भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.87

12.87.1

राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव तु सन्ग्रहम् ।
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥
भीष्म उवाच ।

12.87.2

राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव तु सन्ग्रहम् ।
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ॥

12.87.3

ग्रामस्याधिपतिः कार्यो दशग्रामपतिस्तथा ।
विंशतित्रिंशतीशं च सहस्रस्य च कारयेत् ॥

12.87.4

ग्रामेयान्ग्रामदोषांश्च ग्रामिकः प्रतिभावेयेत् ।
तानाचक्षीत दशिने दशिको विंशिने पुनः ॥

12.87.5

विंशाधिपस्तु तत्सर्वं वृत्तं जानपदे जने ।
ग्रामाणां शतपालाय सर्वमेव निवेदयेत् ॥

12.87.6

यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्निया ।
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः ॥

12.87.7

ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कुरः । महान्तं भरतश्रेष्ठ सुस्फीतं जनसन्कुलम् ।
तत्र ह्यनेकपायत्तं राज्ञो भवति भारत ॥

12.87.8

शाखानगरमर्हस्तु सहस्रपतिरुत्तमः ।
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रीयसन्गतः ॥

12.87.9

तेषां सन्ग्रामकृत्यं स्याद्वामकृत्यं च तेषु यत् ।
धर्मज्ञः सचिवः कश्चित्तत्तत्पश्येदतन्द्रितः ॥

12.87.10

नगरेनगरे वा स्यादेकः सर्वार्थचिन्तकः ।
उच्चैः स्थाने घोररूपो नक्षत्राणामिव ग्रहः ॥

12.87.11

भवेत्स तान्परिक्रामेत्सर्वानेव सभासदः ।
तेषां वृत्तिं परिणयेत्कश्चिद्राष्ट्रेषु तच्चरः ॥

12.87.12

जिघांसवः पापकामाः परस्वादायिनः शठाः ।
रक्षाभ्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः ॥

12.87.13

विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम् ।
योगक्षेमं च सम्प्रेक्ष्य वणिजां कारयेत्करान् ॥

12.87.14

उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत् ।
शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत् ॥

12.87.15

उच्चावचकरन्यायाः पूर्वराज्ञां युधिष्ठिर ।
यथायथा न सीदेरंस्तथा कुर्यान्महीपतिः ॥

12.87.16

फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत् ।
फलं कर्म च निर्हेतु न कश्चित्सम्प्रवर्तते ॥

12.87.17

यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ ।
संवेक्ष्य तु तथा राज्ञा प्रणेयाः सततं कराः ॥

12.87.18

नोच्छिद्याहात्मनो मूलं परेषां चापि तृष्णया ।
ईहाद्वाराणि संरुध्य राजा संवृतदर्शनः ॥

12.87.19

प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् ।
प्रद्विष्टस्य कुतः श्रेयो संवृतो लभते श्रियम् ॥

12.87.20

वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना ।
भृतो वत्सो जातबलः षीडां सहति भारत ॥

12.87.21

न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर ।
राष्ट्रमप्यातिदुग्धं हि न कर्म कुरुते महत् ॥

12.87.22

यो राष्ट्रमनुगृह्णाति परिरक्षन्स्वयं नृपः ।
सञ्जातमुपजीवन्स लभते सुमहत्फलम् ॥

12.87.23

आपदर्थं च निचयात्राजानो हि चिचिन्वते ।
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा ॥

12.87.24

पौरजानपदान्सर्वान्संश्रितोषाश्रितांस्तथा ।
यथाशक्त्यनुकम्पेत सर्वान्स्वल्पधनानपि ॥

12.87.25

बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् ।
एवं नास्य प्रकुप्यन्ति जनाः सुखितदुः खिताः ॥

12.87.26

प्रामेव तु धनादानमनुभाष्य ततः पुनः ।
सन्निपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् ॥

12.87.27

इयमापत्समुत्पन्ना परचक्रभयं महत् ।
अपि चान्ताय कल्पन्ते वेणोरिव फलागमाः ॥

12.87.28

अरयो मे समुत्थाय बहुभिर्दस्युभिः सह । इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम् ।

12.87.29

अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये ।
परित्राणाय भवतः प्रार्थयिष्ये धनानि वः ॥

12.87.30

प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये ।
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः ॥

12.87.31

कलत्रमादितः कृत्वा सर्वं वो विनशेदिति ।
शरीरपुत्रदारार्थमर्थसञ्चय इष्यते ॥

12.87.32

नन्दामि वः प्रभावेण पुत्राणामिव चोदये ।
यखाशक्त्युपगृह्णामि राष्ट्रस्यापीडया च वः ॥

12.87.33

आपत्स्वेव निवोढव्यं भवद्भिः सन्गतैरिह ।
न वः प्रियतरं कार्यं धनं कस्याञ्चिदापदि ॥

12.87.34

इति वाचा मधुरया श्लक्ष्णया सोपचारया ।
स्वरश्मीनभ्यवसृजेद्योगमाधाय कालवित् ॥

12.87.35

प्रचारं भृत्यभरणं व्ययं सन्ग्रामतो भयम् ।
योगक्षेणं च सम्प्रेक्ष्य गोमिनः कारयेत्करम् ॥

12.87.36

उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः ।
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् ॥

12.87.37

सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः ।
गोमिनां पार्थ कर्तव्यः संविभागः प्रियाणि च ॥

12.87.38

अजस्रमुपयोक्तव्यं फलं गोमिषु भारत ।
प्रभावयन्ति राष्ट्रं च व्यवहारं कृषिं तथा ॥

12.87.39

तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः ।
दयावानप्रमत्तश्च करान्सम्प्रणयन्मृदून् ॥

12.87.40

सर्वत्र क्षेमचरणं सुलभं नाम गोमिषु ।
न ह्यतः सदृशं किञ्चिद्धनमस्ति युधिष्ठिर ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc