भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.63

12.63.1

चातुराश्रम्यधर्माश्च यतिधर्माश्च पाण्डव ।
लोकवेदोत्तराश्चैव क्षात्रधर्मे समाहिताः ॥

12.63.2

सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम ।
निराशिषो जीवलोकाः क्षत्रधर्मे व्यवस्थिते ॥

12.63.3

अप्रत्यक्षं बहुफलं धर्ममाश्रमवासिनाम् ।
प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ॥

12.63.4

अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चये ।
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ॥

12.63.5

प्रत्यक्षं फलभूयिष्ठमात्मसाक्षिकमच्छलम् ।
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् ॥

12.63.6

धर्माश्रमेऽध्यवसिनां ब्राह्मणानां युधिष्ठिर । यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा ।
राजधर्मेष्वनुमता लोकाः सुचरितैः सह ॥

12.63.7

उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् । सर्वभूतेश्वरं देवं ब्राह्मं नारायणं पुरा ।
जग्मुः सुबहुशः शूरा राजानो दण्डनीतये ॥

12.63.8

एकैकमात्मनः कर्म तुलयित्वाश्रमं पुरा ।
जानः पर्युपासन्त दृष्टान्तवचने स्थिताः ॥

12.63.9

साध्या देवा वसवश्चाश्विनौ च रुद्राश्च विश्वे मरुतां गणाश्च ।
सृष्टाः पुरा ह्यादिदेवेन देवाः क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ॥

12.63.10

अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चये ।
निर्मर्यादे वर्तमाने दानवैकार्णवे पुरा ॥

12.63.11

बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ।
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया ॥

12.63.12

अनादिमध्यनिधनं देवं नारायणं प्रभुम् ।
स राजा राजशार्दूल मान्धाता परमेश्वरम् ॥

12.63.13

जगाम शिरसा पादौ यज्ञे विष्णोर्महात्मनः ।
दर्शयामास तं विष्णू रूपमास्थाय वासवम् ॥

12.63.14

स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् । तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः ।
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युतिम् ॥
इन्द्र उवाच ।

12.63.15

किमिष्यसे धर्मभूतां वरिष्ठ यं द्रष्टुकामोऽसि तमप्रमेयम् ।
अनन्तमायामितमन्त्रवीर्यं नारायणं ह्यादिदेवं पुराणम् ॥

12.63.16

नासौ देवो विश्वरूपो मयाऽपि शक्यो द्रष्टुं ब्रह्मणा वाऽपि साक्षात्
येऽन्ये कामास्तव राजन्हृदिस्था दास्ये चैतांस्त्वं हि मर्त्येषु राजा ॥

12.63.17

सत्ये स्थितो धर्मपरो जितेन्द्रियः शूरो दृढप्रीतिरतः सुराणाम् ।
बुद्ध्या भक्त्या चोत्तमः श्रद्धया च ततस्तेऽहं दझि वरान्यथेष्टम् ॥
मान्धातोवाच ।

12.63.18

असंशयं भगवन्नादिदेवं वक्ष्यामि त्वाऽहं शिरसा सम्प्रसाद्य ।
त्यक्त्वा कामान्धर्मकामो ह्यरण्य मिच्छे गन्तुं सत्पथं साधुजुष्टम् ॥

12.63.19

क्षात्राद्धर्माद्विपुलादप्रमेया श्लोकाः प्राप्ताः स्थापितं स्वं यशश्च ।
धर्मो योऽसावादिदेवात्प्रवृत्तो लोकश्रेष्ठं तं न जानामि कर्तुम् ॥
इन्द्र उवाच ।

12.63.20

असैनिका धर्मपराश्च धर्मे परां गतिं न नयन्ते ह्ययुक्तम् ।
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः ॥

12.63.21

शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः सप्रस्थानाः क्षात्रधर्मा विशिष्टाः ।
अस्मिन्धर्मे सर्वधर्माः प्रविष्टाः क्षात्रं धर्मं श्रेष्ठतमं वदन्ति ॥

12.63.22

कर्मणा वै पुरा देवा ऋषयश्चामितौजसः ।
त्राताः सर्वे प्रसह्यारीन्क्षत्रधर्मेण विष्णुना ॥

12.63.23

यदि ह्यसौ भगवन्नाहनिष्य द्रिपू सर्वानसुरानप्रमेयः ।
न च ब्रह्मा नैव लोकादिकर्ता सन्तो धर्माश्चादिधर्माश्च न स्युः ॥

12.63.24

इमामुर्वी नाजयद्विक्रमेण देवश्रेष्ठः सासुरामादिदेवः ।
चातुर्वर्ण्यं चातुराश्रम्यधर्माः सर्वे न स्युर्ब्राह्मणानां विनाशात् ॥

12.63.25

नष्टा धर्माः शतधा शाश्वतास्ते क्षात्रेण धर्मेण पुनः प्रवृद्धाः ।
युगेयुगे ह्यादिधर्माः प्रवृत्ता लोकज्येष्ठं क्षात्रधर्मं वदन्ति ॥

12.63.26

आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं पालनं मोक्षणं च ।
विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम् ॥

12.63.27

निर्मर्यादाः काममन्युप्रवृत्ता भीता राज्ञो नाधिगच्छन्ति पापम् ।
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः साध्वाचाराः साधुधर्मं वदन्ति ॥

12.63.28

पुत्रवत्पाल्यमानानि धर्मलिङ्गानि पार्थिवैः ।
लोके भूतानि सर्वाणि चरन्ते नात्र संशयः ॥

12.63.29

सर्वधर्मपरं क्षात्रं लोकश्रेष्ठं सनातनम् ।
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc