भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.58

12.58.1

ततः कल्यं समुत्थाय कृतपूर्वाह्णिकक्रियाः ।
ययुस्ते नगराकारैः रथैः पाण्डवयादवाः ॥

12.58.2

प्रतिपद्य कुरुक्षेत्रं भीष्ममासाद्य चानघम् ।
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् ॥

12.58.3

व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः ।
निषेदुरभितो भीष्मं परिवार्य समन्ततः ॥

12.58.4

ततो राजा महातेजा धर्मपुत्रो युधिष्ठिरः ।
अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्य यथाविधि ॥
युधिष्ठिर उवाच ।

12.58.5

य एष राजन्राजेति शब्दश्चरति भारत ।
कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह ॥

12.58.6

तुल्यपाणिभुजग्रीवस्तुल्यबुद्धीन्द्रियात्मकः ।
तुल्यदुःखसुखात्मा च तुल्यपृष्ठमुखोदरः ॥

12.58.7

तुल्यशुक्रास्थिमज्जा च तुल्यमांसासृगेव च ।
नेःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् ॥

12.58.8

समानजन्ममरणः समः सर्वैर्गुणैर्नृणाम् ।
विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति ॥

12.58.9

कथमेको महीं कृत्स्नां शूरवीरार्यसन्कुलम् ।
रक्षत्यपि च लोकस्य प्रसादमभिवाञ्छति ॥

12.58.10

एकस्य तु प्रसादेन कृत्स्नो लोकः प्रसीदति ।
व्याकुले चाकुलः सर्वो भवतीति विनिश्चयः ॥

12.58.11

एतदिच्छाम्यहं श्रोतुं त्वत्तो हि भरतर्षभ ।
कृत्स्नं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर ॥

12.58.12

नैतत्कारणमत्यल्पं भविष्यति विशाम्पते ।
यदेकस्मिञ्जगत्सर्वं देववद्याति सन्नतिम् ॥
भीष्म उवाच ।

12.58.13

नियतस्त्वं नरव्याघ्र शृणु सर्वमशेषतः ।
यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ॥

12.58.14

नैव राज्यं न राजाऽसीन्न च दण्डो न दाण्डिकः ।
धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम् ॥

12.58.15

पाल्यमानास्तथाऽन्योन्यं नरा धर्मेण भारत ।
दैन्यं परमुपाजग्मुस्ततस्तान्मोह आविशत् ॥

12.58.16

ते मोहवशमापन्ना मनुजा मनुजर्षभ ।
प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् ॥

12.58.17

नष्टायां प्रतिपत्तौ च मोहवश्या नरास्तदा ।
लोभस्य वशमापन्नाः सर्वे भरतसत्तम ॥

12.58.18

अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः ।
कामो नामापरस्तत्र प्रत्यपद्यत वै प्रभो ॥

12.58.19

तांस्तु कामवशं प्राप्तान्रागो नामाभिसंस्पृशत् ।
रक्ताश्च नाभ्यजानन्त कार्याकार्ये युधिष्ठिर ॥

12.58.20

अगम्यागमनं चैव वाच्यावाच्यं तथैव च ।
भक्ष्याभक्ष्यं चराजेन्द्र दोषादोषं च नात्यजन् ॥

12.58.21

विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह ।
नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत् ॥

12.58.22

नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् ।
ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः ॥

12.58.23

प्रपद्य भगवन्तं ते देवं लोकपितामहम् ।
ऊचुः प्राञ्जलयः सर्वे दुःखवेगसमाहताः ॥

12.58.24

भगवन्नरलोकस्थं ग्रस्तं ब्रह्म सनातनम् ।
लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् ॥

12.58.25

ब्रह्मणश्च प्रणाशेन धर्मो व्यनशदीश्चर ।
ततस्तु समतां याता मर्त्यैस्त्रिभुवनेश्वराः ॥

12.58.26

अधोर्भिवर्षास्तु वयं भौमास्तूर्ध्वप्रवर्षिणः ।
क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् ॥

12.58.27

अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह ।
त्वत्प्रसादात्समुत्थोसौ प्रभावो नो भवत्वयम् ॥

12.58.28

तानुवाच सुरान्सर्वान्स्वयम्भूर्भगवांस्ततः ।
श्रेयोऽहं चिन्तयिष्यामिव्येतु वो भीः सुरोत्तमाः ॥

12.58.29

ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् ।
यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः ॥

12.58.30

त्रिवर्ग इति विख्यातो गण एव स्वयम्भुवा ।
चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः ॥

12.58.31

मोक्षस्यास्ति त्रिवर्गोऽन्यः प्रोक्तः सत्वं रजस्तमः ।
स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥

12.58.32

आत्मादेशश्च कालश्चाप्युपायाः कृत्यमेव च ।
सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ॥

12.58.33

त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ ।
दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥

12.58.34

अमात्यलिप्सा प्रणिधी राजपुत्रस्य लक्षणम् ।
चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः ॥

12.58.35

सामभेदः प्रदानं च ततो दण्डश्च पार्थिव ।
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥

12.58.36

मन्त्रश्च वर्णितः कृत्स्नो मन्त्रभेदार्थ एव च ।
विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् ॥

12.58.37

सन्धिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः ।
भयसत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम् ॥

12.58.38

यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः ।
विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ॥

12.58.39

आसुरश्चैव विजयः कार्त्स्न्येन परिवर्णितः ।
लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ॥

12.58.40

प्रकाशश्चाप्रकाशश्च दण़्डोऽथ परिशब्दितः ।
प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः ॥

12.58.41

रथा नागा हयाश्चैव पादाताश्चैव पाण्डव । विष्टिर्नावश्चराश्चैव देशिका इति चाष्टमः ।
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु ॥

12.58.42

जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ।
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः ॥

12.58.43

क्रीडापूर्वे रणे द्यूते विस्रम्भणसमन्वितम् ।
उक्तं कैतव्यमित्येतदुपायो नवमो बुधैः ॥

12.58.44

उपेक्षा सर्वकार्येषु कर्मणां करणेषु च ।
अनिष्टानां समुत्थाने त्रिवर्गो नश्यते यया ॥

12.58.45

इन्द्रजालादिका माया वाजीवनकुशीलवैः ।
सुनिमित्तैदुर्निमित्तैरुत्पातैश्च समन्वितम् ॥

12.58.46

डम्भो लिङ्गं समाश्रित्य शत्रुवर्गे प्रयुज्यते । शाठ्यं निश्चेष्टता प्रोक्ता चित्तदोषप्रदूषिका ॥

12.58.47

अरिर्मित्र उदासीन इत्येतेऽप्यनुवर्णिताः । कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह ।
आत्मरक्षणमाश्वासः स्पर्शानां चान्ववेक्षणम् ॥

12.58.48

कल्पना विविधाश्चापि नृनागरथवाजिनाम् ।
व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् ॥

12.58.49

उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम् ।
शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ ॥

12.58.50

बलव्यसनयुक्तं च तथैव बलहर्षणम् ।
पीडा चापदकालश्च भयकालश्च पाण्डव ॥

12.58.51

तथाख्यातविधानं च योगः सञ्चार एव च ।
चोरैराटविकैश्चोग्रैः परराष्ट्रस्य पीडनम् ॥

12.58.52

अग्निदैर्गरदैश्चेव प्रतिरूपककारकैः ।
श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥

12.58.53

दूषणेन च नागानामातङ्कजननेन च ।
आराधनेन भक्तस्य पत्युश्चोपग्रहेण च ॥

12.58.54

सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमीक्षणम् ।
दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् ॥

12.58.55

अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् ।
अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ॥

12.58.56

व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् ।
श्रमो व्यायामयोगश्च योगद्रव्यस्य सञ्चयः ॥

12.58.57

अभृतानां च भरणं भृतानां चान्ववेक्षणम् ।
अन्तकाले प्रदानं च व्यसने चाप्रसङ्गिता ॥

12.58.58

तथा राजगुणाश्चैव सेनापतिगुणाश्च ह ।
करणस्य च कर्तुश्च गुणदोषास्तथैव च ॥

12.58.59

दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुवर्तिनाम् ।
शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ॥

12.58.60

अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् ।
प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा ॥

12.58.61

विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुकम् ।
चतुर्थं व्यसनाघाते तथैवात्रानुवर्णितम् ॥

12.58.62

क्रोधजानि ततोग्राणि कामजानि तथैव च ।
दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ॥

12.58.63

मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ ।
कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा ॥

