

13.101.26

प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् ।
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ॥

13.101.27

शीतवातातपसहां यागभूमिं सुसंस्कृताम् ।
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥

13.101.28

मुदितो वसति प्राज्ञः शक्रेण सह पार्थिव ।
पतिश्रयप्रदानाच्च सोऽपि स्वर्गे महीयते ॥

13.101.29

अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः ।
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ॥

13.101.30

तथा गवार्थे शरणं शीतवर्षसहं दृढम् ।
आसप्तमं तारयति कुलं भरतसत्तम ॥

13.101.31

क्षेत्रभूमिं ददल्लोके शुभां श्रियमवाप्नुयात् ।
रत्नभूमिं प्रदद्यात्तु कुलवंशं प्रवर्धयेत् ॥

13.101.32

न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन ।
न श्मशानपरीतां च न च पापनिषेविताम् ॥

13.101.33

पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः ।
तद्भूमिं वाऽपि पितृभिः श्राद्धकर्म विहन्यते ॥

13.101.34

तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः ।
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥

13.101.35

अटवी पर्वताश्चैव नद्यस्तीर्थानि यानि च ।
सर्वाण्यस्वामिकान्याद्दुर्न हि तत्र परिग्रहः ॥

13.101.36

इत्येतद्भूमिदानस्य फलमुक्तं विशाम्पते ।
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ॥

13.101.37

गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च ।
तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः ॥

13.101.38

ब्राह्मे लोके वसन्त्येताः सोमेन सह भारत ।
यां तां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ॥

13.101.39

पयसा हविषा दध्ना शकृता चाथ चर्मणा ।
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥

13.101.40

नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते ।
न वर्षविषयं वाऽपि दुःखमासां भवत्युत ॥

13.101.41

ब्राह्मणैः सहिता यान्ति तस्मात्पारमकं पदम् ।
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥

13.101.42

रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः । अतश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता । पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः ॥

13.101.43

ता इमा विप्रमुख्येभ्यो यो ददाति महीपते ।
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥

13.101.44

गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते ।
सर्वत्र विजयं चापि लभते मनुजाधिप ॥

13.101.45

अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः ।
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ॥

13.101.46

अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः ।
तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति ॥

13.101.47

स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् ।
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥

13.101.48

प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ ।
तस्माद्ददाति यो धेनुं प्राणानेष प्रयच्छति ॥

13.101.49

गावः शरण्या भूतानामिति वेदविदो विदुः ।
तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति ॥

13.101.50

न वधार्थं प्रदातव्या न कीनाशे न नास्तिके । गोजीविने न दातव्या तथा गौर्भरतर्षभ ।
गोरसानां न विक्रेतू रसं च यजनस्य च ॥

13.101.51

ददत्स तादृशानां वै नरो गां पापकर्मणाम् ।
अक्षयं नरकं यातीत्येवमाहुर्महर्षयः ॥

13.101.52

न कृशां नापवत्सां वा वन्ध्यां रोगान्वितां तथा ।
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ॥

13.101.53

दशगोसहस्रदः सम्यक् शक्रेण सह मोदते ।
अक्षयाँल्लभते लोकान्नरः शतसहस्रशः ॥

13.101.54

इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् ।
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥

13.101.55

अन्नदानं प्रधानं हि कौन्तेय परिचक्षते ।
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥

13.101.56

श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप ।
स्वायम्भुवं महात्स्थानं स गच्छति नराधिप ॥

13.101.57

न हिरण्यैर्न वासोभिर्नान्यदानेन भारत ।
प्राप्नुवन्ति नराः श्रेयो यथा ह्यन्नप्रदाः प्रभो ॥

13.101.58

अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता ।
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥

13.101.59

सद्यो ददाति यश्चान्नं सदैकाग्रमना नरः ।
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥

13.101.60

अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् ।
यदन्ना हि नरा राजंस्तदन्नास्तस्य देवतः ॥

13.101.61

कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत ।
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥

13.101.62

अभुक्त्वाऽतिथेये चान्नं प्रयच्छेद्यः समाहितः ।
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥

13.101.63

सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् ।
पापं तरति चैवेह दुष्कृतं चापकर्षति ॥

13.101.64

इत्येतदन्नदानस्य तिलदानस्य चैव ह ।
भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc