भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.79

12.79.1

क्व समर्थाः कथंशीला ऋत्विजः स्युः पितामह ।
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ॥
भीष्म उवाच ।

12.79.2

प्रतिकर्मपरा राजन्वृत्तिरस्य विधीयते ।
छन्दः सामादि विज्ञाय द्विजानां श्रुतमेवच ॥

12.79.3

ये त्वेकरतयो नित्यं धीराश्च प्रियवादिनः ।
परस्परस्य सुहृदः समन्तात्समदर्शिनः ॥

12.79.4

आनृशंस्यं सत्यवाक्यमहिंसा दम आर्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥

12.79.5

यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते । धीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः ।
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ॥

12.79.6

अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति ।
एते महर्त्विजस्तात सर्वे मान्या यथार्हतः ॥
युधिष्ठिर उवाच ।

12.79.7

यदिदं वेदवचनं दक्षिणासु विधीयते ।
इदं देयमिदं देयं न क्वचिव्द्यवतिष्ठते ॥

12.79.8

देयं प्रतिधनं शास्त्रमापद्धर्मा न शास्त्रतः ।
आज्ञा शास्त्रस्य घोरे यं न शक्तिं समवेक्षते ॥

12.79.9

श्रद्धामालम्ब्य यष्टव्यमित्येषा वैदिकी श्रुतिः ।
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ॥
भीष्म उवाच ।

12.79.10

न वेदानां परिभवान्न शाठ्येन न मायया ।
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ॥

12.79.11

यज्ञाङ्गं दक्षिणा तात मन्त्राणां परिबृंहणम् ।
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथञ्चन ॥

12.79.12

शक्तिस्तु पूर्णपात्रेण सम्मिता नावमा भवेत् ।
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्थथाबलम् ॥

12.79.13

सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः ।
तं च विक्रेतुमिच्छन्ति न तथा वृत्तिरिष्यते ॥

12.79.14

तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ।
इत्येवं धर्ममाख्यातमृषिभिर्धर्मकोविदैः ॥

12.79.15

पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत् ।
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ॥

12.79.16

शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः ।
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ॥

12.79.17

तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः ।
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ॥

12.79.18

अहिंसा सत्यवचनमानृशंस्यं दमो घृणा ।
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ॥

12.79.19

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ॥

12.79.20

निबोध दशहोतॄणां विधानं पार्थ यादृशम् । चित्तिः स्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ।
न शाठ्यं न च जिह्यत्वं कालो देशश्च ते दश ॥

12.79.21

सर्वं दिह्नं मृत्युपदमार्जवं ब्रह्मणः पदम् ।
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc