महाभारत · अध्याय 12.68
पार्थिवेन विशेषेण किं कार्यमवशिष्यते ।
कथं रक्ष्यो जनपदः कथं वध्याश्च शत्रवः ॥
कथं चारान्प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् ।
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ॥
भीष्म उवाच ।
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् ।
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ॥
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।
अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥
एतावानात्मविजयः पञ्चवर्गविनिग्रहः ।
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयाद्रिपुन् ॥
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन ।
नगरोपवने चैव पुरोद्याने तथैव च ॥
संस्थानेषु च सर्वेषु पुटेषु नगरस्य च ।
मध्ये च नरशार्दूल तथा राजनिवेशने ॥
प्रणिर्धीश्च ततः कुर्याज्जडान्धबधिराकृतीन् ।
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासाश्रमक्षमान् ॥
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च ।
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ॥
पुरे जनपदे चैव तथा सामन्तराजसु ।
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ॥
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ ।
आपणेषु विहारेषु समवायेषु वीथिषु ॥
आरामेषु तथोद्याने पण्डितानां समागमे ।
वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥
एवं विहन्याच्चारेण परचारं विचक्षणः ।
चारे च विहते सर्वं हतं भवति भारत ॥
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना ।
अमात्यैः सह सम्मन्त्र्य कुर्यात्सन्धिं बलीयसा ॥
विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः ।
दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते ॥
प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रस्य तत्ववित् । पश्चात्पृच्छेत भूपालः क्षत्रियं नीतिकोविदम् ।
वैश्यशूद्रौ तथा भूयः शास्त्रज्ञौ हितकारिणौ ॥
अज्ञायमाने हीनत्वे सन्धिं कुर्यात्परेण वै ।
लिप्सुर्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः ॥
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये ।
सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः ।
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ॥
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः ।
न शक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ॥
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् ।
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥
यात्रामाज्ञापयेद्वीरः कल्यः पुष्टबलः सुखी ।
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥
न च पश्यो भवेदस्य नृपो यश्चातिवीर्यवान् ।
हीनश्च बलवीर्याभ्यां कर्षयंस्तत्परो वसेत् ॥
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्च्छनैः ।
अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ॥
वर्जनीयं सदा युद्धं राज्यकामेन धीमता ।
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः ॥
सान्त्वेन तु प्रदानेन भेदेन च नराधिप ।
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येत पण्डितः ॥
आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन ।
षङ्भागममितप्रज्ञस्तासामेवाभिगुप्तये ॥
दशाधर्मगतेभ्यो यद्वसु बह्वल्पमेव वा ।
तन्नाददीत सहसा पौराणां रक्षणाय वै ॥
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः ।
भक्तिश्चैषु न कर्तव्या व्यवहारप्रदर्शने ॥
श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः ।
व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम् ॥
आकरे लवणे शुल्के तरे नागबले तथा ।
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् ।
नृपस्य सततं दण्डः सम्यग्धर्मः प्रशस्यते ॥
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् ।
दानशीलश्च सततं यज्ञशीलश्च भारत ॥
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः ।
व्यवहारस्य लोपेन कुतः स्वर्गः कुतो यशः ॥
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा ।
[तदाभिसंश्रयेद्दुर्गं बुद्धिमान्पृथिवीपतिः ॥
विधावाक्रम्य मित्राणि विधानमुपकल्पयेत् । सामभेदान्विरोधार्थं विधानमुपकल्पयेत् ॥ ]
त्रिधा तु कृत्वा मित्राणि विधानमुपकल्पयेत् । घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि ।
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ॥
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् ।
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥
सस्याभिहारं कुर्वीत स्वयमेव नराधिपः ।
असम्भवे प्रवेशस्य दाहयेदग्निना भृशम् ॥
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् ।
विनाशयेद्वा तत्सर्वं बलेनाथ स्वकेन वै ॥
नदीमार्गेषु च तथा सन्क्रमानवसादयेत् ।
जलं विस्रावयेत्सर्वमविस्राव्यं च दूषयेत् ॥
तदात्वेनायतीभिश्च निवसेद्भूम्यनन्तरम् ।
प्रतिघातं परस्याजौ युद्धकालेऽप्युपस्थिते ॥
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् ।
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ॥
प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत्तथा ।
चैत्यानां सर्वथा त्याज्यमपि पत्रस्य पातनम् ॥
देवानामाश्रयाश्चैत्या यक्षराक्षसभोगिनाम् । पिशाचपन्नगानां च गन्धर्वाप्सरसामपि ।
रौद्राणां चैव भूतानां तस्मात्तान्परिवर्जयेत् ॥
श्रूयते हि निकुम्भेन सौदासस्य बलं हतम् । महेश्वरगणेशेन वाराणस्यां नराधिप ॥
प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा ।
आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम् ॥
सङ्कटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च ।
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ॥
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा ।
आरापयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् ।
संशोधयेत्तथा कूपान्कृतान्पूर्वपयोर्थिभिः ॥
तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत् ।
निर्हरेच्च तृणं मासि चैत्रे वह्निभयात्पुरा ॥
नक्तमेव च भक्तानि पाचयेत नराधिपः ।
न दिवा ज्वालयेदग्निं वर्जयित्वाऽग्निहोत्रिकम् ॥
यथासम्भवशैलानि चैष्टकानि च कारयेत् । मृण्मयानि च कुर्वीत ज्ञात्वा देशं बलाबलम् ॥
कर्मारारिष्टशालासु ज्वलेदग्निः सुरक्षितः ।
गृहाणि च प्रवेश्यान्तर्विधेयः स्याद्धुताशनः ॥
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् ।
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य च ॥
भिक्षुकांश्चाक्रिकांश्चैव क्लीबोन्मत्तान्कुशीलवान् ।
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि ते शठाः ॥
चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च ।
यथार्थवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ॥
विशालान्राजमार्गांश्च कारयेत नराधिपः ।
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ॥
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः ।
अश्वागारान्गजागारान्बलाधिकरणानि च ॥
परिखाश्चैव कौरव्य प्रतोलीसङ्कटानि च ।
न जातु कश्चित्पश्येत गुह्यमेतद्युधिष्ठिर ॥
अर्थसन्निचयं कुर्याद्राजा परबलार्दितः ।
तैलं मधु घृतं सस्यमौषधानि च सर्वशः ॥
अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम् ।
यवसेन्धनदिग्धानां कारयेत च सञ्चयान् ॥
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासचर्मणाम् ।
सञ्चयानेवमादीनां कारयेत नराधिपः ॥
औषधानि च सर्वाणि मूलानि च फलानि च ।
चतुर्विधांश्च वैद्यान्वै सन्गृह्णीयाद्विशेषठः ॥
नटांश्च नर्तकांश्चैव मल्लान्मायाविनस्तथा ।
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ॥
यतः शङ्का भवेच्चापि भृत्यतोऽथापि मन्त्रितः ।
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ॥
कृते कर्माणि राजा तान्पूजयेद्धनसञ्चयैः ।
माननेन यथार्हेण सान्त्वेन विविधेन च ॥
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन ।
गतानृण्यो भवेद्राजा यथा शास्त्रे निदर्शितम् ॥
राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे ।
आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि ॥
तथा जनपदाश्चैव पुरं च कुरुनन्दन ।
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥
षाङ्गुण्यं च त्रिवर्गं च त्रिवर्गपरमं तथा ।
यो वेत्ति पुरुषव्याघ्र स भुङ्क्ते पृथिवीमिमाम् ॥
षाङ्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर ।
सन्धायासनमित्येव यात्रासन्धानमेव च ॥
विगृह्यासनमित्येव यात्रां सम्परिगृह्य च ।
द्वैधीभावस्तथाऽन्येषां संश्रयोऽथ परस्य च ॥
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु ।
क्षयः स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा ॥
धर्मश्चार्थश्च कामश्च त्रिवर्गो वै सनातनः । मन्त्रश्चैव प्रभावश्च उत्साहश्चैव तान्त्रिकः ।
शक्तित्रयं समाख्यातं त्रिवर्गस्य च तत्परम् ॥
कार्यं च कारणं चैव कर्ता च परिकीर्तितः । एतत्परतरं विद्यान्त्रिवर्गादपि भारत ।
सर्वेपां च क्षये राजन्यस्त्रिवर्गः सनातनः ॥
सत्वं रजस्तमश्चैव त्रिवर्गकरणं स्मृतम् ।
तेनात्यन्तविमुक्तश्च मुक्तः पुरुष उच्यते ॥
कार्यस्य सर्वथा नाशो मोक्ष इत्यभिधीयते । तेन मोक्षपरश्चैव देवदेवः पितामहः ।
तुष्ट्यर्थस्य त्रिवर्गस्य रक्षामाह पितामहः ॥
जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता । धर्मोऽर्थश्चैव कामश्च सेवितव्याः स्वकालतः ॥
सेवा धर्मस्य कर्तव्या सततं भूरिवत्सरैः । पुरुषैर्नरशार्दूल तन्मूलाः सर्वथा क्रियाः ॥
धर्मेण च महीपालश्चिरं रक्षति मेदिनीम् । यः कश्चिद्धार्मिको राजा स विपन्नोऽपि भूपतिः ।
अर्थकामविहीनोऽपि चिरं पालयते महीम् ॥
अस्मिन्नर्थे हि द्वौ श्लोकौ गीतावङ्गिरसा स्वयम् ।
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ॥
कृत्वा कार्याणि धर्मेण सम्यक्सम्पाल्य मेदिनीम् ।
पालयित्वा तथा पौरान्परत्र सुखमेधते ॥
किं तस्य तपसा राज्ञः किञ्च तस्याध्वरैः कृतैः ।
सुपालिताः प्रजा यस्य सर्वधर्मकृदेव सः ॥
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर ।
दण्डनीतेश्च यन्मूलं त्रिवर्गस्य च भूपते ॥
भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद्बलम् ।
विषं माया च दैवं च पौरुषं चात्मसिद्धये ॥
प्रागुदक्प्रवणं दुर्गं समासाद्य महीपतिः ।
त्रिवर्गत्रयसम्पूर्णमुपादाय तमुद्वहेत् ॥
षट््पञ्च च विनिर्जित्य दश चाष्टौ च भूपतिः ।
त्रिवर्गैर्दशभिर्युक्तः सुरैरपि न जीर्यते ॥
न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च । दैवोपहतबुद्धीनां ये च वेदैर्विवर्जिताः ।
न तेषां शृणुयाद्राजा बुद्धिस्तेषां पराङ्भुखी ॥
स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च ।
मूर्खामात्याग्नितप्तानि शुष्यन्ते जलबिन्दुवत् ॥
विद्वांसः प्रथिता ये च ये चाप्ताः सर्वकर्मसु ।
बुद्धेषु दृष्टकर्माणि तेषां च शृणुयान्नृपः ॥
दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः । दैवतानि च विप्रांश्च प्रणम्य विजयी भवेत् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0