12.58.64

वाक्पारुष्यं तथोग्रत्व दण्डपारुष्यमेव च ।
आत्मनो निग्रहस्त्यागो ह्यर्थदूषणमेव च ॥

12.58.65

यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः ।
अवमर्दः प्रतीघातः केतनानां च भञ्जनम् ॥

12.58.66

चैत्यद्रुमावमर्दश्च रोधः कर्मान्तनाशनम् ।
अपस्करोऽथ वमनं तथोपास्या च वर्णिता ॥

12.58.67

पणवानकशङ्खानां भेरीणां च युधिष्ठिर ।
उपार्जनं च द्रव्याणां परमर्म च तानि षट् ॥

12.58.68

लब्धस्य च प्रशमनं सतां चैवाभिपूजनम् ।
विद्वद्भिरेकीभावश्च जपहोमविधिज्ञता ॥

12.58.69

मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया ।
आहारयोजनं चैव नित्यमास्तिक्यमेव च ॥

12.58.70

एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः ।
उत्तमानां समाजानां क्रियाः केतनजास्तथा ॥

12.58.71

प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ ।
वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥

12.58.72

अदण्ड्यत्वं च विप्राणां युक्त्या दण़्डनिपातनम् ।
अनुजीवि स्वजातिभ्यो गुणेभ्यश्च समुद्भवः ॥

12.58.73

रक्षणं चैव पौराणां राष्ट्रस्य च विवर्धनम् ।
मण्डलस्था च या चिन्ता राजन्द्वादशराजिका ॥

12.58.74

द्विसप्ततिमतिश्चैव प्रोक्ता या च स्वयम्भुवा ।
देशजातिकुलानां च धर्माः समनुवर्णिताः ॥

12.58.75

धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णिताः ।
उपायाश्चार्थलिप्सा च विविधा भूरिदक्षिणः ॥

12.58.76

मूलकर्मक्रिया चात्र मायायोगश्च वर्णितः ।
दूषणं स्रोतसां चैव वर्णितं च स्थिराम्भसाम् ॥

12.58.77

यैर्यैरुपायैर्लोकस्तु न चलेदार्यवर्त्मनः ।
तत्सर्वं राजशार्दूल नीतिशास्त्रेऽभिवर्णितम् ॥

12.58.78

एतत्कृत्वा सुभं शास्त्रं ततः स भगवान्प्रभुः ।
देवानुवाच संहृष्टः सर्वाञ्छक्रपुरोगमान् ॥

12.58.79

उपकाराय लोकस्य त्रिवर्गस्थापनाय च ।
नवनीतं सरस्वत्या बुद्धिरेषा प्रभाषिता ॥

12.58.80

दण्डेन सहिता ह्येषा लोकरक्षणकारिका ।
निग्रहानुग्रहरता लोकाननुचरिष्यति ॥

12.58.81

दण्डेन नीयते चेदं दण्डं नयति वा पुनः ।
दण्डनीतिरितिख्याता त्रीँल्लोकानवपत्स्यते ॥

12.58.82

पाङ्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु ।
धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः ॥
भीष्म उवाच ।

12.58.83

ततस्तां भगवान्नीतिं पूर्वं जग्राह शन्करः ।
बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ॥

12.58.84

अनादिनिधनो देवश्चैतन्यादिसमन्वितः ।
ज्ञानानि च वशे यस्य तारकादीन्यशेषतः ॥

12.58.85

अणिमादिगुणोपेतमैश्वर्यं न च कृत्रिमम् ।
तुष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः ॥

12.58.86

अरुदत्सस्वनं घोरं जगतः प्रभुरव्ययः ।
जायमानः पिता पुत्रे पुत्रः पितरि चैव हि ॥

12.58.87

बुद्धिं विश्वसृजे दत्त्वा ब्रह्माण्डं येन निर्मितम् ।
यस्मिन्हिरण्मयो हंसः शकुनिः समपद्यत ॥

12.58.88

कर्ता सर्वस्य लोकस्य ब्रह्मा लोकपितामहः । स देवः सर्वभूतानां महादेवः सनातनः ।
असंख्यातसहस्राणां रुद्राणां स्थानमव्ययम् ॥

12.58.89

युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः ।
सञ्चिक्षेप ततः शास्त्रं महास्त्रं ब्रह्मणा कृतम् ॥

12.58.90

वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत ।
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ॥

12.58.91

मघवानपि तच्छास्त्रं देवात्प्राप्य महेश्वरात् ।
प्रजानां हितमन्विच्छन्सञ्चिक्षेप पुरन्दरः ॥

12.58.92

सहस्त्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् । अध्यायानां सहस्त्रैस्तु त्रिभिरेव बृहस्पतिः ।
सञ्चिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं यदुच्यते ॥

12.58.93

अध्यायानां सहस्रेण काव्यः सन्क्षेपमब्रवीत् ।
तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः ॥

12.58.94

एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः ।
सन्क्षिप्तमायुर्विज्ञाय लोकानां ह्रासि पाण्डव ॥

12.58.95

अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् ।
एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्य वै तं समादिश ॥

12.58.96

ततः सञ्चिन्त्य भगवान्देवो नारायणः प्रभुः ।
तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् ॥

12.58.97

विरजास्तु महाभागः प्रभुत्वं भुवि नैच्छत ।
न्यासायैवाभवद्वुद्धिः प्रणीता तस्य पाण्डव ॥

12.58.98

कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि मर्त्याधिकोऽभवत् ।
कर्दमस्तस्य तु सुतः सोऽप्यतप्यन्महत्तपः ॥

12.58.99

प्रजापतेः कर्दमस्य त्वनङ्गो नाम वीर्यवान् ।
प्रजा रक्षयिता साधुर्दण्डनीतिविशारदः ॥

12.58.100

अनङ्गपुत्रोऽतिबलो नीतिमानभिगम्य वै ।
प्रतिपेदे महाराज्यमथेन्द्रियवशोऽभवत् ॥

12.58.101

प्राप्य नारीं महाभागां रूपिणीं काममोहितः ।
सौभाग्येन च सम्पन्नां गुणैश्चानुत्तमां सतीम् ॥

12.58.102

मृत्योस्तु दुहिता राजन्सुनीथा नाम नामतः ।
प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत् ॥

12.58.103

तं प्रजासु विधर्माणं रागद्वेषवशानुगम् ।
मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः ॥

12.58.104

ममन्थुर्दक्षिणं चोरुमृषयस्तस्य भारत ।
ततोऽस्य विकृतो जज्ञे ह्रस्वकः पुरुषोऽशुचिः ॥

12.58.105

दग्धस्थूणाप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः ।
निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः ॥

12.58.106

तस्मान्निषादाः सम्भूताः क्रूराः शैलवनाश्रयाः ।
ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः ॥

12.58.107

भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः ।
ततः पुरुष उत्पन्नो रुपेणेन्द्र इवापरः ॥

12.58.108

कवची बद्धनिस्त्रिंशः सशरः सशरासनः ।
वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः ॥

12.58.109

तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् ।
ततस्तु प्राञ्जलिर्वैन्यो महर्षीस्तानुवाच ह ॥

12.58.110

सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धरर्मार्थदर्शिनी ।
अनया किं मया कार्यं तन्मे तत्त्वेन शंसत ॥

12.58.111

यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् ।
तदहं वः करिष्यामि नात्र कार्या विचारणा ॥

12.58.112

तमूचुस्तत्र देवास्ते ते चैव परमर्षयः ।
नियतो यत्र धर्मो वै तमशङ्कः समाचर ॥

12.58.113

प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु ।
कामं क्रोधं च लोभं च मानं चोत्सृज्य दूरतः ॥

12.58.114

यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः ।
निग्राह्यस्ते स्वबाहुभ्यां शश्वद्धर्ममवेक्षता ॥

12.58.115

प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा ।
पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ॥

12.58.116

यश्चात्र धर्म इत्युक्तो दण्डनीतिव्यपाश्रयः ।
तमशङ्कः करिष्यामि स्ववशो न कदाचन ॥

12.58.117

अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो ।
लोकं च सन्करात्कृत्स्नं त्राताऽस्मीति परन्तप ॥

12.58.118

वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् ।
ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः ॥

12.58.119

एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः ।
पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः ॥

12.58.120

मन्त्रिणो वालखिल्याश्च सारस्वत्यो गणस्तथा ।
महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् ॥

12.58.121

आत्मनाऽष्टम इत्येव श्रुतिरेषां परा नृषु ।
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ॥

12.58.122

तयो प्रीतो ददौ राजा पृथुर्वैन्यः प्रतापवान् ।
अनूपदेशं सूताय मगधं मागधाय च ॥

12.58.123

समतां वसुधायाश्च स सम्यगुदपादयत् ।
वैषम्यं हि परं भूमेरिति नः परमा श्रुतिः ॥

12.58.124

मन्वन्तरेषु सर्वेषु विषमा जायते मही ।
उज्जहार ततो वैन्यः शिलाजालान्समन्ततः ॥

12.58.125

धनुष्कोट्या महाराज तेन शैला विमर्दिताः । स विष्णुना च देवेन शक्रेण विबुधैः सह ।
ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः ॥

12.58.126

तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण़्डव ।
सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः ॥

12.58.127

शक्रश्च धनमक्षय्यं प्रादात्तस्मै युधिष्ठिर ।
रुक्मं चापि महामेरुः स्वयं कनकपर्वतः ॥

12.58.128

यक्षराक्षसभर्ता च भगवान्नरवाहनः ।
धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् ॥

12.58.129

हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा ।
प्रादुर्बभूवुर्वैन्यस्य चिन्तयानस्य पाण्डव ॥

12.58.130

न जरा न च दुर्भिक्षं नाधयो व्याधयः कुतः । सरीसृपेभ्यः स्तेनेभ्यो न चान्येभ्यः कदाचन ।
भयमासीत्ततस्तस्य पृथिवी सस्यमालिनी ॥

12.58.131

आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥

12.58.132

तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च ।
यक्षराक्षसनागानामीप्सितं यस्य यस्य यत् ॥

12.58.133

तेन धर्मोत्तरश्चायं कृतो लोको महात्मना ।
रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते ॥

12.58.134

ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते ।
प्रथिता धर्मतश्चेयं पृथिवी साधुभिः स्मृता ॥

12.58.135

स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः ।
नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति भारत ॥

12.58.136

ततः स भगवान्विष्णुराविवेश च पार्थिवम् ।
देववन्नरदेवानां नमतीदं जगत्ततः ॥

12.58.137

दण्डनीत्या च सततं रक्षितारं नरेश्वरम् ।
नाधर्षयेत्तथा कश्चिच्चारनिष्पन्ददर्शनात् ॥

12.58.138

शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते ।
आत्मना करणैश्चैव समस्येह महीक्षितः ॥

12.58.139

को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् ॥

12.58.140

विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा ।
श्रीः सम्भूता ततस्तस्मिन्देवी धर्मस्य पाण्डव ॥

12.58.141

श्रियः सकाशादर्थश्च जातो धर्मस्य पाण्डव ।
अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता ॥

12.58.142

सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् ।
पार्थिवो जायते तात दण्डनीतिविशारदः ॥

12.58.143

माहात्म्येन च संयुक्तो वैष्णवेन नरो भुवि ।
बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति ॥

12.58.144

स्थापितं च ततो देवैर्न कश्चिदतिवर्तते ।
तिष्ठत्येकस्य च वशे तं चैवानुविधीयते ॥

12.58.145

शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते ।
तुल्यस्यैकस्य येनायं लोको वचसि तिष्ठति ॥

12.58.146

योऽस्य वै मुखमद्राक्षीत्सोऽस्य सर्वो वशानुगः ।
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति ॥

12.58.147

महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा ।
नयश्चारश्च विपुलो येन सर्वमिदं ततम् ॥

12.58.148

आगमश्च पुराणानां महर्षीणां च सम्भवः ।
तीर्थवंशश्च वंशश्च क्षत्रियाणां युधिष्ठिर ॥

12.58.149

सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च ।
चातुर्वर्ण्यं तथैवात्र चातुर्विद्यं च कीर्तिम् ॥

12.58.150

इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः ।
तपो ज्ञानमर्हिसा च सत्यं दानममत्सरः ॥

12.58.151

वृद्धोपसेवा दानं च शौचमुत्थानमेव च ।
सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् ॥

12.58.152

भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् ।
तस्मिन्पैतामहे शास्त्रे पाण्डवेय न संशयः ॥

12.58.153

ततो जगति राजेन्द्र सततं शब्दितं बुधैः ।
देवाश्च नरदेवाश्च तुल्या इति विशाम्पते ॥

12.58.154

एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु ।
कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc