भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.10

13.10.1

कर्मणां च समस्तानां फलिनां भरतर्षभ ।
फलानि महतां श्रेष्ट प्रब्रूहि परिपृच्छतः ॥
भीष्म उवाच ।

13.10.2

हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत । रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर ।
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥

13.10.3

येनयेन शरीरेण यद्यत्कर्म करोति यः ।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥

13.10.4

यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम् ।
तस्यान्तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥

13.10.5

न नश्यति कृतं कर्म चित्तपञ्चेन्द्रियैरिह ।
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा शुभाशुभे ॥

13.10.6

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥

13.10.7

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥

13.10.8

स्थण्डिलेषु शयानानां गृहाणि शयनानि च ।
चीरवल्कलसंवीते वासांस्याभरणानि च ॥

13.10.9

वाहनानि च यानानि योगात्मनि तपोधने ।
अग्नीनुपशयानस्य राज्ञः पौरुषमेव च ॥

13.10.10

रसानां प्रतिसंहारे सौभाग्यमनुगच्छति ।
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥

13.10.11

अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् ।
मण्डूकशायी च नरो लभते चेप्सितां गतिम् ॥

13.10.12

पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् ।
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥

13.10.13

वीरासनं वीरशय्यां वीरस्थानमुपासतः ।
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥

13.10.14

धनं लभेत दानेन मौनेनाज्ञां विशाम्पते ।
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥

13.10.15

रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।
फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् ॥

13.10.16

प्रायोपवेशिनो राजन्सर्वत्र सुखमुच्यते ।
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः ॥

13.10.17

स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ।
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥

13.10.18

सलिलाशी भवेद्यस्तु सदाग्निः संस्कृतो द्विजः ।
मरुत्साधयतो राज्यं नाकपृष्ठमनाशिने ॥

13.10.19

उपवासं च दीक्षायामभिषेकं च पार्थिव ।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥

13.10.20

अधीत्य सर्ववेदान्वै सद्यो दुःखाद्विमुच्यते ।
तत्पाठधारणात्स्वर्गमर्थज्ञानात्परां गतिम् ॥

13.10.21

वितृष्णानां वेदजपात्स्वर्गमोक्षफलं स्मृतम् । मानसं हि चरन्धर्म स्वर्गलोकमुपाश्नुते ॥

13.10.22

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौप्राणान्तिकोरोगस्तान्तृष्णां त्यजतः सुखं ॥

13.10.23

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥

13.10.24

अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥

13.10.25

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते ॥

13.10.26

येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः । माता च येन प्रीणाति पृथिवी तेन पूजिता ।
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम् ॥

13.10.27

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥
वैशम्पायन उवाच ।

13.10.28

भीष्मस्यैतद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः ।
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥

13.10.29

यन्मन्त्रे भवति वृथोपयुज्यमाने यत्सोमे भवति वृथाऽभिषूयमाणे ।
यच्चाग्नौ भवति वृथाऽभिहूयमाने तत्सर्वं भवति वृथाऽभिधीयमाने ॥

13.10.30

इत्येतदृषिणा प्रोक्तमुक्तवानस्मि भारत ।
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc