भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.49

12.49.1

ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः ।
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ॥

12.49.2

अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः ।
विक्रमो वसुधा येन क्रोधान्निःक्षत्रिया कृता ॥

12.49.3

गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः ।
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ॥

12.49.4

अहो धन्यो नृलोकोऽयं समाग्याश्च नरा भुवि ।
यत्र कर्मेदृशं धर्म्यं द्विजाग्र्यैः कृतमच्युत ॥

12.49.5

कथयन्तौ कथां तात तावच्युतयुधिष्ठिरौ ।
जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ॥

12.49.6

ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् ।
स्वरश्मिमालासंवीतं सायंसूर्यसमप्रभम् ॥

12.49.7

उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् ।
देशे परमधर्मिष्ठे नदीमोघवतीमनु ॥

12.49.8

दूरादेव तमालोक्य कृष्णो राजा च धर्मजः ।
चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ॥

12.49.9

अवम्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः ।
एकीकृत्येन्द्रियग्राममुपतम्थुर्महामुनीन् ॥

12.49.10

अभिवाद्य तु गोविन्दः सात्यकिस्ते च पार्थिवाः ।
व्यासादीस्तानृपीन्पश्चाद्गाङ्गेयमुपतस्थिरे ॥

12.49.11

तपोवृद्धि ततः पृष्ट्वा गाङ्गेयं यदुपुङ्गवः ।
परिवार्य ततः सर्वे निपेदुः पुरुषर्षभाः ॥

12.49.12

ततो निशाम्य गाङ्गेयं शाम्यमानमिवानलम् ।
किञ्चिद्दीनमना भीष्ममितिहोवाच केशवः ॥

12.49.13

कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि यथापुरम् ।
कच्चिन्न व्याकुला चैव बुद्धिस्ते वदतां वर ॥

12.49.14

शराभिघातदुःखार्तं कच्चिद्गात्रं न दूयते ।
मानसादपि दुःखाद्धि शारीरं बलवत्तरम् ॥

12.49.15

वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो ।
शन्तनोर्धर्मनित्यस्य न त्वेतदिह कारणम् ॥

12.49.16

सुमूक्ष्मोऽपि तु देहे वै शल्यो जनयते रुजम् ।
किम्पुनः शरसन्घातैश्चितस्य तव पार्थिव ॥

12.49.17

कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ ।
भवानुपदिशेच्छ्रेयो देवानामपि भारत ॥

12.49.18

यच्च भूतं भविष्यं च भवच्च पुरुषर्षभ ।
सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ॥

12.49.19

संसारस्येह भूतानां धर्मस्य च फलोदयः ।
विदितस्ते महाप्राज्ञ त्वं हि धर्ममयो निधिः ॥

12.49.20

त्व, हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् ।
स्त्रीसहस्रैः परिवृतं पश्यामीवोर्ध्वरेतसम् ॥

12.49.21

ऋते शान्तनवाद्भीष्मात्रिषु लोकेषु पार्थिवम् ।
सत्यधर्मान्महावीर्याच्छूराद्धर्मैकतत्परात् ॥

12.49.22

मृत्युमावार्य तपसा शरसंस्तरशायिनः ।
त्रिवर्गप्रभवं कञ्चिन्न च तातानुशुश्रुम ॥

12.49.23

सत्ये तपसि दाने च यज्ञाधिकरणे तथा ।
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ॥

12.49.24

अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् ।
महारथं त्वत्सदृशं न कञ्चिदनुशुश्रुम ॥

12.49.25

त्वं हि देवान्सगन्धर्वानसुरान्यक्षराक्षसान् ।
शक्तस्त्वेकरथेनैव विजेतुं नात्र संशयः ॥

12.49.26

स त्वं भीष्म महाबाहो वसूनां वासवोपमः ।
नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ॥

12.49.27

अहं च त्वाऽभिजानामि स्वयं पुरुषसत्तम ।
त्रिदशेष्वपि विख्यातस्त्वं शक्त्या पुरुषोत्तमः ॥

12.49.28

मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः ।
भवतो हि गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ॥

12.49.29

त्वं हि सर्वगुणै राजन्देवानप्यतिरिच्यसे ॥

12.49.30

तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ।
किम्पुनश्चात्मनो लोकानुत्तमानुत्तमैर्गुणैः ॥

12.49.31

तदस्य तप्यमानस्य ज्ञातीनां सन्क्षयेन वै ।
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ॥

12.49.32

ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत ।
चातुराश्रम्यसंयुक्ताः सर्वे ते विदितास्तव ॥

12.49.33

चातुर्विद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत ।
योगे साङ्ख्ये च नियता ये च धर्माः सनातनाः ॥

12.49.34

चातुर्वर्ण्यस्य यश्चोक्तो धर्मो न स्म विरुध्यते ।
सेव्यमानः सवैयाख्यो गाङ्गेय विदितस्तव ॥

12.49.35

प्रतिलोमप्रसूतानां म्लेच्छानां चैव यः स्मृतः । देशजातिकुलानां च जानीषे धर्मलक्षणम् ।

12.49.36

वेदोक्तो यश्च शिष्टोक्तः सदैव विदितस्तव । प्रवृत्तश्च निवृत्तश्च स चापि विदितस्तव ॥

12.49.37

इतिहासपुराणार्थाः कार्त्स्न्येन विदितास्तव ।
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ॥

12.49.38

ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः ।
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभः ॥

12.49.39

स पाण्डवेयस्य मनःसमुत्थितं नरेन्द्र शोकं व्यपकर्ष मेधया ।
भवद्विधा ह्युत्तमबुद्धिर्विस्तरा विमुह्यमानस्य जनस्य शान्तये ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc