भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.51

12.51.1

ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् ।
श्रुत्वा शान्तनवः कृष्णं प्रत्युवाच कृताञ्जलिः ॥

12.51.2

लोकनाथ महाबाहो शिव नारायणाच्युत ।
तव वाक्यमुपश्रुत्य हर्षेणास्मि परिप्लुतः ॥

12.51.3

किञ्चाहमभिधास्यामि वाक्पते तव सन्निधौ ।
यदा वाचोगतं सर्वं तव वाचि समाहितम् ॥

12.51.4

यच्च किञ्चित्कृतं लोके कर्तव्यं क्रियते च यत् ।
त्वत्तस्तन्निः सृतं देव लोके बुद्धिमतो हिते ॥

12.51.5

कथयेद्देवलोकं यो देवराजसमीपतः ।
धर्मकामार्थमोक्षाणां सोऽर्थं ब्रूयात्तवाग्रतः ॥

12.51.6

शराभितापाद्व्यथितं मनो मे मधुसूदन ।
गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति ॥

12.51.7

न च मे प्रतिभा काचिदस्ति किञ्चित्प्रभाषितुम् ।
पीड्यमानस्य गोविन्द विपानलसमैः शरैः ॥

12.51.8

बलं मे प्रजहातीव प्राणाः सत्वरयन्ति च ।
मर्माणि परितप्यन्ति भ्रान्तचित्तस्तथा ह्यहम् ॥

12.51.9

दौर्बल्यात्सज्जते वाङ्भे स कथं वक्तुमुत्सहे ।
साधु मे त्वं प्रसीदस्व दाशार्हकुलवर्धन ॥

12.51.10

तत्क्षमस्व महाबाहो न ब्रूयां किञ्चिदच्युत ॥
त्वत्सन्निधौ च सीदेद्धि वाचस्पतिरपि ब्रुवन् ॥

12.51.11

न दिशः सम्प्रजानामि नाकाशं न च मेदिनीम् ।
केवलं तव वीर्येण तिष्ठामि मधुसूदन ॥

12.51.12

स्वयमेव भवांस्तस्माद्धर्मराजस्य यद्धितम् ।
तद्ब्रवीत्वाशु सर्वेषामागमानां त्वमागमः ॥

12.51.13

कथं त्वयि स्थिते कृष्णे शाश्वते लोककर्तरि ।
प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते ॥
वासुदेव उवाच ।

12.51.14

उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे ।
महावीर्ये महासत्वे स्थिरे सर्वार्थदर्शिनि ॥

12.51.15

यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति ।
गृहाणात्र वरं भीष्म मत्प्रसादकृतं प्रभो ॥

12.51.16

न ते ग्लानिर्न ते मूर्च्छा न तापो न च ते रुजा ।
प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत ॥

12.51.17

ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ ।
न च ते क्वचिदासत्तिर्बुद्धेः प्रादुर्भविष्यति ॥

12.51.18

सत्वस्थं च मनो नित्यं तव भीष्म भविष्यति ।
रजस्तमोभ्यां निर्मुक्तं घनैर्मुक्त इवोडुराट् ॥

12.51.19

यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि च ।
चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति ॥

12.51.20

इमं च राजशार्दूल भूतग्रामं चतुर्विधम् ।
चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम ॥

12.51.21

चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा ।
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले ॥
वैशम्पायन उवाच ।

12.51.22

ततस्ते व्याससहिताः सर्व एव महर्षयः ।
ऋग्यजुःसामसहितैर्वचोभिः कृष्णमार्चयन् ॥

12.51.23

ततः सर्वार्तवं दिव्यं पुष्पवर्षं न भस्तलात् ।
पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः ॥

12.51.24

वादित्राणि च सर्वाणि जगुश्चाप्सरसां गणाः ।
न चाहितमनिष्टं च किञ्चित्तत्र व्यदृश्यत ॥

12.51.25

ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः ।
शान्तायां दिशिशन्ताश्च प्रावदन्मृगपक्षिणः ॥

12.51.26

ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः ।
दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत ॥

12.51.27

ततो महर्षयः सर्वे समुत्थाय जनार्दनम् ।
भीष्ममामन्त्रयाञ्चक्रू राजानं च युधिष्ठिरम् ॥

12.51.28

ततः प्रणाममकरोत्केशवः सहपाण्डवः ।
सात्यकिः स्̤अञ्जयश्चैव स च शारद्वतः कृपः ॥

12.51.29

ततस्ते धर्मनिरताः सम्यक् तैरभिपूजिताः ।
श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः ॥

12.51.30

तथैवामन्त्र्य गाङ्गेयं केशवः पाण्डवास्तथा ।
प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ॥

12.51.31

ततो रथैः काञ्चनचित्रकूबरै र्महीधराभैः समदैश्च दन्तिभिः ।
हयैः सुपर्णैरिव चाशुगामिभिः पदातिभिश्चात्तशरासनादिभिः ॥

12.51.32

ययौ रथानां पुरतो हि सा चमू स्तथैव पश्चादतिमात्रसारिणी ।
पुरश्च पश्चाच्च यथा महानदी तमृक्षवन्तं गिरिमेत्य नर्मदा ॥

12.51.33

ततः पुरस्ताद्भगवान्निशाकरः । समुत्थितस्तामभिहर्षयंश्चमूम् ।
दिवाकरापीतरसा महौषधीः पुनः स्वकेनैव गुणेन योजयन् ॥

12.51.34

ततः पुरं सुरपुरसम्मितद्युति प्रविश्य ते यदुवृषपाण्डवास्तदा ।
यथोचितान्भवनवरान्समाविशन् श्रमान्विता मृगपतयो गुहा इव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc