भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.74

12.74.1

ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह ।
पुरोहितप्रभावश्च लक्षणं च पुरोधसः ॥

12.74.2

इदानीं श्रोतुमिच्छामि ब्रह्मक्षत्रविनिर्णयम् । ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम् ।
योगक्षेमो हि राष्ट्रस्य ताभ्यामायत्त एव च ॥
भीष्म उवाच ।

12.74.3

योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते ।
योगक्षेमो हि राज्ञो हि समायत्तः पुरोहिते ॥

12.74.4

यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत ।
दृष्टं च राजा बाहुभ्यां तद्राज्यं सुखमेधते ॥

12.74.5

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ॥

12.74.6

मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः ।
जिज्ञासमानः स बलमभ्ययादलकाधिपम् ॥

12.74.7

ततो वैश्रवणो राजा राक्षसानसृजत्तदा ।
ते बलान्यवमृद्गन्त मुचुकुन्दस्य नैरृताः ॥

12.74.8

स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः ।
गर्हयामास विद्वांसं पुरोहितमरिन्दमः ॥

12.74.9

तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः ।
रक्षांस्युपावधीत्तत्र पन्थानं चाप्यविन्दत ॥

12.74.10

ततो वैश्रवणो राजा मुचुकुन्दमगर्हयत् ।
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ॥
धनद उवाच ।

12.74.11

बलवन्तस्त्वया पूर्वे राजानः सपुरोहिताः ।
न चैवं समवर्तन्त यथा त्वमिव वर्तसे ॥

12.74.12

ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः ।
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ॥

12.74.13

यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि ।
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ॥

12.74.14

मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् ।
न्यायपूर्वमसंलब्धमसम्भ्रान्तमिदं वचः ॥

12.74.15

ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा ।
पृथग्बलविधानं च तल्लोकं परिपालयेत् ॥

12.74.16

तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् ।
अस्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ॥

12.74.17

ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम् ।
तथा च मां प्रवर्तन्तं किं गर्हस्यलकाधिप ॥

12.74.18

ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् ।
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ॥

12.74.19

नाच्छिन्दे वाऽप्यनिर्दिष्टमिति जानीहि पार्थिव । प्रशाधि पृथिवीं कृत्स्नां मद्दत्तामखिलामिमाम् ।
[एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः ॥ ]

12.74.20

नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव ।
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ॥
भीष्म उवाच ।

12.74.21

ततो वैश्रवणो राजा विस्मयं परमं ययौ ।
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमरिन्दमम् ॥

12.74.22

ततो राजा मुचुकुन्दः सोन्वशासद्वसुन्धराम् ।
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥

12.74.23

एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते ।
स भुङ्क्ते विजितामुवीं यशश्च महदश्नुते ॥

12.74.24

नित्योदकी ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः ।
तयोर्हि सर्वमायत्तं यत्किञ्चिज्जगतीगतम् ॥

12.74.25

यशश्च तेजश्व महीं च कृत्स्नां प्राप्नोति राजन्विपुलां च कीर्तिम् ।
प्रधानधर्मं नृपते नियच्छ तथा च धर्मस्य चतुर्थमंशम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc