भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.54

12.54.1

अथाव्रवीन्महातेजा वाक्यं कौरवनन्दनः ।
हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्भनसी मम ॥

12.54.2

तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः । युधिष्ठिरस्तु धर्मात्मा मां धर्माननुपृच्छतु ।
एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चाखिलान् ॥

12.54.3

यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि ।
अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः ॥

12.54.4

सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् ।
यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः ॥

12.54.5

धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा ।
यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः ॥

12.54.6

सम्बन्धिनोऽतिथीन्भृत्यान्संश्रितांश्चैव यो भृशम् ।
सम्मानयति सत्कृत्य स मां पृच्छतु पाण़्डवः ॥

12.54.7

सत्यं दानं तपः शौर्यं शान्तिर्दाक्ष्यमसम्भ्रमः ।
यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः ॥

12.54.8

यो न कामान्न संरम्भान्न भयान्नार्थकारणात् ।
कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः ॥

12.54.9

सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः ।
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः ॥

12.54.10

इज्याध्ययननित्यश्च धर्मे च निरतः सदा ।
क्षान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः ॥
वासुदेव उवाच ।

12.54.11

लज्जया परयोपेतो धर्मराजो युधिष्ठिरः ।
अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥

12.54.12

लोकस्य कदनं कृत्वा लोकनाथो विशाम्पते ।
अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥

12.54.13

पूज्यान्मान्यांश्च भक्तांश्च गुरून्सम्बन्धिबान्धवान् ।
अर्घार्हानिषुभिर्भित्त्वा भवन्तं नोपसर्पति ॥
भीष्म उवाच ।

12.54.14

ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः ।
क्षत्रियाणां तथा कृष्ण समरे देहपातनम् ॥

12.54.15

पितॄन्पितामहान्भ्रातॄन्गुरून्सम्बन्धिबान्धवान् ।
मिथ्याप्रवृत्तान्यः सख्ये निहन्याद्धर्म एव सः ॥

12.54.16

समयत्यागिनो लुब्धान्गुरूनपि च केशव ।
निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित् ॥

12.54.17

यो लोभान्न समीक्षेत धर्मसेतुं सनातनम् ।
निहन्ति यस्तं समरे क्षत्रियो वै स धर्मवित् ॥

12.54.18

लोहितोदां केशतृणां गजशैलां ध्वजद्रुमाम् ।
महीं करोति युद्धेषु क्षत्रियो यः स धर्मवित् ॥

12.54.19

आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना ।
धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत् ॥
वैशम्पायन उवाच ।

12.54.20

एवमुक्तस्तु भीष्मेण धर्मपुत्रो युधिष्ठिरः ।
विनीतवदुपागम्य तस्थै सन्दर्शनेऽग्रतः ॥

12.54.21

अथास्य पादौ जग्राह भीष्मश्चापि ननन्द तम् ।
मूर्ध्निं चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा ॥

12.54.22

तमुवाचाथ गाङ्गेयो वृषभः सर्वधन्विनाम् ।
मां पृच्छ तात विस्रब्धं मा भैस्त्वं कुरुसत्तम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc