भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 13.1

13.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैवततो जयमुदीरयेत् ॥
वैशम्पायन उवाच ।
शरतल्पे महात्मानं शयानमपराजितम् । युधिष्ठिर उपागम्य प्रणिपत्येदमब्रवीत् ॥

13.1.2

शमो बहुविधाकारः सूक्ष्म उक्तः पितामह ।
न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम् ॥

13.1.3

अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह ।
स्वकृतात्का नु शान्ति स्याच्छमाद्बहुविधादपि ॥

13.1.4

शराचितं शरीरं हि तीव्रव्रणमुदीक्ष्य ते ।
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥

13.1.5

रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् ।
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥

13.1.6

अतः कष्टतरं किन्नु मत्कृते यत्पितामहः ।
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ॥

13.1.7

तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः ।
मत्कृते निधनं प्राप्ताः किन्नु कष्टतरं ततः ॥

13.1.8

वयं हि धार्तराष्ट्राश्च काममन्युवशं गताः ।
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥

13.1.9

इदं तु धार्तराष्ट्रास्य श्रेयो मन्ये जनाधिप ।
इमामवस्थां सम्प्राप्तं यदसौ त्वां न पश्यति ॥

13.1.10

सोऽहमार्तिकरो राजन्सुहृद्वधकरस्तथा ।
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥

13.1.11

दुर्योधनो हि समरे सहसैन्यः सहानुजः ।
निहतः क्षत्रधर्मेऽस्मिन्दुसत्मा कुलपांसनः ॥

13.1.12

न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ ।
अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः ॥

13.1.13

अहं हि समरे वीर गमितः शत्रुभिः क्षयम् । अभविष्यं यदि पुरा सह भ्रातृभिरच्युत ।
न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम् ॥

13.1.14

नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप ॥

13.1.15

अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात् ।
तथा प्रशाधि मां राजन्मम चेदिच्छसि प्रियम् ॥
भीष्म उवाच ।

13.1.16

परतन्त्रं कथं हेतुमात्मानमनु पश्यसि ।
कर्मणां हि महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥

13.1.17

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥

13.1.18

गौतमी नाम काऽप्यासीत्स्थविरा शमसंयुता ।
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ॥

13.1.19

अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः ।
लुब्धकोऽर्जुनको नाम नाम गौतम्याः समुपानयत् ॥

13.1.20

तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः ।
ब्रहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥

13.1.21

अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोपि वा ।
न ह्यं बालहा पापश्चिरं जीवितुमर्हति ॥
गौतम्युवाच ।

13.1.22

विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया । को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन्

13.1.23

प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः ।
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥

13.1.24

नास्यामृतत्वं भवितैवं हतेऽस्मि- ञ्जीवत्यस्मिन्कोऽत्ययः स्यादयं ते ।
अस्योत्सर्गे प्राणयुक्तस्य जन्तो- र्मृत्युं लोके को न गच्छेदनन्ते ॥
लुब्धक उवाच ।

13.1.25

जानाम्यहं नेह गुणागुणज्ञाः सदायुक्ता गुरवो वै भवन्ति ।
स्वर्गस्य ते सूपदेशा भवन्ति तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥

13.1.26

शममीप्सन्तः कालयोगं त्यजन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति ।
श्रियः क्षयः शोचतां नित्यशो हि तस्माच्छुचं मुञ्च हते भुजङ्गे ॥
गौतम्युवाच ।

13.1.27

न चैवार्तिर्विद्यतेऽस्मद्विधानां धर्मात्मानः सर्वदा सञ्जना हि ।
नित्यायस्तो बालजनो न चाहं धर्मोपैति प्रभवाम्यस्य नाहम् ॥

13.1.28

न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना ।
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥
लुब्धक उवाच ।

13.1.29

हत्वा लाभः श्रेय एवाव्ययः स्या- त्सद्योलाभःस्याद्बलिभ्यः प्रशस्तः ।
कालाल्लाभो यस्तु सद्यो भवेत श्रेयोलाभः कुत्सिते त्वीदृशि स्यात् ॥
गौतम्युवाच ।

13.1.30

काऽर्थप्राप्तिर्गृह्य शत्रुं निहत्य का कामाप्तिः प्राप्य शत्रुं न मुक्त्वा ।
कस्मात्सौम्याहं न क्षमे नो भुजङ्गे मोक्षार्थं वा कस्य हेतोर्न कुर्याम् ॥
लुब्धक उवाच ।

13.1.31

अस्मादेकाद्बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः ।
कृतागसं धर्महेतोस्त्यजन्ति सरीसृपं पापमिमं त्यज त्वम् ॥
गौतम्युवाय

13.1.32

नास्मिन्हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितं वै ।
गुणं चान्यं नास्य वधे प्रपश्ये तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥
लुब्धक उवाच ।

13.1.33

वृत्रं हत्वा देवराट् श्रेष्ठभाग्वै यज्ञं हत्वा भागमवाप चैव ।
शूली देवो देववृत्तं चर त्वं क्षिप्रं सर्पं जहि मा भूत्ते विशङ्का ॥
भीष्म उवाच ।

13.1.34

असकृत्प्रोच्यमानाऽपि गौतमी भुजगं प्रति ।
लुब्धकेन महाभागा सा पापे नाकरोन्मतिम् ॥

13.1.35

ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः ।
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥
सर्प उवाच ।

13.1.36

को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश ।
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ॥

13.1.37

तस्यायं वचनाद्दष्टो न कोपेन न काम्यया । तस्य तत्किल्बिषं लुब्ध विद्यते यदि किञ्चन ।
लुब्धक उवाच ।

13.1.38

यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् ।
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥

13.1.39

मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा ।
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥

13.1.40

किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग ।
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ॥
सर्प उवाच ।

13.1.41

सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा ।
तथाहमपि तस्मान्मे नैष दोषो मतस्तव ॥

13.1.42

अथवा मतमेतत्ते तेप्यन्योऽन्यप्रयोजकाः ।
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात् ॥

13.1.43

एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी ।
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥
लुब्धक उवाच ।

13.1.44

कारणं यदि स्याद्वै न कर्ता स्यास्त्वमप्युत ।
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥

13.1.45

असत्यपि कृते कार्ये नेह पन्नग लिप्यते ।
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥
सर्प उवाच ।

13.1.46

कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे ।
तस्मात्समेऽस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥

13.1.47

यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः ।
अन्यः प्रयोक्तास्यादत्र किन्नु जन्तुविनाशने ॥
लुब्धक उवाच ।

13.1.48

वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् ।
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥
सर्प उवाच ।

13.1.49

यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः ।
न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम् ॥
भीष्म उवाच ।

13.1.50

तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते ।
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥

13.1.51

प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम् ।
विनाशहेतुर्नास्य त्वमहं न प्राणिनः शिशोः ॥

13.1.52

यथा वायुर्जलधरान्विकर्षति ततस्ततः ।
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥

13.1.53

सात्विका राजसाश्चैव तामसा ये च केचन ।
भावाः कालात्मकाः सर्वे प्रवर्तन्तेह जन्तुषु ॥

13.1.54

जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि ।
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥

13.1.55

प्रवृत्तयश्च लोके या तथैव च निवृत्तयः ।
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥

13.1.56

आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः ।
अग्निः खं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः ॥

13.1.57

सरितः सागराश्चैव भावाभावौ च पन्नग ।
सर्वे कालेन सृज्यन्ते ह्रियन्ते च पुनःपुनः ॥

13.1.58

एवं ज्ञात्वा कथं मां सदोषं सर्प मन्यसे ।
अथ चैवं गते दोषे मयि त्वमपि दोषवान् ॥
सर्प उवाच ।

13.1.59

निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम् ।
त्वयाऽहं चोदित इति ब्रवीम्येतावदेव तु ॥

13.1.60

यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते ।
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥

13.1.61

निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा ।
मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम् ॥
भीष्म उवाच ।

13.1.62

सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् । नानागसं मां पाशेन सन्तापयितुमर्हसि ।
लुब्धक उवाच ।

13.1.63

मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम ।
नैव तावददोषत्वं भवति त्वयि पन्नग ॥

13.1.64

मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने ।
उभयं कारणं मन्ये न कारणमकारणम् ॥

13.1.65

धिङ्भृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् ।
त्वां चैवाहं वधिष्यामि परपापस्य कारणम् ॥
मृत्युरुवाच ।

13.1.66

विवशौ कालवशगावावां निर्दिष्टकारिणौ ।
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥
लुब्धक उवाच ।

13.1.67

युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ ।
हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम् ॥
मृत्युरुवाच ।

13.1.68

या काचिदेव चेष्टा स्यान्सर्वा कालप्रचोदिता ।
पूर्वमेवैतदुक्तं हि मया लुब्धक तत्वतः ॥

13.1.69

तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ ।
नावां दोपेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥
भीष्म उवाच ।

13.1.70

अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये ।
अब्रवीत्पन्नगं मृत्युं लुब्धं चार्जुनकं तथा ॥

13.1.71

न ह्यहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः ।
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥

13.1.72

अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् ।
विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥

13.1.73

यदनेन कृतं कर्म तेनायं निधनं गतः ।
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥

13.1.74

कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः ।
कर्माणि चोदयन्तीह यथान्योन्यं तथावयम् ॥

13.1.75

यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥

13.1.76

यथा च्छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् ।
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ॥

13.1.77

एवं नाहं न वै मृत्युर्न सर्पो न तथा भव न् ।
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥

13.1.78

तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप ।
स्वकर्मप्रत्ययाँल्लोकान्मत्वाऽर्जुनकमब्रवीत् ॥

13.1.79

नैव कालो न भुजगो न मृत्युरिह कारणम् ।
स्वकर्मभिरयं बालः कालेन निधं गतः ॥

13.1.80

मया च तत्कृतं कर्म येनायं मे मृतः सुतः ।
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥
भीष्म उवाच ।

13.1.81

ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः ।
अभूद्विशोकोऽर्जुनको विशोका चैव गौतमी ॥

13.1.82

एतच्छ्रुत्वा शमं गच्छ मा भूः शोकपरो नृप ।
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि समितिञ्जय ॥

13.1.83

नैव त्वया कृतं कर्म नापि दुर्योधनेन वै ।
कालेनैतत्कृतं विद्धि निहता येन पार्थिवाः ॥
वैशम्पायन उवाच ।

13.1.84

इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः ।
युधिष्ठरो महातेजाः पप्रच्छेदं च धर्मवित् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc